अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय २४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
महालयं महाभागे चतुर्विंशतिकं शुभम् ॥
ब्रह्मादिस्तंबपर्यंतं त्रैलोक्यं सचरा चरम् ॥१॥
उत्पादितं धृतं व्याप्तं त्वया देव मया श्रुतम् ॥
त्वयैकेन विशुद्धेन सर्वगेन महात्मना ॥२॥
अत्यर्थं मुनयः सर्वे मुदिता मौनिनो ऽव्ययाः ॥
वदंति कारणं चास्य त्रैलोक्यस्य महेश्वर ॥३॥
त्वया सर्वमिदं सृष्टं त्रैलोक्यं भूर्भुवादिकम् ॥
उत्पाद्यमानमुत्पन्नं प्रलीयच्च सहस्रशः ॥४॥
देवदानवगंधर्वमुनिचारणभोगिनाम् ॥
उत्पत्तिस्थितिसंहारास्त्वया दृष्टा मुहुर्मुहुः ॥५॥
जगच्चराचरं देव कुत्र स्थित्वासृजस्य लम् ॥
लीलया संहरस्येतत्प्रसादाद्वक्तुमर्हसि ॥६॥
कोऽसौ महालयो रौद्रग्रहरूपी व्यवस्थितः ॥
यस्मिन्धृतं त्वया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥७॥
इति पृष्टस्त्वया देवि मया ते कथितं पुरा ॥
इदानीं कथयिष्यामि शृणुष्वैकाग्रमानसा ॥८॥
पृथिव्यादीनि भूतानि महाकालवने प्रिये ॥
धृतानि प्रलयस्यांते एकोद्देशे महालये ॥९॥
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥
स्थानं महालयं तत्र ममानंदकरं परम् ॥१०॥
परं ब्रह्ममयं लिंगं तत्र तिष्ठति सर्वदा ॥
तस्य लिंगस्य मध्ये तु धृतं कृत्स्नं चराचरम् ॥११॥
तत्र ब्रह्मादयो देवा विष्णुस्तत्रैव संस्थितः ॥
लिंगस्याभ्यंतरे देवि सर्वमेवाधितिष्ठति ॥
तस्माल्लिंगात्समुत्पन्नो महानात्मा महामतिः ॥१२॥
भूतादिश्चाप्यहंकारो विष्णुः शंभुश्च पार्वति ॥
बुद्धिः प्रज्ञा धृतिः ख्यातिः स्मृतिर्लज्जा सरस्वती ॥१३॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१४॥
अस्माद्भूतानि लिंगानि महाभूतानि पञ्च वै ॥
पृथिवी वायुराकाशमापो ज्योतिः प्रलीयते ॥१५॥
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्॥
अण्डजोद्भिज्जं च सस्वेदं जरायुजमथापि वा ॥१६॥
चतुर्द्धा जन्मचिह्नं यल्लिंगेस्मिन्नेव लक्ष्यते ॥
तपः कर्म च पुण्यं च व्रतं दानं तथैव च ॥१७॥
रजःसत्त्वं तमोभावस्तस्माल्लिंगाच्च जायते ॥
तस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥१८॥
अव्यक्तकारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ॥१९॥
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितर स्तथा ॥२०॥
आपो द्यौः पृथिवी वायुरंतरिक्षं दिशस्तथा ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयस्तथा ॥२१॥
यच्चान्यदपि तत्सर्वं संभूतं लोक साक्षिकम् ॥
यदिदं दृश्यते किंचित्तस्यांते च प्रलीयते ॥२२॥
अतो महालयोनाम विख्यातो भुवनत्रये ॥
मुक्तीश्वरस्य देवस्य दक्षिणे संव्यव स्थितः ॥२३॥
यः पूजयति तल्लिंगं रुद्रमूर्त्या महालयम् ॥
त्रैलोक्यविजयी नित्यं कीर्त्तिमान्स नरो भवेत् ॥२४॥
महालयेश्वरे पुण्ये पूजिते परमेश्वरे ॥
भक्त्या परमया चैव सर्वे देवाः सुपूजिताः ॥
भवंतीह महाभागे यतस्तैरपि पूज्यते ॥२५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये महालयेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP