अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीशिव उवाच ॥
देवमष्टादशं विद्धि ख्यातं कलकलेश्वरम् ॥
यस्य दर्शनमात्रेण कलहो नैव जायते ॥१॥
सर्वदुःखोपशमनं सर्वपाप प्रमोचनम्॥
व्याधिसर्पाग्निचौराणां शमनं वांछितप्रदम् ॥२॥
मम देवि त्वया सार्द्धं कलहः समपद्यत ॥
पुरा विस्तरतो वच्मि शृण्वेकाग्रमनाः शुभे ॥३॥
यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि ॥
तदा विवाहितं कांते यथोक्तविधिना मया ॥४॥
विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने ॥
महाकालीति नाम्ना वै वर्णेनापि च तादृशी ॥५॥
नीलोत्पलनिभप्रख्या नीलकुंचितमूर्द्धजा ॥
अप्येकस्मिंस्तदा त्वं हि मातॄणां मंडपे शुभे ॥
मध्ये समुपविष्टासि कृष्णांजनसमप्रभा॥६॥
कालि सुंदरि मत्पार्श्वे वल्लभे त्वमुपाविश ॥
शरीरे मम तन्वंगि सिते भास्यसितद्युतिः॥७॥
भुजंगीवासिता शुभ्रे संश्लिष्टा चंदने तरौ ॥
रजनीवासिते पक्षे दृष्टिदोषहरासि मे ॥८॥
इत्युक्तासि मया देवि गिरिजे चारुहासिनि ॥
तदा प्रोक्तं त्वया वाक्यं मामुद्दिश्य सगद्गदम् ॥९॥
यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः ॥
सप्तर्षयो महाभागाः किंकृते न तदात्थ माम् ॥..१०॥
तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम ॥
हिमाद्रिराजो यत्नेन किं काली न तदात्थ माम् ॥११॥
यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद ॥
प्रार्थ्यतां पार्वती शीघ्रं किं काली न तदात्थ माम् ॥१२॥
सत्येयं लौकिकी गाथा न वृथा परिजायते ॥
स्वकृतेन जनः सर्वो जाड्येन परि भूयते ॥१३॥
अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम्॥
तपोतिदीर्घचारैर्तयत्त्वां प्रार्थितवत्यहम् ॥१४॥
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे ॥
नैवास्मि कुटिला रौद्रा विषमा न च धूर्जटे ॥१५॥
नाकुलीना वृथाचारा न दुष्टा न समत्सरा ॥
सविषस्त्वं यतः ख्यातो व्यक्तं दोषा कराश्रयः ॥१६॥
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा ॥
नाहं मुष्णामि नयने तत्र हंता त्वमेव च ॥१७॥
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः ॥
मया नोत्पाटिता दंताः कस्यापि निरपत्रप ॥१८॥
पूषादेवो विजानाति द्वादशात्मा दिवाकरः ॥
मूर्ध्नि शूलं तव यतः स्वैदोषैर्मामधिक्षिपः ॥१९॥
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः॥
इत्यथापि प्रवादोऽयं प्रवरः ख्यामि ते हर ॥..२०॥
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्॥२१॥
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ॥
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते॥२२॥
तदेतरं विजानाति ह्यात्मानं नेतरं जनम्॥
सत्यधर्मच्युतात्पुंसः क्षुद्रादाशीविषादिव ॥२३॥
स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥
इत्युक्तोऽहं त्वया देवि मया कोलाहलः कृतः ॥२४॥
अनात्मज्ञासि गिरिजे मृडे पंडितमानिनि ॥
सत्यं सर्वैरवयवैः स्तुतोऽपि सदृशः पितुः ॥२५॥
काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता ॥
कुटिलत्वं च सर्वेभ्योऽसेव्यत्वं च हिमादिव ॥२६॥
इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः ॥
तथापि दुष्टसंसर्गात्संक्रांतं सर्वमेव हि ॥२७॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम् ॥
हृत्कालुष्यं शशांकाद्वै दुर्बोधत्वं वृषादपि॥२८॥
श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया ॥
निर्घृणत्वं कपालाच्च दया ते विगता चिरम् ॥२९॥
एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे ॥
एवं प्रवृत्ते तु तदा कंपितं भुवनत्रयम् ॥..३०॥
भीताश्च देवगंधर्वा यक्षगंधर्वराक्षसाः ॥
तस्मात्कोलाहलो भूमिं भित्त्वा लिंगमभूत्तदा ॥३१॥
लिंगमध्यात्समुत्पन्ना वाणी सुखकरी शुभा ॥
आश्वासयंती देवान्वै त्रैलोक्यं सचराचरम् ॥३२॥
नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम् ॥
स्वरनामासौ ततोऽभूच्छङ्करो भुवि विश्रुतः ॥३३॥
यस्तमर्चयते भक्त्या देवं कलकलेश्वरम्॥
न राक्षसाः पिशाचाश्च न भूता न विनायकाः ॥
विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे ॥३४॥
सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये ॥
बहुपुत्रा बहुधना जायते दर्शनात्तथा ॥३५॥
ये पश्यंति चतुर्द्दश्यां देवं कलकलेश्वरम् ॥
न दुःखं न जराव्याधिर्नाकालमरणं तथा ॥३६॥
न च शत्रुभयं तेषां जायते गिरिपुत्रके ॥
लोकोऽक्षयो भवेद्देवि यावदिंद्राश्चतुर्द्दश ॥३७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
यस्य श्रवणमात्रेण क्षेममत्र परत्र च ॥३८॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥१८॥।छ॥।
N/A
References : N/A
Last Updated : December 02, 2024
TOP