अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
एकोनविंशतितमं नागचंडेश्वरं प्रिये ॥
निर्माल्यलंघनाप्तपापान्मुच्यते यस्य दर्शनात॥१॥
तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात्॥
शृण्वेकाग्रमना देवि सर्वपापप्रणाशनम्॥ २॥
पुरा देवर्षिगंधर्वाश्चारणा गुह्यकास्तथा ॥
उपविष्टाः सुधर्मायां कथयंतः शुभां कथाम् ॥३॥
एतस्मिन्नंतरे शक्रो देवर्षिं नारदं मुनिम् ॥
पप्रच्छ सादरं देवि समायातं शुचिव्रतम् ॥४॥
दृष्ट्वा विनयसंपन्नं ब्रह्मचर्यपरायणम् ॥
मेखलाजिनकौपीनं वीणादण्डविभूषितम्॥५॥
त्वया दृष्टमिदं सर्वं त्रैलोक्यं भूर्भुवादिकम्॥
उत्पाद्यमानमुत्पन्नं प्रलयच्च सहस्रशः ॥६॥
त्वत्तुल्यो नास्ति लोकेऽस्मिन्मु क्त्वैकं परमेष्ठिनम्॥
जगत्कारणमव्यक्तं नित्यं सदसदात्मकम्॥ ७॥
योगेन तपसा भक्त्या यत्त्वया परितोषितः ॥
त्रैलोक्यमभिजानासि तत्सर्वं सर्वतः स्फुटम्॥ ८॥
अतोऽहं प्रष्टुमिच्छामि कथ्यतां मम निश्चयम् ॥
पृथिव्यां प्रवरं क्षेत्रं पावनं भुक्तिमुक्तिदम् ॥९॥
एवं श्रुत्वा तदा ध्यात्वा चिंतयामास नारदः ॥
चिंतयित्वा चिरं कालमिदं वचनमब्रवीत् ॥१०॥
देवराज स्मृतं पुण्यं क्षेत्रराजमनुत्तमम् ॥
क्षेत्राणामुत्तमं क्षेत्रं प्रयागं च प्रश स्यते ॥११॥
तस्माद्दशगुणं क्षेत्रं महाकालस्य कथ्यते ॥
भुक्तिदं मुक्तिदं तच्च दर्शनादपि वासव ॥१२॥
एतच्छ्रुत्वा सहस्राक्षो वर्णयित्वा च तं मुनिम्॥
सर्वैर्देवगणैः सार्द्धं विमानस्थस्त्वरान्वितः ॥१३॥
अंतरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह ॥
क्षेत्रं लिंगैः समाकीर्णमंगुलस्यांतरं न हि ॥१४॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने रम्ये निर्माल्यं लंघ्यते कथम् ॥१५॥
निर्माल्यलंघनाद्दोषो महान्भवति निश्चितम्॥
इत्यालोच्य पुनर्देवि जग्मुः स्वर्गे मनोरमाः ॥१६॥
निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः ॥
एतस्मिन्नंतरे देवि विमानस्था गणोत्तमाः ॥१७॥
गणैर्नानाविधैः गेयैर्गीयमानश्च किंनरैः ॥
चारणैः स्तूयमानस्तु स्वर्गलोकं व्रजन्सुरैः ॥१८॥
प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः ॥
तेजसा दीप्यमानोयम्पसरोभिश्च सेव्यते ॥१९॥
पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः ॥
याति कुत्र महाबाहो हृष्टात्मा प्रहसन्मुखः ॥२०॥
पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः ॥
कस्त्वं पुरुषशार्दूल किं त्वया सुकृतं कृतम् ॥२१॥
देवानां पुरतो देवि निःशेषं कथितं तदा ॥
महाकालो महादेवः पूजितो भक्तितः स्तुतः ॥२२॥
हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम् ॥
नाम दत्तं च सुभगं नागचंड इति ध्रुवम् ॥२३॥
पप्रच्छुरमरास्तच्च सादरं गणसत्तम ॥
नागचंड त्वया तत्र निर्माल्यं पतितं त्वथ ॥२४॥
महाकालवने पुण्ये लंघितं चरता त्वया ॥
संचारो नास्ति तत्रैव लिंगसंकीर्णता यतः ॥२५॥
उपायस्तेन कथितो देवानां पुरतस्तदा ॥
तत्र तिष्ठति देवेशा लिंगं सर्वफलप्रदम् ॥२६॥
ईशानेश्वरदेवस्य तिष्ठतीशानभागतः ॥
तस्य दर्शनमात्रेण न स गच्छति दुष्कृतम् ॥२७॥
निर्माल्यलंघनोद्भूतं यत्पापं जायते महत् ॥
तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात् ॥२८॥
ततो देवगणाः सर्वे महाकालवने पुनः ॥
समायाता महाभागा महाकालश्च पूजितः ॥२९॥
यथा लिंगं च तद्दृष्टं सर्वदोषक्षयंकरम् ॥
तस्य दर्शनमात्रेण निर्माल्यलंघनादिभिः ॥
दोषो नष्टः सुराणां च ततो नामास्य चक्रिरे ॥३०॥
अस्माकं तेन कथितं नागचंडेन धीमता ॥
नागचंडेश्वराख्यानमतो लोके भविष्यति ॥३१॥
कृत्वास्य नाम ते देवा जग्मुः स्वर्गेहमुत्तमम् ॥
पूजयिष्यंति ये केचिन्नागचंडेश्वरं शिवम् ॥
निर्माल्यलंघनोद्भूतं तेषां नश्यति पातकम्॥३२॥
नागचंडेश्वरं देवं ये पश्यंति दिनेदिने ॥
अज्ञानाज्ज्ञानतः पापं तेषां नश्यति नान्यथा ॥३३॥
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम् ॥
सप्त जन्मान्यवाप्नोति दर्शनेन न संशयः ॥३४॥
प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान् ॥
कीर्त्तनान्नात्र संदेहो नागचंडेश्वरस्य च ॥३५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
नागचंडेश्वरस्यैव प्रतीहारेश्वरं शृणु ॥३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये नागचंडेश्वरमाहात्म्यवर्णनंनामैकोनविंशोऽध्यायः ॥१९॥छ ॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP