संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः

वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम् ।
निवासहेतवे सम्यक्सर्वकर्मोपजीविनाम् ॥१॥
चतुरश्रं समं साचि दीर्घं वृत्तं च शम्वुकम् ।
शकटाक्षभगादर्शवज्रकन्थाकृतीनि च ॥२॥
छिन्नकर्णं विकर्णं च शङ्खाभं क्षुरसन्निभम् ।
शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ॥३॥
शरावस्वस्तिकाकारं मृदङ्गपणवोपमम् ।
विशर्करं कबन्धाभं यवमध्यसमाकृति ॥४॥
उत्सङ्गराजदन्ताभे तथा परशुसन्निभम् ।
विस्रावितं च श्वभ्रं च प्रलम्बं च विवाहिकम् ॥५॥
त्रिकुष्टं पञ्चकुष्टं च परिच्छिन्नं तथापरम् ।
दिक्स्वस्तिकाभं श्रीवृक्षं वर्धमानसमाननम् ॥६॥
एणीपदं नरपदं चत्वारिंशत्समासतः ।
क्षेत्रान्युक्तान्यथामीषां विनियोगो विधीयते ॥७॥
चतुरश्रे समे राजा शय्याकारे पुरोहिताः ।
दीर्घे कुमारकाः सेनापतिर्वृत्तायते वसेत् ॥८॥
वसेयुः शम्बुकाकारे सर्वे वाहाः सुखार्थिनः ।
अन्तःपुरं सद्म समे वाणिजाः शकटाकृतौ ॥९॥
वेश्यास्तु भगसंस्थाने दर्पणाभे सुवर्णकृत् ।
संस्थानतो वज्रसमे जना नगरगोष्ठिकाः ॥१०॥
वसेयुः शङ्खसंस्थाने क्षेत्रे पुत्राभिलाषिणः ।
छिन्नकर्णे महामात्रा विकर्णे मृगलब्धकाः ॥११॥
शङ्खाभे चैकदृश्वानो गणाचार्याः क्षुरोपमे ।
व्रताध्यक्षः शक्तिमुखे कूर्मपृष्ठे तु मालिकाः ॥१२॥
सदंशे सौचिका वाजिपोषिका व्यजनोपमे ।
तक्षाणश्च शरावाभे स्वस्तिके वन्दिमागधाः ॥१३॥
पणवाभे मृदङ्गाभे वेणुतूर्यादिवादकाः ।
विशर्करे तु रथिनः कबन्धप्रतिमे पुनः ॥१४॥
नीचाः श्वपाकाश्च यवप्रतिमे धान्यजीविनः ।
उत्सङ्गे श्रमणा हस्त्यारोहिणो राजदन्तके ॥१५॥
परशुप्रतिमे क्षेत्रे बन्धनागारिणो जनाः ।
विस्राविणि सुराकाराः श्वभ्रामे कर्मकारिणः ॥१६॥
युगले नापिताः स्वाविवाहव्ये कोशरक्षिणः ।
त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्निजीविनः ॥१७॥
समन्ततः परिच्छन्ने सर्वे मानोपजीविनः ।
दिक्स्वस्तिके तु चैत्यानि कुर्याद्वासांश्च सर्वशः ॥१८॥
श्रीवृक्षप्रतिमे वृक्षान् यज्ञवाटांश्च कारयेत् ।
वर्धमानाकृतिमुखेऽप्येतानेव प्रकल्पयेत् ॥१९॥
एणीपदे तु गणिकाश्चौरान् नरपदोपमे ।
इत्युक्ताः शुभदा वासाः सर्वकर्मोपजीविनाम् ॥२०॥
कर्मोपजीविजनवासनिमित्तमेताः ।
क्षेत्राकृतीरभिहिताः प्रविमृश्य तेषाम् ।
वेश्मानि कारयति यः स्थपतिर्यथाव- ।
न्मान्यः स कस्य न भवेदिह भूमिपृष्ठे ॥२१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वास्तुसंस्थानमातृकानामाष्टात्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP