संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः

प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


प्रासादानां चतुःषष्टिरिदानीमभिधीयते ।
या पूर्वं ब्रह्मणा दत्ता प्रासादा विश्वकर्मणे ॥१॥
मर्मवेधस्थिता वास्तुदेवाः पूज्या यथोचितम् ।
पूज्यता च स्मृता तेषां प्रासादे मण्डपे ध्वजे ॥२॥
आसने वाहने तद्वत्सर्वोपकरणेष्वपि ।
प्रासादे यादृशश्छून्दस्तादृङ्मन्दपीठयोः ॥३॥
तथा वास्तुविरुद्धं स्यात्प्रासादाङ्गे हिते विदुः ।
अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक्पृथक् ॥४॥
शम्भोर्हरेर्विरिञ्चस्य ग्रहाणामधिपस्य च ।
चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ॥५॥
विमानः सर्वतोभद्रो गजपृष्ठोऽथ पद्मकः ।
पृषभो मुक्तकोणश्च नलिनो द्रा विडस्तथा ॥६॥
इत्येतेऽष्टौ समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः ।
गरुडो वर्धमानश्च शङ्खावर्तोऽथ पुष्पकः ॥७॥
गृहरस्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः ।
कार्या जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥८॥
मेरुमन्दरकैलासा हंसाख्यो भद्र एव च ।
उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥९॥
इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः ।
गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥१०॥
श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च ।
एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥११॥
नन्द्यावर्तश्चैव चलभश्चर्णदिख्यः सिंह एव च ।
विचित्रो योगपीठश्च घण्टानादपताकिनौ ॥१२॥
अष्टावेते विधातव्याश्चण्डिकायाः सुरालयाः ।
गुहारसलोकश्च वेणुभद्रो ऽथ कुञ्जरः ॥१३॥
तथा च हर्षविजयावुदकुम्भोऽथ मोदकः ।
एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥१४॥
महापद्म हर्म्यननलमुज्जयन्तस्तथा परः ।
गन्धमादनसंज्ञं च शतशृङ्गानवष्ककौ ॥१५॥
सुविभ्रान्तो हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः ।
वृत्तो वृत्तायतश्चैत्यः किङ्किणीलयनाभिधः ॥१६॥
पट्टिशो विभवाख्यश्च ततश्चारागणाष्टमः ।
कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥१७॥

इति प्रासादस्तवनं नामाष्टपञ्चाशत्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP