संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः

रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रसानामथ वक्ष्यामो दृष्टीनां वेइ लक्षणम् ।
तदायत्ता यतश्चित्रे भावव्यक्तिः प्रजायते ॥१॥
शृङ्गारहास्यकरुणा रौद्र प्रेयोभयानकाः ।
वीरप्रत्ययाक्षौ च बीभत्सश्चाद्भुतस्तथा ॥२॥
शान्तश्चैकादशेत्युक्ता रसाश्चित्रविशारदैः ।
निगद्यते क्रमेणैषां सर्वेषामपि लक्षणम् ॥३॥
सभ्रूकम्पकटीक्षपेच तथा प्रेमगुणान्वितः ।
यत्रेष्टललिता चेष्टा स शृङ्गारो रसः स्मृतः ॥४॥
विकासिललितापाङ्गो मृदु चा स्फुरिताधरः ।
लीलया सहितो यश्च स हास्यो रस उच्यते ॥५॥
अश्रुक्लिन्नकपोलान्तः शोकसङ्कुचितेक्षणः ।
चित्तसन्तापसंयुक्तः प्रोच्यते करुणो रसः ॥६॥
निर्मार्जितललाटान्तः संरक्तोद्वृत्तलोचनः ।
दन्तदष्टाधरोष्ठो यः स रौद्रो रस उच्यते ॥७॥
अर्थलाभसुतोत्पत्तिप्रियदर्शनहर्षजः ।
सञ्जातपुलकोद्भेदो रसः प्रमा स उच्यते ॥८॥
वैरिदर्शनवित्राससम्भ्रमोद्भ्रान्तलोचनः ।
हृदि संक्षोभयोगाच्च रसो ज्ञेयो भयानकः ॥९॥
अष्टावष्टम्भसमेर्था सूत्रसङ्कुचितानतः ।
धैर्यवीर्यबलोत्पन्नः स वीरस्तु रसः स्मृतः ॥१०॥
ईषदुप्तसित्तत्र कस्तच्च स्तिमिततारकः ।
ससम्भाव्यं विलोक्यार्थमद्भुतो जायते रसः ॥११॥
अधिविकारैः प्रसन्नैश्च भ्रूनेत्रवदनादिभिः ।
अरागाद्विषयेषु स्याद्यः स शान्तो रसः स्मृतः ॥१२॥
इत्येते चित्रसंयोगे रसाः प्रोक्ताः सलक्षणाः ।
मानुषाणि पुरस्कृत्य सर्वसत्त्वेषु योजयेत् ॥१३॥
इति रसाः ।
अथ दृष्टीरभिदध्मो ललिता हृष्टा विकासिता विकृता ।
भ्रुकुटी विभ्रमसंज्ञा संकुचिता छवितनाप्रीव ॥१४॥
ऊर्ध्वगता योगिन्यथ दीना दृष्टा च विविष्टह्वला खेवे ।
स्यादङ्किता भिधाना विविख्याव जिह्मा च ॥१५॥
मध्यस्थेति तथान्या स्थिरेति चाष्टावेवमुद्दिष्टा ।
एता दृशोऽथ लक्षणमेतासामुच्यते क्रमशः ॥१६॥
विकसितप्रगल्लाससम्भ्रमत्र कटाक्षविक्षेपा ।
शृङ्गाररसोद्भूता दृष्टिर्ललितेति विज्ञेया ॥१७॥
प्रियदर्शने प्रसन्नां प्रोद्गतरोमाञ्चविकसितापाङ्गा ।
प्रस्तरसासिजाता हृष्टा दृष्ठिः समाख्याता ॥१८॥
विकसितनयनप्रान्ता विकासितापाङ्गनयनगण्डतला ।
क्रीडाकारयुताहास्यरसे विकासिता दृष्टिः ॥१९॥
विख्याता प्रीतिविकारिर्व्यक्तभया भ्रान्ततारका या च ।
ज्ञेया विकृत्यकारैः सारै च भयानका दृष्टिः ॥२०॥
दीप्तोर्थताकातास्रप्रतता मन्ददर्शना ।
दृष्टिरूर्ध्वं निविष्टा तु भ्रूकुटिः परिकीर्तिता ॥२१॥
सत्त्वस्था दृढलक्ष्मा ससौष्ठ व्यक्ततारका सौम्या ।
विप्रत्यपरजालाता दृष्टिः स्याद् विभ्रमा नाम ॥२२॥
मन्मथमदेन युक्ता स्पर्शरसोन्मीलिताक्षिपुटयुग्मा ।
सुतरुसुखानन्दयुतासङ्कुचिता नाम दृष्टिराख्याता ॥२३॥
निर्विकारा क्वचित्तावन्नासिकाग्रावलोकिनी ।
योगिनी नाम सा दृष्टिस्तत्त्वे चित्तस्य योजनात् ॥२४॥
अर्धस्रस्तोत्तरपुटा किञ्चित्संरुद्धतारका ।
मन्दसञ्चारिणी सास्रा शोके दीनाभिधीयते ॥२५॥
संस्थिते तारके यस्याः स्थिरा विकसिता तथा ।
सत्त्वमुद्गिरती दृष्टा दृष्टिरुत्साहसम्भवा ॥२६॥
म्लानभ्रूपुटपक्ष्मा या शिथिला मन्दचारिणी ।
क्रामप्रविष्टतारा च विह्वला तामला स्मृता ॥२७॥
किञ्चिच्चला स्थिरा किञ्चिदुत्ताना तिर्यगायता ।
मूढा चकिततारा च शङ्किता दृष्टिरिष्यते ॥२८॥
आनिकुञ्चितपक्ष्मा या पुटैराकुञ्चितस्ता तथा ।
सत्रिजन्त ---तारा च कुञ्चिता दृष्टिरुच्यते ॥२९॥
लम्बितार्धपुटा --- तिर्यग्रूक्षेक्षणा शनैः ।
निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥३०॥
ऋजुतारा ऋजुपुटा प्रसन्ना रागवर्जिता ।
त्यक्तादरा च विषये मध्यस्था दृष्टिरुच्यते ॥३१॥
समतारा समपुटा समभ्रूरविकारिणी ।
उपगारा विहीना च स्थिरा दृष्टिः प्रकीर्तिता ॥३२॥
हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् ।
सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥३३॥
आङ्गिके चैव चित्रे --- साधनमुच्यते ।
भवेदत्रादतस्तस्मादनयोश्चित्रमाश्रितम् ॥३४॥
दृष्टिः ।
प्रोक्तं रसानामिदमत्र लक्ष्म दृशां च सांक्षिप्ततया तदेत्येत् ।
विज्ञेयचित्रालिखनान्तराणां न संशयं याति मनः कदाचित् ॥३५॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे रसदृष्टिलक्षणाध्यायो नाम द्व्यशीतितमः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP