संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः

वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथान्यान्यभिधीयन्ते चेष्टास्थानान्यनेकशः ।
यानि ज्ञात्वा न मुह्यन्ति --- चित्रविचक्षणाः ॥१॥
वैष्णवं समपादं च वैशाखं मण्डलं तथा ।
प्रत्यालीढमथालीढं स्थानान्येतानि लक्षणम् ॥२॥
अश्वक्रामत्तमथायामविहितनाकत्रयं स्त्रीणाम् ।
द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ॥३॥
तयोः समन्वितस्त्वैकस्त्र्यश्रः पक्षस्थितोऽपरः ।
किञ्चिदञ्चितजङ्घं च शगात्रभोज्यचसंयुतम् ॥४॥
वैष्णवस्थानमेतद्धि विष्णुरत्राधिदैवतम् ।
समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥५॥
स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् ।
तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥६॥
अश्रमेकं द्वितीयं च पादं पक्षस्थितं लिखेत् ।
नैपमोरु भवत्येवं स्थानं वैशाखसंज्ञितम् ॥७॥
विशाखो भगवानस्य स्थानकस्याधिदैवतम् ।
ऐन्द्रं स्यान्मण्डलं पादौ चतुर्मूलान्तरस्थितौ ॥८॥
त्र्यश्रपक्षस्थितिश्चैव कटिर्जानुसमा तथा ।
प्रसार्य दक्षिणं पादं पञ्चतालान्तरस्थितम् ॥९॥
आलीढं स्थानकं कुर्याद् रुद्र श्चात्राधिदैवतम् ।
कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसारयेत् ॥१०॥
आलीढं परिवर्तेन प्रत्यालीढमिति स्मृतम् ।
दक्षिणस्तत्र समः पादस्त्र्यश्रः पक्षस्थितोऽपरः ॥११॥
समुन्नतकटिर्वामश्चावहित्थं तदुच्यते ।
एकः समस्थितः पादो द्वितीयोऽग्रतलान्वितः ॥१२॥
शूद्वमविद्धं वातश्चक्रान्त उच्यते ।
स्थानत्रयमिदं स्त्रीणां नृणामपि भवेत्क्वचित् ॥१३॥
कटीपार्श्वे करौ वक्त्रमुरो ग्रीवा शिरस्तथा ।
स्थानकेषु समस्तेषु कार्यमेतत् क्रियानुगम् ॥१४॥
क्रियाणां पुनरानन्त्यात् समस्तेन न शक्यते ।
वक्त्रं तथापि दिङ्मात्रमस्माभिः संप्रदर्श्यते ॥१५॥
हृष्टायाः प्रियनार्याः पुरुषस्य वा प्रियाभ्यर्णे ।
भवति स्थितसंस्थानं त्रिभिरिति तच्च कथयामः ॥१६॥
यद्ब्रह्मसूत्रमृज्वागते भवेत् तन्मतृभागेऽपि ।
अवयवविभागतस्तत्कथयामः साम्प्रतं क्रमशः ॥१७॥
शीनं तत्रय विनासिकाधरपुटेषु सृक्वणि च ।
कंगंते परचूचुकपूर्वेण कलान्तरे नाभौ ॥१८॥
पश्चादूरोर्मध्ये पश्चिमगुल्फस्य तद्वदन्ते च ।
स्थाने त्रिभगा भामिनि सूत्रस्य गतिर्विनिर्दिष्टा ॥१९॥
पादौ तालान्तरितौ कर्तव्यौ स्थानके त्रिभङ्गाख्ये ।
षोडशविंशत्यङ्गुलमध्येऽन्तरितो पितुदडिदाक्षे ॥२०॥
गमनं त्रिविधं प्राहुद्रुतमध्यविलम्बितप्रभेदेन ।
स्थानेष्वर्धनेत्राख्यभित्तिषु त्रयगमध्ये ॥२१॥
प्रान्ते करवीरस्याथ --- सृक्वपर्यन्ते ।
कण्ठान्ते परभागा स्तनतोगुलदुम्मपर्यन्ते ॥२२॥
नाभ्यासन्ने मध्ये मेढ्रस्य तथा परस्य नलकस्य ।
प्रान्ते वज्जायाते गमने स्याद् ब्रह्मसूत्रगतिः ॥२३॥
सोधेगमने तु पूर्वे लोचनखीरके पुटे तद्धि ।
तविबुकरान्ते स्तनचूकस्य मध्ये तथा नाभौ ॥२४॥
मध्ये मेढ्रस्यान्ते --- परजानुनः क्रमेणैव ।
अपराङ्गुष्ठकमूले विज्ञेयं ब्रह्मसूत्रमिति ॥२५॥
परपादद्वाद्वक्षि स्थित्या क्रियते तथाच पूर्वाह्णे ।
कुर्यात् तलमिह भूतलसूत्रार्धं --- गुलोत्क्षिप्तम् ॥२६॥
भूपर्यन्तेऽपाङ्गे चिबुकांशो गोलकान्तरे नाभेः ।
सूत्रपरत्वतः पूर्वेण परावसार्धाक्षे ॥२७॥
पार्श्वगते संस्थाने पश्चिमपादोऽत्र सप्तगोलः स्यात् ।
द्व्यर्धाक्षगमनमुक्तं ब्रूमः पार्श्वागतेर्गमनम् ॥२८॥
आवर्ते --- कूटे गण्डप्रान्ते च सृक्वभागस्य ।
गलवर्त्तौ स्तनमध्ये गोलत्रितयान्तरे नाभेः ॥२९॥
स्फिक्पार्श्वपश्चिमजानुनश्चा पूर्वार्तमामृतं सूत्रम् ।
स्यादपरपार्ष्णिपूर्वस्थितं चभिवेत्थोने ॥३०॥
क्षपयेत् परभागाह्नि स्वस्मान्मानाद्यथोदितादत्र ।
पूर्वाह्नेरङ्गुष्ठः कर्तव्यो भूमिसूत्रस्थः ॥३१॥
पश्चादङ्गुष्ठाग्रं सुश्लिष्टं स्याद् विलम्बिते गमने ।
अङ्गुष्ठाङ्गुले ब्रह्मसूत्रतस्तालिके मध्ये ॥३२॥
द्रुतगमनेऽङ्गुष्ठाग्रं कर्तव्यं षोडशाङ्गुले तस्मात् ।
परपादाभूमेसः प्रोत्क्षिप्तो भवति पूर्वपादश्च ॥३३॥
इति सर्वेषु ज्ञेयं गमनस्थानेषु संस्थानम् ।
गोत्राणां मध्येषां विदधीत बुधः स्थितिं यथायोगम् ॥३४॥
विन्यासयोषणक्षिप्तण दृष्टिहस्तादिविनिवेशैः ।
अथ स्थानचतुष्कस्य प्रविच्छन्दककीर्तनात् ॥३५॥
अन्या अपि क्रिया लेख्याः सम्भवन्तीह या नृणाम् ।
शिष्याणां प्रतिपत्त्यर्थं सूत्राणि त्रीणि पातयेत् ॥३६॥
ब्रह्मसूत्रगते सूत्रे ये च पार्श्वसमाश्रये ।
ऊर्ध्वानि त्रीणि सूत्राणि स्थानकेष्वभिष्वपि ॥३७॥
कुर्वीत तेषु मध्ये यद्ब्रह्मसूत्रं तदुच्यते ।
भित्तिके पुनरन्यस्य भागस्यापेक्षया मतम् ॥३८॥
पार्श्वस्थं ब्रह्मसूत्रं स्यात्कार्यतो मध्यगं हि तत् ।
ये द्वयोः पार्श्वयोः सूत्रे --- हि ते स्मृते ॥३९॥
प्रदेशावयवस्यात्र निष्पत्त्यै यद्यदीप्सितम् ।
तत्र सूत्रं विधातव्यं तिर्यगूर्ध्वानुसारतः ॥४०॥
अपेक्षेतानि यावन्ति प्रत्यङ्गव्यक्तिसिद्धये ।
तावन्त्यवयवव्यक्तिसिद्ध्यै तिर्यङ्नियोजयेत् ।
ऊर्ध्वानि त्रीणि सूत्राणि तिर्यङ्ना नुसारतः ॥४१॥
स्थानानि वैष्णवमुखान्युदितानि सम्यक् ।
त्रिमंगितडिते गमनैरुपेते ।
सूत्रस्य पातनविधिश्च यथावदुक्तो ।
ज्ञाते न भवेत् तदिह सूत्रभृतां वरिष्ठः ॥४२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वैष्णवादिस्थानकलक्षणाध्यायो नामाशीतितमः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP