संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः ।
तदा गवां वृषाणां च गुरूणां च क्षयो भवेत् ॥५१॥
चतस्रो भित्तयो यस्य बहिर्निर्यान्ति वेश्मनः ।
चीयमानास्तदत्रोक्तं मन्दिरं मल्लिकाकृति ॥५२॥
तादृग् गृहे न तत्रायो व्ययो भवति यादृशः ।
कर्शितोऽस्यैव दोषेण तस्य भर्त्ता पलायते ॥५३॥
संक्षिप्यते तु यद्वेश्म चीयमानं समन्ततः ।
संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ॥५४॥
यत्स्यादन्तेषु संक्षिप्तं विस्तृतं चापि मध्यतः ।
मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥५५॥
आद्यन्तविस्तृतं यत्स्यात्संक्षिप्तं चापि मध्यतः ।
मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥५६॥
विषमैरुन्नतैः कर्णैर्धनक्षयकरं गृहम् ।
भित्तिवच्चापि कर्णेषु प्रागुक्तं फलमादिशेत् ॥५७॥
मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन ।
मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥५८॥
द्वारं द्वारेण वा विद्धमशुभायोपपद्यते ।
अनिष्टद्र व्यसंयुक्तं धनधान्यबिनाशनम् ॥५९॥
नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति ।
अधोग्रं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥६०॥
नवं पुराणसंयुक्तं द्र व्यं तु कलिकारकम् ।
न मिश्रजातिद्र व्योत्थं द्वारं वा वेश्म वा शुभम् ॥६१॥
गृहस्थानेषु यद्द्रव्यमधिवास्य प्रतिष्ठितम् ।
तच्चालनेन चलनं गृहभर्तुः प्रजायते ॥६२॥
अन्यवास्तुच्युतं द्र व्यमन्यवास्तौ न योजयेत् ।
प्रासादे न भवेत्पूजा गृहे च न वसेद्गृही ॥६३॥
द्र व्येण देवदग्धेन भवनं यद्विधीयते ।
न तत्र वसति स्वामी वसन्नपि विनश्यति ॥६४॥
सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता ।
द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥६५॥
प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता ।
त्रिपञ्चसप्तमी भर्तुर्गृहतारा न शोभना ॥६६॥
निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् ।
वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥६७॥
निम्ने स्यात्स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते ।
सम्मुखे सुतपीडा स्यात्पृष्ठगे चपलाः स्त्रियः ॥६८॥
वामे वित्तक्षयो द्वारि भवत्यग्रतरे प्रभोः ।
द्वारं तस्मान्न कर्तव्यमीदृग्रूपं विचक्षणैः ॥६९॥
नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः ।
द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥७०॥
इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् ।
निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥७१॥
यानीन्द्र जालतुल्यानि यानि मिथ्याकृतानि च
भीषणानी च यानि स्युर्न कुर्यात्तानि वेश्मसु ॥७२॥
स्वयमुद्धाटितं द्वारमुच्चाटनकरं भवेत् ।
धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥७३॥
स्वयं यत्पिहितं द्वारं तद्भवेद्बहुदुःखदम् ।
सशब्दं भयकृत्पादशीतलं गर्भपातनम् ॥७४॥
द्र व्यं नाधोमुखं कार्यं प्रत्यग्याम्याननं न च ।
पश्चिमाग्रे परिक्लेशो दक्षिणाग्रे तु शून्यता ॥७५॥
स्तम्भद्वारं च भित्तिं च विपरीतं न कारयेत् ।
अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥७६॥
मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि ।
उपर्युपरि यद्वेश्मसमं संतापकारकम् ॥७७॥
अधोभूमौ क्षणा ये स्युस्तत्समांश्चोर्ध्वभूमिषु ।
परित्यजन्नपहिता न कुर्वीत यथोत्तरम् ॥७८॥
शाला निम्ना भवेद्यस्मिन्नलिन्दस्त्वधिको भवेत् ।
निधनं जायते तत्र सदा शोकभयानि च ॥७९॥
मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु ।
कुर्याद्भयप्रदानि स्युर्विहितान्यन्यथा पुनः ॥८०॥
क्षुद्भयप्रदमाध्मानं कुब्जं कुलविनाशनम् ।
अत्यर्थं पीडितं पीडां करोत्यन्तनतं क्षयम् ॥८१॥
प्रवासो बाह्यविनते दिग्भ्रान्ते दस्युतो भयम् ।
मूलद्वारं क्षयं कुर्याद्विद्धं द्वारान्तरेण यत् ॥८२॥
प्रवासो भृत्यजो द्वेषो विद्धे चत्वररथ्यया ।
नाशं द्र व्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥८३॥
पङ्कविद्धे भवेच्छोकः सलिलस्राविणि व्ययः ।
कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥८४॥
स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः ।
मानादभ्यधिके द्वारे राजतो जायते भयम् ॥८५॥
व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् ।
व्याधयः श्वभ्रविद्धेन धनस्य च परिक्षयः ॥८६॥
देवध्वजेन बन्धः स्यात्सभयैश्वर्यसंक्षयः ।
सन्निपातभयं वाप्या तुल्या दृष्टत्वमाकृते ॥८७॥
हृद्रुक्कुलालचक्रेण दारिद्रयं वारिणा भवेत् ।
व्याधिरुक्कचकूटेन आपाकेन सुतक्षयः ॥८८॥
निश्चतोदूखलेन स्याच्छिलया चाश्मरी भवेत् ।
तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥८९॥
दारिद्रयं छायया विद्धे भवेद्द्वारे कुटुम्बिनः ।
स्थलस्यन्दनवल्मीकैर्विदेशगमनं भवेत् ॥९०॥
कृशं विकृतमत्युच्चं करालं शिथिलं पृथु ।
वक्रं विशालमुत्तानं शूलाग्रं ह्रस्वकुक्षिकम् ॥९१॥
स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम् ।
पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥९२॥
तत्करोति क्षयं घोरं विनाशं स्वामिसम्पदः ।
वसतां कलहं नित्यमतस्तत्परिवर्जयेत् ॥९३॥
अन्तर्द्वाराद्बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम् ।
उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥९४॥
पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात्कथञ्चन ।
कर्तुस्तदा विनाशः स्यात्कुलस्य च परिक्षयः ॥९५॥
तुला उपतुला वा स्युर्द्वारि तिर्यग्यदा कृताः ।
दारिद्र य्व्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥९६॥
अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे ।
वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥९७॥
उदुम्बरे निहिताललाटी नाम सा तुला ।
दूषणं मरणं वापि कन्यानां विदधाति सा ॥९८॥
उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि ।
तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥९९॥
तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी ।
वसतो व्यसनं कुर्यात्कुटुम्बस्यासुखं च सा ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP