संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
सभाष्टकं नाम सप्तविंशोऽध्यायः

सभाष्टकं नाम सप्तविंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


नन्दा भद्रा जया पूर्णा सभा स्याद्भाविता तथा ।

दक्षा च प्रवरा तद्वद्विदुरा चाष्टमी मता ॥१॥
चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते ।
मध्ये पदचतुष्कं स्यात्सीमालिन्दस्तु भागिकः ॥२॥
तद्वाद्योऽलिन्दकस्तद्वद्भवेत्प्रतिसराभिधः ।
प्राग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ॥३॥
निसृष्टसौर्धयैर्वा स्यादेकस्यां वा यदा दिशि ।
नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ॥४॥
षड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत् ।
सभा स्याद्भाविता नाम सप्राग्ग्रीवात्र पञ्चमी ॥५॥
स्तम्भान्षट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत् ।
स्तम्भान्प्राग्ग्रीवसंबद्धान्पृथगेभ्यो विनिर्दिशेत् ॥६॥
दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता ।
प्रवरा सप्तमी द्वारैर्युक्तैषा परिकीर्तिता ॥७॥
प्राग्ग्रीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा ।
सभानामिदमष्टानां लक्षणं समुदाहृतम् ॥८॥
इत्यष्टानां लक्ष्म सम्यक्सभाना- ।
मेतत्प्रोक्तं दिग्भवालिन्दभेदात् ।
तद्वद्द्वारालिन्दसंयोगश्च ।
ज्ञातेऽत्र स्याद्भूभृतां स्थानयोगः ॥९॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सभाष्टकं नाम सप्तविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP