संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः

लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


लेप्यकर्म समृल्लक्ष्म लक्षा लक्ष्म च कथ्यते ।
वापीकूपतटाकानि पद्मिन्यो दीर्घिकास्तथा ।
वृक्षमूलं नदीतीरं पद्मिन्यो दीर्घिकास्तथा ॥१॥
वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च ।
मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्त्वतः ॥२॥
तासां वर्णः सिताक्षौद्र सन्निभो गौर एव च ।
कपिलश्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ॥३॥
इन्द्रा शीं! मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता ।
शाल्मलीमाषककुभं मधूकत्रिफलोद्भवम् ॥४॥
रसं विनिक्षिपेत्तस्यां पप्रेक्षस्यसिकथितां चापि ।
क्रमुकं चनका बिल्वे सटालोमालि वाजिनः ॥५॥
गवां रोमाणि वा दद्यान्नालिकेरस्य वल्कलम् ।
मृदां संयोज्य मृद्गीयाद्दद्याद्वा द्विगुणांस्तुषान् ॥६॥
वालुकातीवती चापि त्तपासांयोगयेन्मृदम् ।
भागद्वयं मृत्तिकायै कार्पासांशेन मिश्रयेत् ॥७॥
तदेकीकृत्य मृद्भागं तृतीयमुपरि क्षिपेत् ।
पूर्वोदितां सन्निधाय ततश्च कटशर्कराम् ॥८॥
कल्कं विधाय चीरेण रूपं तत्परिवेष्टितम् ।
तेन निर्यासयुक्तेन कुर्यादाकारमादृतः ॥९॥
कटशर्करया लिम्पेत् कूर्चकेन विचक्षणः ।
मृत्तिकाक्वाथसङ्घाताल्लेपकर्म प्रशस्यते ॥१०॥
रवयेल्लोहसङ्घातं लसंकार्यसुधामध्यये ।
युक्तं पक्षेत संयोज्य मोममान योजयेत् ॥११॥
अनेपकं समायुक्तं कर्तुः स्थानविनाशनम् ।
लेपकर्ममृत्तिकानिर्णयः ।
विलेखालक्षणं सम्यगिदानीमभिधीयते ॥१२॥
कूर्चनं कूर्चकेनाथ द्वितीयं हस्तकूर्चकम् ।
तृतीयं भासकूर्चाख्यं चतुर्थं चल्लकूर्चनम् ॥१३॥
वर्तनं पञ्चमं वर्तन्यकूर्चमान्यकूर्चनमिष्यते ।
लेप्यकर्मणि तच्छस्तमनामणवः ॥१४॥
जलचूर्णकमानीतमिह सत्सन्तितो --- ।
कूर्चकं धारयेद् धीमान् वृषश्रवणरोमभिः ॥१५॥
--- तत्कृतकूर्चकैः ।
वल्कलैर्वा विधातव्यः खरकेशैरथापि वा ॥१६॥
कूर्चको येमतिर्यापि विहितोऽत्र प्रशस्यते ।
कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥१७॥
तन्तूतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः ।
आद्यो वदाङ्कुराकारस्ततो स्वच्छाङ्कुराकृतिः ॥१८॥
प्लक्षसूचीनिभश्चान्यस्तृतीयः कूर्चको भवेत् ।
उदुम्बराङ्कुराकारश्चतुर्थः परिकीर्तितः ॥१९॥
स्थूला लेखा न कुर्वीत वटाङ्कुरनिभादितः ।
न्यूनलेखा न कुर्वीत प्लक्षाङ्कुरसमेन च ॥२०॥
अश्वत्थाङ्कुररूपेण यत्र विद्वतसहीकरात् ।
उदुम्बराङ्कुराकारो लेप्यकर्मणि शस्यते ।
ज्येष्ठः स्यादायतो दण्डो वैणवो --- ङ्गुलः ॥२१॥
लेप्यकर्म --- समासतः ।
संस्कृतेः विधिरनन्तरं मृदः ।
अत्र सम्यगुदिता विलेखनी ।
कूर्चकस्य रचना च पञ्चधा ॥२२॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे लेप्यकर्मविलेखाकूर्चकाध्यायो नाम त्रिसप्ततितमः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP