अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्री हर उवाच ॥
विद्धि कामेश्वरं देवि तत्र लिंगं त्रयोदशम् ॥
यस्य दर्शनमात्रेण सौभाग्यं जायते शुभम् ॥१॥
ब्रह्मणो ध्यायमानस्य प्रजाकामस्य पार्वति ॥
उत्पन्नोऽर्कप्रभाकारो लावण्यनिचयो महान् ॥
अलंकारावृतः कांतो दिव्यमंडनमंडितः ॥२॥
तं दृष्ट्वा परमं दिव्यं कांतं सौभाग्यशोभितम् ॥
अप्रतर्क्यमविज्ञेयं ब्रह्मा प्रोवाच तं तदा ॥३॥
को भवान्किं निमित्तं तु इह वा किमुपागतः ॥
वद त्वं मन्मथाकार कंदर्प इव लक्ष्यमे ॥४॥
ब्रह्मणो वचनं श्रुत्वा प्रोक्तं तेनैव सादरम् ॥
अहं ते सृष्टिकामस्य भावेन विहितोंशकः ॥
प्रजापते महाभाग किं करोमि दिशस्व माम् ॥५
॥ ब्रह्मोवाच ॥
मया तु सृष्टिकामेन ये प्रजापतयः कृताः ॥
न ते शक्ताः प्रजाः स्रष्टुं कामैते सुखमाप्नुयुः ॥६॥
त्वमग्रणीः प्रजासर्गे त्वदधीनमिदं जगत् ॥
कुरु सृष्टिं विचित्रां च कंदर्प मम शासनात्॥७॥
इत्युक्तो ब्रह्मणा देवि जगामादर्शनं स्मरः॥
क्रुद्धेन ब्रह्मणा शप्तो विनाशं यास्यसि ध्रुवम्॥८॥
मद्वचो न कृतं यस्माद्भवनेत्रोद्भवाग्निना॥
तच्छ्रुत्वा दारुणं शापं कंदर्पो भयविह्वलः॥
ब्रह्माणं प्रणतो भूत्वा प्रह्वः प्रांजलिरब्रवीत्॥९॥
प्रसीद देवदेवेश अनन्यगतिके मयि॥
नहि निर्भरतां यांति प्रभूणामाश्रिते रुषः॥१०॥
॥ब्रह्मोवाच॥
यस्मात्ते भक्तिरतुला ममोपरि महामते ॥
तस्मात्स्थानानि दत्तानि तव द्वादश संख्यया ॥११॥
कामिनीनां कटाक्षेषु केशपाशेषु चैव हि ॥
जघनस्तननाभौ तु दोर्मूलेऽधरपल्लवे ॥१२॥
वसंते कोकिलालापे ज्योत्स्नायां जलदागमे ॥
कामार्थे च मया दत्तौ सबलौ मधुमाधवौ ॥१३॥
स्त्रियोऽमृतमया धन्या संसारे सारकारणम् ॥
रतेश्चैव निधानानि संतानार्थं विनिर्मिताः ॥१४॥
एताभिर्वरनारीभिर्जगदेवं वशीकृतम् ॥
स्त्रीभिरासक्तमनसः कुतः पुंसो मनस्विता ॥१५॥
कृतश्चापि स्ववशता स्त्रीगौरवगतस्य च ॥
स्त्रिय एव विनाशाय पूर्वेषाममरद्विषाम् ॥१६॥
स्त्रिय एव हि देवानामिंद्रादीनां भयाश्रयाः ॥
नारीभिर्लब्धवृत्तेश्च पुरुषस्यापि सर्वतः ॥१७॥
पराभवः प्रभवति विवशत्वं च भीषणम् ॥
स्त्रीभिराजितचित्तस्य सुलभो विपदोदयः ॥१८॥
इत्युक्तो मन्मथो भद्रे ब्रह्मणा च विसर्जितः ॥
दत्त्वा वै पुष्पकं चापं तथा वै बाणपंचकम् ॥१९॥
रतिप्रीतिसमायुक्तो झषकेतुर्मनोभवः ॥
विडंबयति लोकांस्त्रीन्ससहायो धनुर्धरः ॥२०॥
पंडितांस्तापसान्वीरान्सुधियश्च जितेंद्रियान् ॥
काले कुशलभावज्ञान्देवान्पितृगणांस्तथा ॥२१॥
भूतप्रेतपिशाचांश्च यक्षगंधर्वकिंनरान् ॥
कृमिकीटपतंगांश्च भूतग्रामं चतुर्विधम् ॥२२॥
ममार्थे च कृतो यत्नश्चिंतयित्वा पुनःपुनः ॥
दुःसाध्यः शंकरो देवः श्रूयते भुवनत्रये ॥
तस्य देवस्य कः शक्तः क्षोभणार्थं मया विना ॥२३॥
इत्युक्त्वा तु समायातो यत्राहं तपसि स्थितः ॥
रत्या युतः स गर्वेण सख्याऽयं मधुनाश्रितः ॥२४॥
दृष्टवान्मां तदा कामः पिंजकूटजटासटम् ॥
किंचिन्निमित्ततोऽनिद्रं भोगींद्रकृतभूषणम् ॥२५॥
प्रेक्षमाणमृजुस्थानं नासावंशाग्र लोचनम्॥
ततोऽवमरकाकारमालंब्याश्रयमात्रकम्॥२६॥
प्रविष्टः कररंध्रेण मदनो हृदये मम॥
रत्यर्थं कामतप्तेन संस्मृता भवती मया॥२७॥
समाधेर्भावना दिव्या लक्ष्यप्रत्यक्षरूपिणी ॥
गता मम विमलता तत्क्षणादेव पार्वति ॥२८॥
उन्मत्ततां गतोऽहं वै विकृतिं मदनात्मिकाम् ॥
निराकृतं मया देवि धैर्यमालंब्य यत्नतः ॥२९॥
दृष्टो मयात्महृदये मन्मथोऽपथ्यकारकः ॥
देहस्थं निर्दहिष्यामि प्रत्याहारप्रयोगतः ॥३०॥
अमानुषीं व्रजेद्योनिं योगिनं प्रविशेद्यदि ॥
बाह्याग्नौ धारणां कृत्वा देहसंस्थे विनिर्दहेत् ॥३१॥
एतस्मिन्नंतरे सोऽपि संतप्तो मदनो भृशम्॥
इच्छाशरीरो दुर्ज्ञेयो निःसृतो व्यसनात्मकः ॥३२॥
सहकारतरोर्मूले भूत्वा मधुसखस्तदा ॥
मुमोच मोहनं नाम मार्गणं मकरध्वजः ॥३३॥
स चापि हृदये प्राप्तो मदीये लीलया शरः ॥
ततोहं कुपितो देवि नेत्रं कृत्वा तृतीयकम् ॥३४॥
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्॥
गमितो भस्मसात्तूर्णं कंदर्पः कामिदर्पकः ॥३५॥
तस्मिन्दग्धे ततः कामे रतिः शोकपरायणा ॥
विललाप सुदुःखार्ता पतिभक्तिपरायणा ॥३६॥
हा नाथ हा मम प्राण हा स्वामिन्किं जहासि माम् ॥
पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो ॥३७॥
एवं च विलपंतीं तां वागुवा चाशरीरिणी ॥
मा त्वं रुद विशालाक्षि पुनरेष पतिस्तव ॥
प्रसादाद्देवदेवस्य उत्थास्यति शिवस्य च ॥३८॥
प्रार्थितोऽहं ततो देवि तस्मिन्नवसरे प्रिये ॥
एष कामस्त्वया दग्धः क्रोधेन परमेश्वर ॥३९॥
येनानेन प्रभो नष्टा सृष्टिर्वै धरणीतले ॥
कृपां विधेहि देवेश दीनायै देहि मे पतिम् ॥४०॥
ततोऽहमब्रुवं देवि तां रतिं दीनभाषिणीम् ॥
अनेन मदनेनाद्य कृतं तरलितं मनः ॥४१॥
ततो दग्धं मयास्यांगं जीवये त्वत्प्रसादतः॥
अंगं दग्धं मयास्याद्य तृतीयनेत्रवह्निना ॥४२॥
तस्मादनंग एवैष प्रजासु विचरिष्यति ॥
अनंगोऽपि यदावंत्यां लिंगं संसेवयिष्यति ॥४३॥
देवानामनुकंपार्थमनंगोऽसौ कृतो मया ॥
त्रिदशैश्च समादिष्टः कामोऽवंत्यां जगाम ह ॥४४॥
तत्र गत्वा ह्यनंगोऽपि भक्तिभावसमन्वितः ॥
ददर्श परमं लिंगं समीहितफलप्रदम् ॥४५॥
प्रोक्तं तुष्टेन लिंगेन काम काममवाप्स्यसि ॥
अनंगोऽपि समर्थस्त्वं भविष्यसि न संशयः ॥४६॥
जन्म प्राप्स्यति रुक्मिण्या गर्भे कृष्णस्य संगमात् ॥
भविता विश्रुतो लोके नाम्ना शंबरसूदनः ॥४७॥
अनंगेन त्वया यस्मान्मनसा तोषि तोऽपि सन्॥
तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना काम सर्वदा ॥४८॥
ये त्वां पश्यंति कंदर्पं भक्त्या परमया युताः ॥
प्राप्नुवंति गतिं नित्यं ते सदानंददायिकाम् ॥४९॥
दीर्घायुषो भविष्यंति रूपं तेषां भविष्यति ॥
कुलं च निर्मलं तेषां ये त्वां पश्यंति मन्मथ ॥५०॥
ऐश्वर्यं परमान्भोगान्स्त्रियो दिव्यकलान्विताः ॥
अरोगा संततिस्तेषां भविष्यति न संशयः ॥५१॥
चैत्रशुक्लत्रयोदश्यां ये मां पश्यंति भक्तितः ॥
देवलोकं समासाद्य मोदिष्यंति हि ते नराः ॥५२॥
यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ॥
रुद्रलोकं गमिष्यंति विमानैः सर्वकामिकैः ॥५३॥
इत्युक्तः कामदेवोपि लिंगेन परमेश्वरि ॥
तत्राश्रमपदं चक्रे तस्य लिंगस्य संनिधौ ॥५४॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कामेश्वरस्य शृण्वग्रे कुटुंबेश्वरवैभवम् ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP