संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
२०१ ते २२३

यन्त्रविधानं नामैकत्रिंशोऽध्यायः - २०१ ते २२३

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


चतुरश्रमथ क्षेत्रं कृत्वांशैर्भाजितं ततोऽष्टाभिः ।
काणैः शेषैस्तस्मिंश्चतुरश्रं कल्पयेद्भद्र म् ॥२०१॥
तद्द्विगुणमूर्ध्वमेतस्य भूमिकाभागसङ्ख्यया कार्यम् ।
तत्राद्यंशचतुष्केण भूमिका स्यात्समुच्छ्रयतः ॥२०२॥
तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि ।
क्रमशो भवन्त्यथैवं ताः स्युस्तिस्रोऽर्धसंयुक्ताः ॥२०३॥
शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या ।
त्रिचतुर्भूम्यौ कार्ये सषट्चतुर्भागविस्तारे ॥२०४॥
रङ्गः स्यादाद्यभुवि द्वितीयभुवि कोणगास्तथा रथिकाः ।
स्युर्भद्रा कृतियुक्ता दोला अपि तत्र रमणीयाः ॥२०५॥
रथिकास्तृतीयभूमौ कार्या भद्रे षु चातिरमणीयाः ।
कोणेष्वथासनान्यर्धवास्तुकेऽपि भ्रमः कार्यः ॥२०६॥
दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र ।
आसनमिह तत्कथितं युवतेः स्थानं यदेकं स्यात् ॥२०७॥
निखिलान्यपि भ्रमणसंमुखं तानि बिभ्रति भ्रमणम् ।
यत्रासनानि स इह भ्रम इत्युक्तोऽपराधिका ॥२०८॥
यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं योजयेदेकम् ।
लघुचक्राणि च तद्वन्नियोजयेदासनेष्वत्र ॥२०९॥
लघुचक्रारकवृत्ते संलग्नाः कीलका दृढाः कार्याः ।
तुल्यान्तराः समस्ताः प्रलघुचक्रारवृन्तगताः ॥२१०॥
रथिकाशिखाग्रचक्रं भ्रमचक्रारकनियोजितं कार्यम् ।
यष्टिचतुष्टयमसिंस्तिर्यक् चक्रद्वयोपेतम् ॥२११॥
ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात् ।
नियतं रथिकायष्टिभ्रमसंलग्नानि यन्त्राणि ॥२१२॥
आसनाधारयष्टीनां रथिकाचक्रयोजितान् ।
अधः समान्तरान्कुर्याच्चतुरः परिवर्तकान् ॥२१३॥
तद् द्वितीयभूमीदोलागर्भे समान्तरे यष्टी ।
लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् ॥२१४॥
तद्वदधो भूकोणगरथिकाचूडाग्रचक्रसंसक्ताः ।
यष्टीस्ततश्चतस्रो द्विचक्रका इतरचक्रयोर्न्यस्येत् ॥२१५॥
प्रान्तचक्रद्वये कोणरथिकाचक्रयोजिता ।
दोलागर्भगता यष्टिस्तिर्यक् कार्यापरापरा ॥२१६॥
पूर्वे भद्रे द्वारं कुर्यात्सोपानराजितमधस्तात् ।
गर्भात्पश्चिमभागे निवेशयेद्देवतादोलाम् ॥२१७॥
अन्योन्यं चक्रभ्रममिच्छामुक्तिं विधानतः सम्यक् ।
ज्ञात्वा प्रयोजनीयं शीघ्रवहं मन्दवहनं वा ॥२१८॥
एष समासेन यथा भ्रममागः कीर्तितः स्फुटोऽस्माभिः ।
अन्येष्वपि कर्तव्यः सम्यग् भ्रमहेतवे तद्वत् ॥२१९॥
स्तम्भादिद्र व्याणां विन्यासैः कल्पितं दृढैः श्लक्ष्णैः ।
सुश्लिष्टसन्धिबन्धं धृतं तथा दीर्घमुख्यधरैः ॥२२०॥
परिवारितमथ तिलकैः समन्ततः सिंहकर्णसम्युक्तम् ।
त्रिपुरं सम्यक् कुर्याद् विचित्ररूपं कैश्चित्रैः ॥२२१॥
बुद्ध्या कॢप्तैः पूर्वयन्त्रैश्च युक्तं यन्त्राध्यायं वेत्ति यः सम्यगेतम् ।
प्राप्नोत्यर्थान् वाञ्छितान् कीर्त्तियुक्तान् स क्ष्मापालैरन्वहं पूज्यते च ॥२२२॥
एतद्द्वाडशराजचक्रमखिलं क्ष्मापालचूडामणे- ।
र्दोःस्तम्भप्रतिबद्धवृत्ति परितो यस्येच्छया भ्राम्यति ।
स श्रीमान् भुवनैकरामनृपतिर्देवो व्यधत्त द्रुतं ।
यन्त्राध्यायमिमं स्वबुद्धिरचितैर्यन्त्रप्रपञ्चैः सह ॥२२३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वासुशास्त्रे यन्त्रधिघानं नामैकत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP