भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - ५१ ते १००
द्वौ बालपञ्जरकस्यैतौ मध्ये प्रतिरथस्य च ।
प्रतीरथः पञ्जो वा बालपञ्जरकस्तथा ॥५१॥
शालापल्लविकां यावदेतानि तु पृथक्पृथक् ।
भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥५२॥
विभाजयेत्तान् दशभिर्विभागैर्वास्तुतत्त्ववित् ।
गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥५३॥
आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च ।
प्रासादेऽस्मिन्निदं सर्वं पूर्ववत् कथितं बुधैः ॥५४॥
तत्पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् ।
द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥५५॥
पदपादविहीनास्तु शेषाः स्युः सप्त भूमयः ।
पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥५६॥
स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा ।
शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥५७॥
शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत् ।
य इमं कारयेद्भक्त्या प्रासादं नवमालिकम् ॥५८॥
तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः ।
नवमालिकः ।
इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥५९॥
वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् ।
आश्रयः श्रेयसामेको यशसामपि राशयः ॥६०॥
भुक्तिमुक्तिप्रदातारः समागते कृता नृणाम् ।
तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥६१॥
किरणः शतशृङ्गश्च निरवद्यस्तथापरः ।
सर्वाङ्गसुन्दरश्चेति प्रासादा वृक्षजातयः ॥६२॥
न विस्तरान्न संक्षेपाल्लक्ष्मैषामथ कीर्त्यते ।
तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥६३॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।
विभक्ते दशभिर्भागैर्भवेद्गर्भस्त्रिषट्पदः ॥६४॥
तत्र शेषेण कुर्वीत --- चतुष्टयम् ।
--- ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥६५॥
दिग्विदिक्ष्वष्ट कर्णाः स्युः सलिलान्तरभूषिताः ।
समन्त भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥६६॥
वेदीबन्धो विधातव्यः सार्धांशस्य पदद्वयम् ।
--- सार्धचतुर्भिर्विभजेत्पदैः ॥६७॥
कुम्भकं द्वि --- ।
भागार्धेनान्तरं पत्रं कपोताली च भागिका ॥६८॥
वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध --- ।
स्यादर्धपञ्चमैर्भागैः सोच्छालस्तलकुम्भकः ॥६९॥
आद्यभूमौ भवेत्कूटं भागत्रितयलक्षितम् ।
प्रासादे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥७०॥
द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रिताः ।
अर्धेनोच्छालकस्तम्भैः कूटोच्छ्रायस्तथोर्ध्वतः ॥७१॥
पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत् ।
चतुर्थीं रचयेद्भागैर्भूमिकामर्धपञ्चमैः ॥७२॥
द्वितीयभूमिकावत्स्यात्कूटस्तम्भादिकल्पना ।
वेदिकाभागोच्छ्रिता कार्या षट्पदा स्कन्धविस्तृतिः ॥७३॥
षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् ।
प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥७४॥
घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत् ।
कण्ठग्रीवाण्डकान्यस्य भागेन नैकेन कारयेत् ॥७५॥
षड्भागभक्तघण्टायाः समन्ताद्भागविच्युतेः ।
भागैश्चतुर्भिः कर्तव्ये घण्टे कण्ठस्य विस्तरम् ॥७६॥
घण्टोत्सेधार्धतः कुर्याद्घण्टार्धे पद्मशीर्षकम् ।
घण्टोत्सेधसमा कुम्भे बीजपूरवितो समुच्छ्रितिः ॥७७॥
चतुरश्रांजितोच्छ्रायो विस्तारः कलशः स्मृताः ।
य इमं कारयेत्प्रीत्या प्रासादं कुमुदाभिधम् ॥७८॥
स मोदते जगद्भर्तुः शिवस्य भवने शुभे ।
कुमुदप्रासादः ।
अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥७९॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
ततः कर्णार्धसूत्रेण वृत्तं तत्र समालिखेत् ॥८०॥
विस्तीर्णं पञ्चभिर्भागैः कुर्याद्भद्र चतुष्टयम् ।
सुरेन्द्र समतायसकुबेराशास्वनुक्रमात्  ॥८१॥
भवेत्पल्लविकायास्तु विस्तारो भागपादिकः ।
भागेन कार्या भद्रा णां निर्गमा वृत्तबाह्यतः ॥८२॥
शालायाः प्रतिभद्रं स्यात्कर्णिकाधेन निर्गता
पादोनभागत्रितयात्कार्या वृत्तस्य विस्तृतिः ॥८३॥
द्विभागविस्तरायामौ रशुकं द्वयमतोध्यगौ ।
परिवर्तनया कार्यौ द्वौ कोणौ सोदकान्तरौ ॥८४॥
पूर्वप्रासादवद्गर्भो विधेयो भित्तयोऽपि च ।
वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥८५॥
द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः ।
शूरसेनं विधातव्यं शालासु श्लिष्टमुत्तमम् ॥८६॥
कूटस्तम्भादिकन्यासाः कोणप्रतिरथादिषु ।
शाला स्याम्रागरास्तले पञ्चांशा द्व्यंशकोपरि ॥८७॥
शिखरस्य त्रिभागोना शुकाघ्रायाः समुच्छ्रितिः ।
य एनं कमलं नाम प्रासादं कारयेन्नृपः ॥८८॥
त्रैलोक्ये कमलाधीशविजये स भवेन्नृपः ।
कमलप्रासादः ।
अथातः कथ्यते सम्यक्प्रासादः कमलोद्भवः ॥८९॥
सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् ।
चतुरश्रीकृते क्षेत्रे चतुर्दशभिरंशिते ॥९०॥
---स्तारो भद्रं पञ्चपदं भवेत्
द्विभागायामविस्तारौ कार्याः प्रतिरथास्तथा ॥९१॥
कोण --- ।
कार्या पल्लविकायाश्च निर्गमो वृत्तमध्यतः ॥९२॥
शालाविभक्तिश्चैतस्य कर्त --- ।
--- न्तरेषु स्याज्जलान्तरम् ॥९३॥
द्व्यङ्गुलं त्र्यङ्गुलं वापि तद्विधेयं विपश्चिता ।
भागा --- ल्पयेत् ॥९४॥
प्रासादस्यास्य --- भाजयेद्दशभिः पदैः ।
गर्भश्च पूर्ववत्कार्यः पूर्ववद्भित्तयोऽपि च ॥९५॥
प्राग्वत्खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका ।
शिखरस्योच्छ्रितिः प्राग्वत्तां सार्धैकानुविंशतिम् ॥९६॥
भागान्कुर्यात्ततः कार्या भूर्द्वितीयांशपञ्चकम् ।
कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः ॥९७॥
भागं वेदी भूप्रवेशः कार्यो रेखावशादितः ।
पूर्ववच्चार्थ विस्तारः स्याद्घण्टाकलशादि वा ॥९८॥
कूटस्तम्भादिकं प्राग्वच्छुकनासोच्छ्रयोऽपि च ।
य इमं कारयेत्कान्तं प्रासादं कमलोद्भवम् ॥९९॥
स समस्तजगन्नाथः प्रतिजन्म प्रजायते ।
कमलोद्भवप्रासादः ।
लक्षणं किरणस्याथ ब्रूमः सम्यक्क्रमागतम् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:17:37.5870000