संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः

जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


त्रिदशागारभूत्यर्थं भूषाहेतोः पुरस्य तु ।
भुक्तये मुक्तये पुंसां सर्वकालं च शान्तये ॥१॥
निवासहेतोर्देवानां चतुर्वर्गस्य सिद्धये ।
मनस्विनां च कीर्त्यायुर्यशस्सम्प्राप्तये नृणाम् ॥२॥
जगतीनामथ ब्रूमो लक्षणं विस्तरादिह ।
प्रासादं लिङ्गमित्याहुस्त्रिगल्लयनाद्यतः ॥३॥
ततस्तदाधारतया जगती पीठिका मता ।
आकारविस्तृतायामानुच्छ्रायं ते क्रिया ॥४॥
विना तमङ्गप्रत्यङ्गा कल्पना नापि --- क्रमम् ।
विभक्तिं तिलकन्दानां भद्र विस्तारनिर्गमम् ॥५॥
जलाधारप्रदोश्च प्रवेशं निर्गमोद्गमम् ।
मानसंख्यां च शालानां संस्थानोन्मानलक्षणम् ॥६॥
परिक्रमं तमेवासां संज्ञां च त्रिविधामपि ।
षट्प्रकारत्वमे वासां सम्भवस्य च कारणम् ॥७॥
मूलशालापरिच्छित्तिं परिक्रमविनिर्गमम् ।
सञ्चयद्वारसोपानमुण्डिकामण्डसम्भवान् ॥८॥
द्वित्र्यादिदेवताधिष्ण्याज्जगतीस्तोरणानि च ।
युक्तानि लक्षणैः सर्वैर्यथावत्सम्प्रचक्ष्महे ॥९॥
चतुरश्रा समा शस्ता मनोज्ञा सर्वतःप्लवा ।
अंशप्रगूढदिग्भागा प्रासादानुगता शुभा ॥१०॥
चतुरश्रायता यद्वा वृत्ता वृत्तायता तथा ।
अष्टाश्रिर्वा विधातव्या सा संशोध्यादितः क्षितिम् ॥११॥
निरूप्य त्रिदशागारं संस्थानोन्मानलक्षणैः ।
तदाकारवतीं पार्श्वे जगतीं तस्य योजयेत् ॥१२॥
कनीयसी मध्यमा च ज्येष्ठा चेति त्रिधैव सा ।
कनीयः प्रभृतिष्वेताः प्रासादेषु नियोजयेत् ॥१३॥
जगत्यो भ्ररमणीभिः स्फारौकद्वित्रिस्त्रिभिः क्रमात् ।
नानाशातिशान्तिन्यकनिष्ठाद्या मनोरमाः ॥१४॥
प्रासादस्यानुरूपेण साङ्गोपाङ्गादिसंख्यया ।
शालास्तासां मताः कर्म प्रोच्यते सामुदायिकम् ॥१५॥
श्री आ द्वादशकरादूर्ध्वमोर्ध्वा विंशतिहस्ततः ।
शालात्रिभागं तुर्यांशः स्याद्वा द्वात्रिंशतः पुनः ॥१६॥
आसनार्धात्तु पञ्चाशच्छाला प्रासादतो भवेत् ।
बहुदेवकुला या तु प्रासादस्यानुसारतः ॥१७॥
ब्रूमः प्रकाराञ्शालानां यथायोगमिहाधुना ।
कर्णोद्भवा भ्रमोच्छा च भद्र जा गर्भसम्भवा ॥१८॥
मध्यजा पार्श्वजा चेति भेदास्तासां भवन्ति षट् ।
विस्तारायामतोस्यभिः कर्णजा पूर्वमारिणा ॥१९॥
भ्रमजा तत्प्रमाणेन --- पादेन वेष्टिता ।
भद्र जा कर्णजातीया सार्धायामा प्रकीर्तिता ॥२०॥
गर्भजा मध्यजा चेति कर्णजायतसम्मिते ।
पार्श्वजा भ्रमजायामा स्थानं तासामथोच्यते ॥२१॥
कर्णेषु कर्णजा ख्याता भ्रमजा च परिभ्रमे ।
भद्रे षु भद्र जा ज्ञेया त्रयमध्ये च गर्भजा ॥२२॥
मध्ये व्यवस्थिता या तु पञ्चानां मध्यजा तु सा ।
पार्श्वसंस्थानश्चतस्रो यास्तासां शान्ताः पार्श्वद्वये स्मृताः ॥२३॥
पार्श्वद्वयं स्युः कर्णानां --- स्ता अपि च पार्श्वजाः ।
प्रासादविस्तृतेरर्धं विधातव्या भ्रमन्तिका ॥२४॥
पदवृद्धतिबाह्यस्याः कन्दा दिक्षु --- च ।
सुरसद्मानुसारेण कुर्यादष्टौ विचक्षणः ॥२५॥
आरभ्य भद्र मालत्या युआवत्त्रिंशमत्रिकाम् ।
नवाण्डकाया यावत्स्यादेकत्रिंशत्तमे क्रमात् ॥२६॥
शालाकन्दाः स्मृतास्तासां चतुर्वर्गविभाजिताः ।
चतुष्पदा तत्र सास्या स्याद्द्वादशपदो भ्रमः ॥२७॥
क्रमेणानेन कर्तव्यं शालाकन्दनिवेशतः ।
तदूर्ध्वं तु भ्रमो नास्ति शालागणविभाजने ॥२८॥
रुद्रा द् भ्रमोऽयं न पुनः कर्णनिर्गमधारिणाम् ।
रुचकस्येव कर्तव्यः कर्णदेशात्परिक्रमः ॥२९॥
शालानुसारतो भद्रे विस्तारैः कन्दकाद्बहिः ।
कर्तव्यो निर्गमस्तत्र बुधैः पदचतुष्टयम् ॥३०॥
उदकान्तरविस्तारो भागेनार्धेन वा क्वचित् ।
प्रजाङ्गस्य विधातव्यं क्षोभणं च पदद्वयम् ॥३१॥
प्रासादस्य च विस्तारं दत्त्वाग्रे सलिलान्तरम् ।
गण्डौ तत्सूत्रगौ कार्यौ भ्रमाद्द्विपदनिर्गतौ ॥३२॥
प्रासादानां तु विस्तृत्या स्युरेकद्वित्रिनिघ्नया ।
कर्णाद्विनिस्सृतौ गण्डौ ज्येष्ठमध्यकनीयसा ॥३३॥
भवग्रे सुण्डिकाः कार्याः कर्णशालाविनिर्गमः ।
मालासोपानसंयुत्त प्रतीहारसमाकुलाः ॥३४॥
प्रतोली चाग्रतः कार्या सपटो --र्गला दृढा ।
ब्रूमोऽथ जगतीपीठं तत्कुर्यादेकहस्तके ॥३५॥
प्रासादे विस्तृतेस्तुल्यसमुत्सेधे विचक्षणः ।
द्विहस्तके तु पादोनं त्र्यंशहीनं त्रिहस्तकम् ॥३६॥
चतुर्हस्ते तु कर्तव्ये सार्धहस्तद्वयोच्छ्रितम् ।
चतुरिष्टा त्रया च --- द्वादशहस्तकम् ॥३७॥
कनीयोमध्यमज्येष्ठानुदयान् कल्पयेत् क्रमात् ।
अर्धं वा कर्णशालायाः पादोनं वाथ तत्समम् ॥३८॥
अनेन च प्रकारेण ज्येष्ठमध्यमयोरपि ।
प्रासादयोर्जगत्युच्चा कर्णप्रासादमानतः ॥३९॥
पीठस्य यः समुत्सेधा --- तं विभाजयेत् ।
भागेन खुरकं कुर्याद्भागेनैकेन वर्त्मना ॥४०॥
कुम्भस्य खुरका भागं द्विभागं कुम्भकं तथा ।
कलशं भागिकोत्सेधं तथैवान्तरपत्रकम् ॥४१॥
वरण्डीं भागिकीं कुर्यात्तथा पट्टं च भागिकम् ।
जगत्याः खुरकाद्भागं प्रचिशोकोद्भकः सुरः ॥४२॥
पट्टो भागेन सार्धेन प्रतिष्ठाजगतीखुरान् ।
खुरकारकुम्भकाकिञ्चित्कुम्भका क्षणकस्तथा ॥४३॥
कणकादन्तेरपत्र कपोतालीं तथैव च ।
पट्टिकानां प्रवेशांश्च नासिकावर्तनास्तथा ॥४४॥
निम्नोन्नतप्रवेशांश्च विदधीत मनोहरान् ।
--- धिकाभिर्विचित्राभिः कूटैश्चानेकशेखरैः ॥४५॥
सुविभक्ता विधातव्याः शालानां कन्दकामूले ।
कर्माण्यतिविचित्राणि स्थानस्थानोचितानि तु ॥४६॥
कुर्यात्पीठेषु शोभार्थं प्रासादानां विचक्षणः ।
यथा सिंहासनं राज्ञां शोभते मणिदीप्तिभिः ॥४७॥
तथा प्रासादराजस्य पीठं कर्मभिरुत्तमैः ।
पट्टस्योर्ध्वं विधातव्यमुत्कृष्टं राजसेनकम् ॥४८॥
पुष्पितैः कमलैर्युक्तं शोभितं भारपुत्रकैः ।
तदर्धं वेदिका देया नानापत्रसमाकुला ॥४९॥
रूपं संघटकोपेता ततश्चासमघट्टकः ।
स्तम्भिकाभिरनेकाभिर्धारयेत्तं समन्वितः ॥५०॥
तस्योपरि विधातव्यं करव्यासनसमुत्तमम् ।
अन्तरं कर्णशालानां तलपादार्धपट्टयोः ॥५१॥
राजसेनयुतां वेदीं तत्त्रिभागेन कारयेत् ।
वेदिकार्धं त्रिभागं वा तले स्याद्रा जसेनकम् ॥५२॥
कूटारं --- त्रिभागेन वेदेरूर्ध्वं मनोहरम् ।
करमात्रसमुत्सेधं कर्तव्यं मत्तवारणम् ॥५३॥
सुखलीलाशनार्थं तत्सप्रवेशं सनिर्गमम् ।
गन्द्रा ग्रे सुकाग्रे च प्रतोल्यग्रे तथैव च ।
तोरणं त्रिविधं ज्ञेयं कनीयोमध्यमोत्तमम् ॥५४॥
इत्थं जगत्यायतनस्य सम्यक् ।
प्रासादपीठस्य च सम्प्रदिष्टम् ।
विधानमेतज्जगतीषु नार्त-
मन्यथाभिदधाः सह लक्षणानाम् ॥५५॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP