संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ६३ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६३ Translation - भाषांतर ॥ श्रीहर उवाच ॥धनुःसाहस्रनामानमीश्वरं शृणु पार्वति ॥त्रिषष्टिसंख्यकं दिव्यं दर्शनात्पापनाशनम् ॥१॥विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि ॥तस्य पुत्रद्वयं जातं सुनीतिः .सुमतिस्तथा ॥२॥एकदा तु वनं यातो मृगयां स विदूरथः ॥ददर्श गर्त्तं सुमहद्भूमेर्मुखमिवोद्गतम् ॥३॥तं दृष्ट्वा चिंतयामास किमेतदिति पार्थिवः ॥पातालविवरं मन्ये वडवानलसंनिभम् ॥४॥चिंतयन्निव तत्रासौ ददर्श विजने वने ॥ब्राह्मणं सुव्रतं नाम तपस्विनमकल्मषम् ॥५॥स तं पप्रच्छ नृपतिः किमेतदिति भो द्विज ॥६॥॥ ब्राह्मण उवाच ॥दानवः सुमहावीर्यो वसत्युग्रो रसातले ॥कुजंभोनाम विख्यातो भिनत्ति वसुधामिमाम् ॥७॥तमजित्वा कथं राज्यं भोक्ष्यसे वसुधाधिप ॥तेन विध्वंसिता विप्रा रात्रौ निःसृत्य पार्थिव ॥८॥उपद्रुतास्तथा देशा ध्वस्ताश्चैव तथाश्रमाः ॥आप्याययति दैत्योऽयं सबली मुशलायुधः ॥९॥यदि त्वं घातयस्येनं पातालांतरगोचरम् ॥ततः समस्तवसुधापतिरेव भविष्यसि ॥१०॥इति विप्र वचः श्रुत्वा मंत्रयामास पार्थिवः ॥मंत्रिभिः सहितोऽमोघं श्रुत्वा मुशलमद्रिजे ॥११॥तं मंत्रं क्रियमाणं तु सूनुभ्यां सह मंत्रिभिः ॥तत्पार्श्ववर्त्तिनी कन्या शुश्रावाथ मुदावती ॥१२॥ततः कतिपयाहे तु तां कन्यां जलजेक्षणाम् ॥जहारोपवनाद्दैत्यः कुजंभः स्वसखीवृताम् ॥१३॥एतच्छ्रुत्वा महीपालः क्रोधपर्याकुलेक्षणः ॥उवाच पुत्रौ जानेऽहं सकुजंभो महासुरः ॥१४॥दृष्ट्वा भूमौ पुरा गत्तें तत्र संशयिते मयि ॥कथितो द्विजमुख्येन मया पृष्टेन पुत्रकौ ॥१५॥स हन्यतां सोऽपहर्त्ता मुदावत्याः सुदुर्मतिः ॥प्रस्थितौ नृपभक्त्याथ स्वसैन्यपरिवारितौ ॥१६॥तौ सुतौ तत्र संप्राप्तौ पाताले पितृशासनात्॥युयुधाते कुजंभेन स्वशक्त्या सेनया वृतौ ॥१७॥ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ॥बाणैश्चिरतरं युद्धं तेषामासीत्सदारुणम्॥ १८॥ततो मायाबलवता तेन दैत्येन तत्क्षणात् ॥अमोघेनाद्वितीयेन मुशलेन वरानने ॥१९॥हत सैन्यौ रणे बद्धौ राजपुत्रौ महाबलौ ॥२०॥ततः श्रुत्वा महीपालो विवर्णवदनोऽभवत् ॥बद्धपुत्रः परामार्त्तिं जगाम गिरिपुत्रिके ॥२१॥रुरोद बहुधात्यर्थं पुत्रस्नेहेन पार्थिवः ॥ततो विलपतस्तस्य मार्कंडेयो महामुनिः ॥अनेकसृष्टिसंहारदृष्टकार्यपरावरः ॥२२॥उदितादित्यसंकाशः सप्तकल्पानुगो वशी ॥आजगाम नृपाभ्याशे विलपंतं ददर्श सः ॥राजानं कथयामास त्रिकालज्ञो महामुनिः ॥२३॥मा शुचस्त्वं महीपाल क्षत्त्रियोऽसि दृढव्रतः ॥क्व शोक क्व महीपालो दुर्जयो लोकपालवत् ॥२४॥शोकं कुपुरुषाचीर्णं त्यज त्वं राजसत्तम ॥उद्यमं कुरु राजेंद्र कुजंभं घातयिष्यसि ॥२५॥नात्युच्चं मेरुशिखरं नातिनीचं रसातलम् ॥व्यवसायः सखा यस्य नास्ति दूरे महोदधिः ॥२६॥महाकालवने लिंगमाराधय समाहितः ॥रूपेश्वरस्य देवस्य पार्श्वे दक्षिणतः स्थितम् ॥२७॥धनुःसाहस्रतुल्यं तु मुशलस्य निवारणम् ॥धनुः प्राप्स्यसि राजेंद्र कुजंभं विनिपातय ॥२८॥धनुःसाहस्रहस्तैस्तु रक्षितं योधसत्तमैः ॥लिंगं देवासुरैर्युद्धे सहस्राक्षेण सेवितम् ॥इंद्रेण च धनुर्लब्धं जंभो वै येन पातितः ॥२९॥तस्य तद्वचनं श्रुत्वा स राजाथ विदूरथः ॥जगाम त्वरितो देवि महाकालवनं शुभम् ॥३०॥ददर्श तत्र तल्लिंगं पूजयामास भक्तितः ॥तस्य तुष्टस्तदा देवो ददौ दिव्यं धनुस्तदा ॥३१॥धनुःसाहस्रतुल्यं च मुशलस्य निवारणम् ॥धनुर्लब्ध्वा तदा राजा बद्धगोधांगुलित्रवान्॥जगाम धीरः पातालं तेन गर्तेन सत्वरम् ॥३२॥ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवस्तदा ॥येन पातालमखिलमासीदापूरितांतरम्॥ ३३॥ततो ज्यास्वनमाकर्ण्य कुजंभो दानवेश्वरः ॥आजगामातिकोपेन स्वसैन्यपरिवारितः ॥३४॥ततो युद्धमभूत्तस्य सह राज्ञा वरानने ॥दिनानि त्रीणि स यदा योधितस्तेन दानवः ॥३५॥ततः कोपपरीतात्मा मुशलायाभ्यधावत ॥गंधैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ॥३६॥यावद्गृह्णाति मुशलं तावत्सा च मुदावती ॥पस्पर्श चंदनव्याजैरनेकैश्च पुनःपुनः ॥३७॥ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ॥तदा मुसलपातास्ते धनुषा निष्प्रभीकृताः ॥३८॥धनुर्ज्याघातशब्देन पतिते भूतले तदा ॥गतो वैवस्वतं लोकं कुजंभोनाम दानवः ॥३९॥ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ॥जगुर्गंधर्वपतयो देववाद्यानि सस्वनुः ॥४०॥स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा ॥मुदावतीं मुदा युक्तो हर्षगद्गदनिर्भरः ॥४१॥पुत्राभ्यां सहितो देवि सुसंपूर्णमनोरथः ॥सांतःपुरपरीवारः पुनरायाद्वरानने ॥४२॥महाकालवने रम्ये यत्र तल्लिंगमुत्तमम्॥पूजयामास रत्नैश्च वस्त्रैराभरणैस्तथा ॥४३॥ततः स पूजितो देवैः शक्रेण च पुनःपुनः ॥अस्य लिंगस्य माहात्म्याद्धनुः प्राप्तं नृपेण ३॥४४॥कुजंभोऽपि हतो दैत्यो देवविद्वेषकारकः ॥धनुःसाहस्रनामायमतः ख्यातिं गमिष्यति ॥४५॥भक्त्या ये पूजयिष्यंति धनुःसाहस्रमीश्वरम्॥यास्यन्ति शत्रवस्तेषां क्षयं नैवात्र संशयः ॥४६॥अर्चिते देवदेवेशे धनुःसाहस्रिके शिवे ॥अर्चिताः सर्वदेवाः स्युर्वरदाश्च न संशयः ॥४७॥प्रातर्मध्येऽपराह्णे च धनुःसाहस्रकं शिवम् ॥ये नमन्ति नरा नित्यं न ते नरकभोगिनः ॥४८॥तीर्थानां च यथा गंगा रक्षिता योधसत्तमैः ॥तथायं रक्षको देवो नाम्ना धनुःसहस्रकः ॥४९॥तत्र गंगादितीर्थानि विद्यन्ते विविधानि च ॥सुरहस्यातिपुण्यानि सद्यः पापहराणि च ॥५०॥तेषां फलं विनिर्दिष्टं ये पश्यन्ति तु भक्तितः ॥धनुःसाहस्रकं नाम सदा शत्रुक्षयंकरम् ॥५१॥एष ते कथितो देवि प्रभावः पापना शनः ॥धनुःसाहस्रदेवस्य देवं पशुपतिं शृणु ॥५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिङ्गमाहात्म्ये धनुःसाहस्रमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP