प्रश्नो नाम तृतीयोऽध्यायः

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


प्रश्नो नाम तृतीयोऽध्यायः
N/Aअथ तेषु जयो नाम वाक्यं तद्विश्वकर्मणः ।
श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥१॥
ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल ।
वृणोषि तेन न वयमात्मानं बहु मन्महे ॥२॥
तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ।
अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥३॥
पूर्वमेकार्णवे जाते जगति प्रलयं गते ।
महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥४॥
किमाकारा किमाधारा किंप्रमाणा च मेदिनी ।
विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥५॥
उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः ।
कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥६॥
काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक्पृथक् ।
भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥७॥
किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः ।
लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥८॥
युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः ।
कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥९॥
कति देशाः कति भुवः पृथक्त्वेन निरूपिताः ।
कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥१०॥
व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः ।
काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥११॥
कार्यं केन विधानेन भूभृत्पुरनिवेशनम् ।
किं फलं सुनिविष्टेऽस्मिन् दुर्निविष्टे च किं पुनः ॥१२॥
कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः  ।
किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥१३॥
कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः ।
प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥१४॥
तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः ।
कीदृशः प्रविभागश्च रथ्याचत्वरवर्त्मभिः ॥१५॥
भूमिप्रमाणसंस्थानं सीमा च क्षेत्रदिक्पथैः ।
नगरग्रामखेटानां निवेशाः स्युः पृथक्पृथक् ॥१६॥
पुरस्याभ्यन्तरे पूर्वं कैर्द्र व्यावयवक्रमैः ।
कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥१७॥
प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः ।
हिताय नृपलोकानां विधातव्यो महोत्सवः ॥१८॥
गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च ।
भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥१९॥
कैः कैर्यानपरीवारवर्णरूपविभूषणैः ।
कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥२०॥
प्रमाणमितिसंस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः ।
प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥२१॥
प्राकारपरिखागुप्तं पुरे स्याद्गोपुरं क्व च ।
युग्ममध्याम्बुवेश्मानि क्व च स्युः क्व महानसम् ॥२२॥
कोष्ठागारायुधस्थानभाण्डागारनिवेशनैः ।
व्यायामनृत्तसङ्गीतस्नानधारागृहादिभिः ॥२३॥
शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् ।
क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥२४॥
विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः ।
अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥२५॥
वापीभिर्दारुगिरिभिश्चित्राभिः पुष्पवीथिभिः ।
एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥२६॥
मानोन्मानक्रियायामद्र व्याकृतिविनिर्मितः ।
निकेतननिवेशः स्याद्रा ज्ञां भागाश्रितः कथम् ॥२७॥
पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् ।
कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥२८॥
पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च ।
विप्रराजन्यविट्शूद्रा स्तज्जैरन्तरजैः समम् ॥२९॥
तथा कृषितुलाशिल्पकलापण्योपजीविनः
हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥३०॥
निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते ।
शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥३१॥
धिष्ण्यमाद्यं कतिविधं द्र व्याण्याद्यानि कानि वा ।
हेतुरेषां च सर्वेषां स्याच्च किदृगनुक्रमः ॥३२॥
भजन्ते योगमन्योन्यं कानि द्र व्याणि कैः सह ।
कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥३३॥
इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः ।
परिकर्मक्रमस्तासां वह्न्यम्बुपवनैश्च कः ॥३४॥
गुरुवर्णिध्वजोर्वीशतद्भृत्यप्रतिमा पुराम् ।
वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥३५॥
तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् ।
विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥३६॥
प्रमाणं तक्षणच्छेदैः शोधितानां कथं भवेत् ।
आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥३७॥
सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः ।
प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥३८॥
शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च ।
दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥३९॥
प्रमाणं मूलपादस्य शिलान्यासे च को विधिः ।
विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥४०॥
मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के ।
कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥४१॥
समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह ।
नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥४२॥
जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च ।
कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥४३॥
स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः ।
का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥४४॥
स्थूणा निसृष्टिकोत्सूका मृगाल्युपतुलास्तथा ।
सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥४५॥
छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः ।
त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥४६॥
सीमालिन्दशिरस्तासां कीदृशी चावलम्बना ।
कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥४७॥
यच्चान्यदेवमादि स्यात्प्रासादभवनादिषु ।
द्र व्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥४८॥
शालालिन्दप्रमाणानि चतुःशालेषु धामसु ।
ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥४९॥
एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च ।
कथं कति च वेश्मानि कल्प्यन्ते प्रविभागशः ॥५०॥
कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् ।
संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥५१॥
आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् ।
अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥५२॥
कथमेते सुराः सरवे वास्तोरस्य व्यवस्थिताः ।
एतद्वंशशिरश्चक्षुःकुक्षिहृन्मूर्धमर्मसु ॥५३॥
जायेत पीडा द्र व्येषु सन्निविष्टेषु कस्य का ।
वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥५४॥
दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् ।
कारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥५५॥
योज्यं किं कैमयोग्यं च किं भूपभवनादिषु ।
हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥५६॥
किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् ।
अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥५७॥
विधेयं विधिना केन भवने च प्रवेशनम् ।
पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥५८॥
निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु ।
मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥५९॥
जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः ।
इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च  ।
अस्मास्वनल्पकरुणार्द्रि तचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनुक्रमेण ॥६०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्राश्नाध्यायस्तृतीयः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:21.1470000