अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीविश्वनाथ उवाच॥
त्रिंशत्तमं विजानीहि त्वं देवि च्यवनेश्वरम्॥
यस्य दर्शनमात्रेण स्वर्गभ्रंशो न जायते॥१॥
भृगोर्महर्षेः पुत्रश्च च्यवनो नाम पार्वति॥
स्थाणुभूतस्तपस्तेपे निराहारो महामुनिः ॥२॥
वितस्तायास्तटे रम्ये बहुवर्षगणान्किल ॥
सवल्मीकोऽभवद्विप्रो लताभिरभिसंवृतः ॥३॥
कालेन महता देवि समाकीर्णः पिपीलकैः ॥
तथा स संवृतो धीमान्मृत्पिंड इव सर्वशः ॥४॥
आजगाम तमुद्देशं विहर्तुं वन उत्तमे ॥
शर्यातिर्नाम धर्मात्मा सकुटुंबो मुदान्वितः ॥५॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ॥
एकैव तु सुता सुभ्रूः सुकन्यानाम नामतः ॥६॥
सा सखीभिः परिवृता सर्वाभरणभूषिता ॥
सा भ्रम्यमाणा वल्मीके दृष्ट्वा भार्गवचक्षुषी ॥७॥
सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा ॥
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥८॥
अभवत्स तया विद्धो नेत्रयोः परमार्तिमान् ॥
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समारुणत् ॥९॥
ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः ॥
प्रत्युवाच ततः क्रुद्धो राजा गद्गदया गिरा ॥१०॥
केनापकृतमद्येह भार्गवस्य महात्मनः ॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥११॥
ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम् ॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥१२॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥
पर्यपृच्छत्स्ववर्ग च भूयोभूयः सुदुःखितः ॥१३॥
पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत् ॥
मया किंचिच्च वल्मीके दृष्टं सत्त्वमतिच्छवि ॥१४॥
खद्योतवदभिज्ञातं तन्मया विद्धमंतिकम् ॥
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं क्षिप्रमभ्यगात् ॥१५॥
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥
प्रार्थयामास सैन्यार्थे प्रांजलिः स महीपतिः ॥१६॥
अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर ॥
इमामेव च ते कन्यां ददामि सुदृढव्रताम् ॥१७॥
भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम ॥
ततोब्रवीमहीपालं च्यवनो भार्गवस्तथा ॥१८॥
यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते ॥
ददौ दुहितरं तस्मै च्यवनाय महीपतिः ॥१९॥
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥
प्राप्ते प्रसादे राजाथ ससैन्यो विषयं गतः ॥२०॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिंदिता ॥
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥२१॥
कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये ॥
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥२२॥
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥
ऊचतुः समुपद्रुत्य कस्य त्वमतिशोभने ॥२३॥
सा प्रोवाच महाभागा पतिव्रतपरायणा ॥
शर्यातितनयां चैव भार्यां च च्यवनस्य हि॥ २४॥
ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ॥२५॥
त्वमपास्येह कल्याणि कामभोगबहिष्कृता ॥
वृद्धं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥२६॥
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥
एवमुक्ता सुकन्या तु दस्रौ ताविदमब्रवीत् ॥२७॥
रताहं च्यवने देवे मैवं मा पर्यशंकतम् ॥
ततोऽब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥२८॥
युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥
एतेन समयेनावामामंत्रय सुमध्यमे ॥२७।
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे ॥
तच्छ्रुत्वा च्यवनो भार्यां क्रियतामित्यभा षत ॥३०॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥
ततोऽप्सु च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥३१॥
अश्विनावपि तत्काले सरः प्राविशतां प्रिये ॥
ततो मुहूर्त्तादुत्तीर्णा सर्वे ते सरसस्तदा ॥३२॥
दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः ॥
तुल्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥३३॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम् ॥
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥३४॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान् ॥
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥३५॥
लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वांछितम् ॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥३६॥
यदहं रूपसंपन्नो वयसा च समन्वितः ॥
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥३७॥
तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ ॥
सत्यमेतन्न संदेहो देवराजस्य पश्यतः ॥३८॥
तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः ॥
याजयामास सोमार्हौ नासत्यावश्विनाविति ॥३९॥
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ॥
आभ्यामर्थाय सोमं त्वं प्रदास्यसि यदि स्वयम् ॥४०॥
वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् ॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ॥
बलिनं वासवं ज्ञात्वा चिंतयामास सत्वरम् ॥४१॥
देवमाराधयिष्यामि महादेवं महेश्वरम् ॥
यस्य कर्मकरः शक्रो यस्य देवा वशानुगाः ॥
यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः ॥४२॥
इत्युक्त्वा च्यवनो देवि महाकालवनं गतः ॥
रामेश्वरस्य देवस्य लिंगमीशानतः स्थितम् ॥
श्रद्धयाराधितं तेन च्यवनेन महात्मना ॥४३॥
तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ ॥
तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः ॥४४॥
समाराधनतुष्टस्य लिंगस्यास्य प्रभावतः ॥
एतस्मिन्नंतरे ज्वाला निःसृता लिंगमध्यतः ॥४६॥
तया देवगणाः सर्वे दह्यमाना विचेतसः ॥
प्रोचुर्गद्गदया वाचा धूमेनांधीकृते क्षणाः ॥४६॥
क्रियेतां सोमपावेतावश्विनौ बलसूदन ॥
देवानां वचनं श्रुत्वा च्यवनं भयपीडितः ॥
प्रत्युवाच ततः शक्रः प्रणामानतकंधरः ॥४७॥
सोमपावश्विनावेतावद्यप्रभृति भार्गव ॥
भविष्यतस्ततः सर्वमेतत्सत्यं ब्रवीमि ते ॥४८॥
मा तेऽतिथ्याभिसंरंभो भविष्यति तपोधन ॥।
लिंगस्यास्य प्रभावोऽयं यदहं निष्प्रभीकृतः ॥४९॥
ततस्त्वन्नामधेयेन प्रसिद्धिर्भुवि यास्यति ॥
आराधितं यतो देवि च्यवनेन महात्मना ॥५०॥
च्यवनेश्वरमेतद्वै ख्यातं त्रिभुवनेऽभवत् ॥
भक्ता ये पूजयिष्यंति देवेशं च्यवनेश्वरम् ॥
आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात् ॥५१॥
यः पश्यति नरो नित्यं च्यवनेश्वरसंज्ञकम् ॥
जन्मदुःखजरारोगैर्मुक्तो मुक्तिमवाप्नुयात् ॥५२॥
यंयं काममभिध्यायेन्मनसाभिमतं नरः ॥
तंतं दुर्लभमाप्नोति च्यवनेश्वरदर्शनात् ॥५३॥
नियमेन प्रपश्यंति ये देवं च्यवनेश्वरम् ॥
ते प्रयांति तनुं त्यक्त्वा मदीये भुवने प्रिये ॥५४॥
यः शृणोति कथां पुण्यां सर्वपापहरां शुभाम् ॥
स पुण्यात्मा परं स्थानं याति दिव्यं न संशयः ॥५५॥
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ॥
स पुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि ॥५६॥
पुष्पैर्विचित्रैर्ये देवं यजंते च्यवनेश्वरम् ॥
संसारार्णवमुल्लंघ्य ते यांति परमं पदम् ॥५७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
च्यवनेश्वरदेवस्य शृणु खंडेश्वरं शिवे ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP