संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ७४ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ७४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७४ Translation - भाषांतर ॥ श्रीहर उवाच ॥चतुःसप्ततिकं विद्धि शिवं राजस्थलेश्वरम् ॥यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥१॥विष्णुकल्पे पुरा वृत्ते मन्वंतरमुखप्रिये ॥अराजके महीपृष्ठे ब्रह्मा चिंतापरोऽभवत् ॥२॥न मनुष्यैर्विना देवाः समर्था लोकधारणे ॥दानेज्याजपतोदेवा भजंते पुष्टिमुत्तमाम् ॥३॥योग्यो राजा प्रजापालः को भवेज्जनवत्सलः ॥सोऽपश्यदथ राजर्षि स्तपस्यंतं रिपुंजयम् ॥४॥पृथ्व्यां सर्वगुणाकीर्णं धर्मनिष्ठं महाव्रतम् ॥तमुवाचाथ देवेशो ब्रह्मा लोकपितामहः ॥५॥॥ ब्रह्मोवाच ॥रिपुंजय निबोधेदं वचनं मम पुत्रक ॥राज्यं च पाल्यतां वत्स एककल्पेन चेतसा ॥६॥अलं ते तपसा तात कष्टेनानेन सांप्रतम् ॥धर्मेण विजिताः सर्वे त्वया लोका नरोत्तम ॥७॥क्रियतामधुना लोकपालनं तु ममाज्ञया ॥यतः परोपकारो हि फलं देहस्य देहिनः ॥८॥न धर्मस्तादृशोऽन्योऽस्ति न चान्योऽर्थस्य साधकः ॥निरयाप्तिरपि श्रेय उपकृत्य परस्य वै ॥९॥नापकारेण भूतानामपि स्याद्भुवनेशता ॥सततं लोक कार्यार्थं मदाज्ञागौरवेण च ॥पृथ्वीं समुद्रवसनां प्रजाश्चैव प्रपालय ॥१०॥इत्युक्तः स तु राजर्षिर्ब्रह्मणा पर्वतात्मजे ॥प्रोवाच प्रांजलिर्भूत्वा ब्रह्माणं तु रिपुंजयः ॥११॥स्वभावेनाचला पृध्वी त्वया पूर्वं विनिर्मिता ॥विनैव पालकं ह्येषा कुत्र यास्यति मेदिनी ॥१२॥यद्यवश्यं मया पृध्वी पालनीया पितामह ॥देहि मे नगरीं रम्यामवन्तीं सप्तकल्पगाम् ॥१३॥मनुष्यलोके विख्याता सकले सामरावती ॥स्वर्गच्युतानां देवानां निवासार्थं प्रतिष्ठिता ॥१४॥मर्यादामनुवत्तेंयुर्यदि मे नाकवासिनः ॥अदत्ते च मया स्थाने न वासः कस्यचिद्भवेत् ॥अनेन विधिना पृथ्वीं पालयिष्याम्यहं प्रभो ॥१५॥॥ ब्रह्मोवाच ॥भविष्यत्येष ते कामो यस्त्वयोक्तो नरोत्तम॥ये केचित्त्रिदशाः संति मद्गौरववशेन ते ॥तवादेशं करिष्यंति सदा त्वद्वशवर्त्तिनः ॥१६॥देवनाथेति वै नाम भविष्यति च सुव्रत॥इत्युक्त्वांतर्दधे ब्रह्मा हंसयानं समास्थितः ॥१७॥अथ राजा प्रतिज्ञाय ब्रह्मणा भूमिपालनम्॥पृथ्व्यामुद्घोषयामास प्रोवाच त्रिदिवौकसाम् ॥१८॥भवतां विहितः स्वर्गो मनुजानां च भूतलम् ॥ये चात्र कंद ररताः स्थले वा भूधरेषु च ॥१९॥ये स्थिता यांतु ते देवा मनुजानामियं धरा ॥तच्छ्रुत्वा घोषितं तस्य राज्ञो भयनिपीडिताः ॥त्रिदशा ब्रह्मणो वाक्याद्गौरवात्त्रिदिवं गताः ॥२०॥अथ प्रजाः स नृपतिर्धर्मेणावर्धयत्तदा ॥पुत्रवत्सेहयुक्तेन हृदयेनातिनिर्वृताः॥२१।प्रजास्तत्सुखसंवृद्धा जरामृ त्युविवर्जिताः ॥पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ॥२२॥यौवनस्थाश्च निर्द्वंद्वाः सततं धर्मसंश्रयाः ॥नासीत्पृथिव्यां शैलस्तु स्थलो वा द्वीप एव च ॥२३॥अकृष्टपच्या पृथिवी स्वादवद्भिः फलैर्युता ॥देवलोक इवासीद्भूः सर्वकामगुणोज्ज्वला ॥२४॥एवं व्रजति काले वै राज्ञि राज्यं प्रकुर्वति ॥महामर्षपरा देवा विप्रकार्यार्थमुद्यताः ॥२५॥प्रजानां बहुदुःखानि मुहुः कुर्वंत्यनेकशः ॥अथानावृष्टिमकरोत्सुदीर्घां पाकशासनः ॥२६॥तथा संह्रियमाणेषु लोकेषु नृपसत्तमः॥मेघो भूत्वा दिवं प्राप्य सुवृष्टिमकरोन्नृपः ॥२७॥तेनैवाप्यायितो लोकः सुखी जातो यशस्विनि॥ततः काले तु कस्मिंश्चिद्वर्षत्पाकशासनः ॥संवर्त्तो वारिदो भूत्वा मेघान्वै विन्यपातयत् ॥२८॥ततस्तु मारुतो भूत्वा नृपतिस्तामधारयत् ॥ततोनलः प्रनष्टोऽभूत्सर्वतः पृथिवीतलात् ॥२९॥न यज्ञा न जपो होमो न च पक्तिरवर्त्तत ॥लोकश्च व्याधिसंक्षुब्धस्तदाभूद्विषमे स्थितः ॥३०॥ततः स राजा तं दृष्ट्वा त्वभवद्धव्यवाहनः ॥सोऽधारयत्प्रजाः सर्वा यज्ञांश्च त्रिदिवौकसः ॥३१॥एतस्मिन्नंतरे देवि त्वया सार्द्धं समागतः ॥दर्शनार्थं स्वनगरीमहं भूतगणैर्वृतः ॥३२॥ततो देवगणाः सर्वे सकिंनरमहोरगाः ॥सयक्षरक्षोगन्धर्वाः सिद्धविद्याधरोरगाः ॥३३॥भूताः प्रेताः पिशाचाश्च ये चान्ये गगनेचराः ॥चत्वारः सागराश्चैव क्षारक्षीरादिसिंधवः ॥३४॥गंगा च यमुना सिंधुश्चंद्रभागा सरस्वती ॥चर्मण्वती भीम रथी पुण्या गोदावरी नदी ॥३५॥विपाशा देविका पुण्या शरयूः कौशिकी तथा ॥गोमती धूतपापा च बाहुदा च दृषद्वती ॥३६॥पारा वेद स्मृतिश्चैव वेत्रघ्नी नर्मदा शिवा ॥तापी पयोष्णी निर्विन्ध्या सर्वास्तत्र समागताः ॥३७॥पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥पृथुतीर्थोदकश्चैव तथैवामरकंटकः । ३८॥गंगाद्वारः कुशावर्त्तो बिल्वको नीलपर्वतः ॥वाराहपर्वतश्चैव तीर्थं कनखलं तथा ॥३९॥भृगुतुंगः सुकुक्षश्चाप्यजगंधश्च पार्वति ॥कालिंजरः सकेदारो रुद्रकोटिर्महालयः ॥४०॥स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥मेरुर्महेंद्रो मलयो मंदरो गंधमादनः ॥४१॥मुनयो वालखिल्याश्च वेदाश्चत्वार एव च ॥एते चान्ये च बहवः समायाता मया सह ॥४२॥अनंतरं मया मेरुः स्थलाकारः कृतस्ततः ॥तस्मिन्स्थले स्थितो देवि उपविष्टः सुरैर्वृतः ॥नियुक्ताः सागराः पार्श्वे चत्वारो लवणादयः ॥४३॥अथ व्याकुलतां प्राप्तः स च राजा रिपुंजयः॥स्वस्थलस्थं मां दृष्ट्वा समायातस्तु मां प्रति॥४४॥तेजसा दह्यमानोऽपि मदीयेन वरानने ॥भीतोऽपि तोषयामास कोऽसि देव नमोऽस्तु ते ॥४५॥स्थलेस्मिन्नृप राजाहं मयाप्युक्तं विनोदतः ॥चतुर्वर्गश्चतुर्मूर्त्तिश्चतुर्द्धा संस्थितो नृपः ॥४६॥तेनाहं सर्वतो दृष्टो वाङ्मये सचराचरे ॥अनंतरं स्तुतस्तेन भक्त्या परमया प्रिये ॥४७॥प्रभावमतुलं दृष्ट्वा मदीयं व्यापकं परम् ॥भक्त्या परमया देवि स च मां शरणं गतः॥भूयःस्तुतोऽपि तेनाहं तुष्टो वै तस्य भूपतेः ॥तेनोक्तं यदि मे देव तुष्टस्त्वं परमेश्वर ॥४९॥भक्तिर्मे सुदृढा भूयात्त्वयि सर्वॆश शाश्वती।तुष्टोहं तेन वाक्येन पुनः प्रोक्तो मया नृप ॥५०॥एवं भविष्यतीत्युक्त्वा पुनर्मां ब्रूहि पार्थिव ।हृदि स्थितश्च ते कामः सर्वकालं भविष्यति ॥५१॥अधृष्यः सर्वेदेवानां सर्वदा संभविष्यसि ॥तेनाहं प्रार्थितो देवि भूयो वरमनुत्तमम् ॥५२॥अतीव राजते देव स्थलोऽयं तव सन्निधौ ॥मेरुरेष न संदेहो वृल्लभः सर्वदा तव ॥५३॥राजस्थलेश्वरोऽसि त्वं विख्यातो भुवनत्रये॥भविष्यसि यथा देव तथा त्वं कर्तुमर्हसि ॥५४॥अत्रागत्य च यो देव भक्त्या परमया युतः ॥यात्रां करोति भावेन पुराणोक्तविधानतः ॥५५ |॥तस्य त्वया प्रदातव्यं सर्वं मनसि चिंतितम् ।अणिमादिगुणाः सर्वे गुटिकासिद्धिरंजनम्॥ ५६॥खड्गं च पादुकां चैव जलवासं रसायनम्॥राजस्थलेश्वरं यस्तु भक्त्या पश्यति मानवः ॥५७॥दशम्यां तु विशेषेण कृत्वा नियमपूर्वकम्॥देवानामपि देवत्वं संप्राप्नोति महेश्वरः ॥५८॥पूजनीयस्तु त्रिदिवैर्यथा देवः पुरंदरः॥दृष्ट्वा राजस्थले देवं योऽत्र यात्रां करिष्यति ॥५९॥तस्य श्रीर्विजयश्चैव भवत्येव वरो मम ॥शत्रवः संक्षयं यांतु संपद्यतां मनोरथाः ॥६०॥वृद्धिर्भवतु वंशे च दर्शनात्तव शंकर॥सर्वेऽत्र देवास्तिष्ठंतु मेरुरत्रैव तिष्ठतु ॥तिष्ठंतु सागराः सर्वे तव देव समीपतः ॥६१॥इत्युक्तोऽहं तदा तेन मया चोक्तं वरानने॥सुद्युम्नोनाम भूपालो यदात्रैवागमिष्यति ॥६२॥पुत्रार्थं भार्यया सार्द्धं तदा दास्यामि वांछितम् ॥तदा समुद्राश्चत्वारः स्थास्यन्ति सफलाः स्वयम् ॥६३॥तस्याराधनतो भूप पुत्रं दास्यामि शोभनम्॥ये चात्र मानवा राजन्यात्रां कुर्वंति भक्तितः ॥तेषां मनोरथावाप्तिर्भविष्यति न संशयः ॥६४ ।राजा रिपुंजयो भक्त्या गणाधीशः कृतो मया।॥ ६५॥एष ते कथितो देवि प्रभावः पापनाशनः ॥राजस्थलेश्वरेशस्य श्रूयतां वडलेश्वरम् ॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये राजस्थलेश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥७४॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP