संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
चयविधिर्नामैकचत्वारिंशोऽध्यायः

चयविधिर्नामैकचत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इदानीमभिधीयन्ते चयस्येह गुणागुणाः ।
सुविभक्तः समश्चारुश्चतुरश्रश्चयः शुभः ॥१॥
असंभ्रान्तमसन्दिग्धमविनाश्यन्यबर्हितम् ।
अनुत्तममनुद्वृत्तमकुब्जं न च पीडितम् ॥२॥
समानखण्डमृज्वन्तमन्तरङ्गं तथैव च ।
सुपार्श्वं सन्धिसुश्लिष्टं सुप्रतिष्ठं सुसन्धि च ॥३॥
अजिह्मं चेति चेयस्य गुणा विंशतिरित्यमी ।
एतेषां वैपरीत्येन दोषाणामपि विंशतिः ॥४॥
दक्षिणां तु यदा कुड्यं विचिनोति बहिर्मुखम् ।
तदा व्याधिभयं विद्यान्मृत्युदण्डं च निर्दिशेत् ॥५॥
पश्चिमं तु यदा कुड्यं विचिन्वन्ति बहिर्मुखम् ।
धनहानिं तदा विद्याद्दस्युभ्यश्च भयं भवेत् ॥६॥
उत्तरं तु यदा कुड्यं विचिनोति बहिर्मुखम् ।
कर्तारं स्वामिनं वापि व्यसनं प्रापयेत्तदा ॥७॥
प्राच्यं बहिर्मुखं कुड्यं चिनोति स्थपतिर्यदा ।
राजदण्डभयं तत्र निर्देष्टव्यं विचक्षणैः ॥८॥
एतदेव फलं ब्रूयात्पतिते दलिते तथा ।
यस्य प्राग्दक्षिणः कर्णः प्रवर्तेत बहिर्मुखः ॥९॥
स्यात्तत्राग्निभयं घोरं गृहभर्तुश्च संशयः ।
गच्छेद्बहिर्मुखः कर्णो यदा दक्षिणपश्चिमः ॥१०॥
कलहोपद्र वस्तत्र स्याद्भार्यायाश्च संशयः ।
पश्चिमोत्तरकर्णे तु सम्प्रयाते बहिर्मुखे ॥११॥
पशुवाहनपुत्राणां संशयस्तत्र जायते ।
प्रागुत्तरो यदा कर्णः प्रचीयेत बहिर्मुखः ॥१२॥
गुरूणां संशयस्तत्र गोवृषादेश्च जायते ।
विशालं यदि जायेत सर्वबाहुषु चिन्वतः ॥१३॥
कर्णिकासमसंस्थानं तद्भवेन्मल्लिकाकृति ।
न तादृशो भवेदायस्तत्र यादृग्व्ययो भवेत् ॥१४॥
चयस्य तस्य दोषेण गृहक्षीणः पलायते ।
चिन्वतो यदि संक्षिप्तमत्यर्थं तत्र जायते ॥१५॥
ब्रह्मसंज्ञं तदुद्दिष्टं तत्र राजभयं भवेत् ।
विस्तृतं यदि बाह्येषु संक्षिप्तं चैव मध्यतः ॥१६॥
तनुमध्यं तदुद्दिष्टं तत्र विद्यात्क्षुधो भयम् ।
उच्छ्रितं यदि कर्णेषु परिहीणं च मध्यतः ॥१७॥
निर्णतं नाम तद्विद्यात्तत्र चौरभयं भवेत् ।
कर्णेषु परिहीणं चेदुच्छ्रितं चापि मध्यतः ॥१८॥
कूर्मोन्नतमिति ज्ञेयं सर्वदोषभयावहम् ।
विषमोन्नतकर्णेषु निर्दिशेद् द्र विणक्षयम् ॥१९॥
प्राज्यान्नपानं तद्विद्यात्समेषु विहितेषु च ।
इत्येते चीयमानस्य गुणदोषाः प्रकीर्तिताः ॥२०॥
तस्मात्सर्वप्रयत्नेन चयकर्म प्रयोजयेत् ।
उदकेन समं नीत्वा सम्यङ्निश्चयकारणम् ॥२१॥
तत्रा दृते न चान्यत् स्यान्निश्चयार्थं चयस्य च ।
तस्माज्जलेन वलयं गृह्णीयात्पूर्वमादृतः ॥२२॥
ततः सुताडिते सूत्रे चयं कुर्याद्विचक्षणः ।
द्विगुणां क्षेत्रमानस्य रज्जुं कृत्वा तदन्तयोः ॥२३॥
योऽसौ कार्यौ ततस्तस्यां पादोनक्षेत्रमानतः ।
दद्यान्निञ्छिनं कीलौ क्षेत्रगर्भान्तगामिनौ ॥२४॥
निधायायाः सकौ तस्याः प्रान्तस्थौ योजयेत्तयोः ।
निरञ्छनाभिकृष्टायां पादोनक्षेत्रसंमितम् ॥२५॥
भुजगत्या भवेद्र ज्जुस्तस्यामिष्टानुमानतः ।
चिह्नं दद्यात्स कर्णः स्यादेवं दोषान्प्रसाधयेत् ॥२६॥
भूरि नाच्छादनं दद्यान्न भिन्द्यात्तत्र चेष्टकाः ।
विषमस्थाः कुठारेण च्छित्त्वा ताः कल्पयेत्समाः ॥२७॥
यथा न च स्पृशेत्सूत्रं विचिन्वीत तथा बुधः ।
कुड्ये च सादिमध्यान्ते दृष्टिमेकां निपातयेत् ॥२८॥
यदा सर्वपरिक्रान्तं तलं चोद्घाटितं भवेत् ।
तदा नैकत्र कुर्वीत पर्यायेण विचक्षणः ॥२९॥
उद्घाटनं स्तराणां तु यदीच्छेत्सिद्धिमात्मनः ।
तत्र तत्र चयं कुर्याद्यदि संविद्धकं हितम् ॥३०॥
दुर्वहं हि भवेत्तेन तस्मात्तत्परिवर्जयेत् ।
उपरिष्टात्समं पार्श्वे भुजं कुर्याद्विचक्षणः ॥३१॥
समन्ताद्रुचकच्छिन्नश्चयो भित्तिषु पूजितः ।
तस्मात्प्रयत्नः कर्तव्यश्चयकर्मणि नित्यशः ॥३२॥
इति भाषितरूपितमाचरतश्चयकर्म यथाविधि शिल्पिकृतम् ।
भवतीह यशो भुवने विततं गृहभर्तृरपि प्रचुरो विभवः ॥३३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चयविधिर्नामैकचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP