अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमहादेव उवाच ॥
ख्यातोऽवंत्यां चतुर्थोऽसौ देवो डमरुकेश्वरः॥
दृष्टे यस्मिञ्जगन्नाथे याति पापं च संक्षयम् ॥१॥
पुरा वैवस्वते कल्पे रुरुर्नाम महासुरः ॥
तस्य पुत्रो महाबाहुर्वज्रोनाम महाबलः ॥
बभूव सुमहाकायस्तीक्ष्णदंष्ट्रो भयंकरः ॥२॥
तेन देवाः स्वाधिकाराच्चालितास्त्रिदशाल यात् ॥३॥
ततो नीतं धनं तेषां ब्रह्माणं ते ततो ययुः ॥
ब्रह्मापि भयसंविग्नो बभूवाकुलितेंद्रियः ॥४॥
ज्ञात्वावध्यं सुरैः सार्धं सर्वैः सोऽथमहा बलः ॥
तेषु नष्टेषु ये विप्रा यज्वानोऽथ तपस्विनः ॥
ताञ्जघान स दुष्टात्मा ये चान्ये धर्मचारिणः ॥५॥
निःस्वाध्यायवषट्कारं तदासीद्धरणीत तलम्॥
नष्टयज्ञोत्सवं देवि हाहाभूतमचेतनम् ॥६॥
ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥
समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः ॥७॥
ततः कायोऽभवत्सद्यः सर्वेषां पुरतस्तदा ॥
तेषां चिंतयतां देवि तेजःपुंजेन चावृतः ॥८॥
तस्मात्कृत्या समुत्पन्ना दिव्या कमललोचना ॥
द्योतयंती दिशः सर्वाः स्वतेजोभिः समंततः ॥९॥
साब्रवीत्त्रिदशान्सर्वान्कस्मात्सृष्टा ह्यहं सुराः ॥
यत्कर्तव्यं मया कर्म तच्छीघ्रं संनिवेद्यताम् ॥१०॥
ततस्तु त्रिदशाः सर्वे श्रुत्वा तस्याः शुभा गिरः ॥
आचख्युः सकलं तस्यै तदा वज्रस्य चेष्टितम् ॥११॥
श्रुत्वा जहास सा देवी साट्टहासं मुहुर् मुहुः ॥
तस्या हसंत्या निःसस्रुः कन्याः कमललोचनाः ॥१२॥
पाशांकुशधरा रौद्रा ज्वालामालावृताननाः ॥
फेत्कारेण च संनादैश्चालयंत्यश्चराचरम् ॥१३॥
गताः सर्वा महादेवि यत्र वज्रो महासुरः ॥
युद्धं तु तुमुलं जातं ताभिस्तस्य भयावहम् ॥१४॥
शस्त्रास्त्रैर्बहुधा मुक्तैर्व्याप्तं चैव दिगंतरम् ॥
संनद्धाखिलसैन्यास्ते युयुधुः समरे भृशम् ॥१५॥
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥
ततो मातृगणं क्रुद्धं मर्द्दयन्तं महासु रान् ॥
पराङ्मुखं बलं दृष्ट्वा वज्रो मायामथासृजत् ॥१६॥
तामसींनाम दुःसाध्यां यया मुह्यति कन्यकाः ॥१७॥
तमोभूते ततस्तस्मिन्सा देवी भयविह्वला ॥
ताभिः सार्द्धं समायाता महाकालवनोत्तमम् ॥१८॥
कपालवान्हरो यत्र लिंगाकारेण संस्थितः ॥
ज्ञात्वा मातृगणं नष्टं ततो मायाप्रभावतः ॥१९॥
वज्रोऽपि त्रिदशाञ्ज्ञात्वा देव्या सार्द्धमथोपि(षि?)तान् ॥
आजगाम तमुद्देशं स्वसैन्यपरिवारितः ॥२०॥
महाकालवने दिव्ये रथकोटिशतैर्वृतः॥
समंताच्च वनं देवि तत्क्रुद्धो वाक्यमब्रवीत् ॥२१॥
अद्य देवान्हनिष्यामि तया साकं सुदुष्टया ॥
कन्याभिः सह या नष्टा तमोमायाबलेन तु॥२२॥
एतस्मिन्नंतरे काले नारदो मुनिसत्तमः॥
सोत्सुकस्तु समायातो मंदरे चारुकंदरे॥ २३॥
कथयामास देवनां वज्राद्देवपराभवम्॥२४॥
महाकालवने देव ताडितास्त्त्रिदशाः प्रभो॥
वज्रेण रुरुपुत्रेण तस्माद्याहि महेश्वर॥२५॥
नारदस्य वचः श्रुत्वा ततोऽहं परमेश्वरि॥
मंदरादागतस्तूर्णं कृत्वा रूपं सुभैरवम्॥२६॥
सर्पैर्लसद्भिरत्युग्रैर्भीषणैर्गणसंवृतः॥
अग्रे दृष्टं महत्सैन्यं दानवानां भयावहम्॥२७॥
महाकालवनं रुद्धं समंतादसुरेण तु ॥
वज्रेण रुरुपुत्रेण दुःसहेन यशस्विनि ॥२८॥
तदागत्य मया ताड्य रौद्रं डमरुकं तथा ॥
मोहितं सहसा सैन्यं वज्रस्यैव दुरात्मनः ॥२९॥
डमरुकस्य नादेन ह्युत्थितं लिंगमुत्तमम् ॥
विदार्य वसुधां देवि ज्वालामालाकुलं तदा ॥३०॥
तस्य लिंगस्य च तदा महाज्वाला विनिर्गता ॥
एकदेशाद्वरारोहे ब्रह्मांडव्यापिनी तथा ॥३१॥
लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥३२॥
तेजोज्वालासमूहेन वातेन प्रेरितेन च ॥
सह चक्रेण तत्सैन्यं दग्धं भस्मत्वमागतम् ॥३३॥
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥
नमश्चक्रुर्ह ते तस्मिन्रुरुपुत्रे महाबले ॥३४॥
अस्य देवस्य माहात्म्याद्दग्धो वज्रो महाबलः ॥
ससैन्योभूत्ततस्तस्मादेष डमरुकेश्वरः ॥
ख्यातिं यास्यति लोकेस्मिन्सर्वकामफलप्रदः ॥३५॥
डमरुकस्य तु नादेन जातो यस्मान्महीतले ॥
अतः पूज्यवरो देवो भविष्यति न संशयः ॥३६॥
दृष्ट्वा ये पूजयिष्यंति देवं डमरुकेश्वरम् ॥
ते सर्वे दुःखनिर्मुक्ता भविष्यंति गतज्वराः ॥३७॥
चांद्रायणानां विधिवच्छतानामथ यत्फलम् ॥
तत्फलं समवाप्नोति डमरुकेश्वरपूजनात् ॥३८॥
अस्मिन्स्थाने स्थितं लिंगं भक्त्या डमरुकेश्वरम् ॥
प्रसंगादपि पश्यंति ह्यपि पापपरा नराः ॥३९॥
तेऽप्यवश्यं तु यास्यंति रुद्रलोकं सनातनम् ॥
भक्ताः स्तोष्यंति ये लिंगं ख्यातं डमरुकेश्वरम् ॥४०॥
मानसैः पातकैर्मुक्ता यास्यंति परमं पदम् ॥
अश्वमेधसहस्रं तु वाजपेयशतं भवेत् ॥
गोसहस्रफलं चात्र दृष्ट्वा प्राप्स्यंति मानवाः ॥४१॥
यो याति संगरे धीरो दृष्ट्वा डमरुकेश्वरम् ॥
जयेद्रिपूनथांते स रुद्रलोके महीयते ॥४२॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्तुतस्तु कीर्तितश्चैव सर्वाभीष्टफलप्रद ॥४३॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP