संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ६९ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६९ Translation - भाषांतर ईश्वर उवाच ॥एकोनसप्ततिं देवि शृणु पार्वति यत्नतः ॥यस्य दर्शनमात्रेण संगमो जायते सदा ॥१॥कलिंगविषये देवि सुबाहुर्नाम पार्थिवः॥बभूव भुवि विख्यातो यज्वा परमधार्मिकः ॥२॥तस्य पत्नी विशालाक्षी दुहिता दृढधन्वनः ॥कांचीपुरनिवासस्य क्षात्रव्रतरतस्य च ॥३॥परस्परानुरागत्वात्परा प्रीतिरभूत्तयोः ॥तस्य राज्ञः शिरोऽर्त्तिस्तु मध्याह्ने जायते सदा ॥४॥आयुर्वेदविदां मुख्यैः शरीरस्य चिकित्सकैः ॥तैः प्रणीताः प्रिये योगा व्यथावृद्धिर्दिनेदिने ॥५॥एवं बहुतरे काले गते देवि महीपतिम् ॥प्रत्युवाच विशालाक्षी भर्त्तुर्दुःखेन पीडिता ॥६॥कथमेषा शिरोरोगे जरा ते पृथिवीपते ॥वैद्याश्च बहवो देव नानाशास्त्रविशारदाः ॥प्रयतंतेऽस्य नाशाय तथाप्येष न शाम्यति ॥७॥एवं स प्रियया प्रोक्तः सुबाहुः पृथिवीपतिः ॥प्रत्युवाच प्रियां भार्यां प्रेम्णा प्रणयवत्सलाम् ॥८॥सुखदुःखाश्रयं देवि शरीरं सर्वदेहिनाम् ॥पूर्वकर्मानुसारेण सुखं दुःखं च जायते ॥९॥इति संबोधिता राज्ञी तेन राज्ञा वरानने ॥पुनः प्रोवाच हार्द्देन तमेवार्थं सुदुःखिता ॥१०॥यदा सा वारितात्यर्थं पृच्छत्येव पुनःपुनः ॥तदा राजा प्रहस्यैव तां च राज्ञीमुवाच ह ॥११॥यदि त्वं श्रोतुकामासि रोगस्यास्य समुद्भवम् ॥कारणं तत्त्वतो देवि नाख्यास्याम्यहमत्र वै ॥१२॥महाकालवनं गत्वा सिद्धगंधर्वसेवितम् ॥तत्र ते कथयिष्यामि यदि कौतूहलं तव ॥१३॥श्वः प्रभाते गमिष्यामि त्वया सार्द्धं शुचिस्मिते ॥इति तस्य वचः श्रुत्वा सा राज्ञी विस्मिता स्थिता॥उत्सुका गमनार्थाय महाकालवनं शुभम् ॥१४॥अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥प्रतस्थे भार्यया सार्द्धं सैन्येन महता वृतः ॥१५॥आजगाम क्रमेणैव महाकालवनं शुभम् ॥आवासं विदधे धीमाच्छिप्रातीरे नृपस्तदा ॥१६॥पातालवाहिनी तत्र गंगा त्रिपथगामिनी ॥द्वितीया नीलगंगा च शिप्रया सह संगता ॥१७॥तासां च संगमस्तत्र तल्लिंगं संगमेश्वरम् ॥पूजितं गंगया सार्द्धं शिप्रया नीलगंगया ॥१८॥अथ प्राप्ते सुबाहौ च सा राज्ञी विस्मयान्विता ॥पप्रच्छ प्रणयोपेता कथ्यतामत्र कारणम् ॥यत्त्वयोक्तं पुरा देव कथयिष्यामि तत्र वै ॥१९॥एवमुक्तः सुबाहुस्तु प्रियया पृथिवीपतिः ॥प्रत्युवाच प्रियां प्रेम्णा प्रहस्य च पुनःपुनः ॥२०॥सुखं स्वपिहि भद्रांगि श्रांता वयमनिंदिते ॥प्रभाते कथयिष्यामि शिरोरोगस्य कारणम् ॥२१॥अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥कथयामास माहात्म्यं देवस्य परमेष्ठिनः ॥२२॥अहमासं कुशूद्रस्तु सर्वदा वेदनिंदकः ॥विश्वासघातको नित्यं त्वमप्येवं तथाविधा ॥२३॥पुत्रो जातस्तु दुःशीलो देवब्राह्मणवंचकः ॥कुरूपः कर्कशो दुष्टः प्रकृत्या पापपूरुषः ॥२४॥अथ दीर्घेण कालेन द्वादशाब्दं भयावहा ॥अनावृष्टिस्तु संजाता सर्वप्राणिभयंकरी ॥२५॥वियोगस्तु त्वया प्राप्तो मया सार्द्धं सुतेन च ॥ततोऽहं दुःखसंतप्तो वैराग्यं परमं गतः ॥२६॥इच्छता निधनं सद्यो मया प्रोक्तमिदं वचः ॥मम पुण्यविहीनस्य पापध्यानरतस्य च॥२७॥सुतेन भार्यया सार्द्धं संगमो दुर्लभः पुनः ॥कथं स्वपिति पापिष्ठः कृत्वा पापं सुदारुणम् ॥२८॥कुटुंबार्थे करोत्येवमेकाकी निस्तरत्यसौ ॥धर्म एव परो बंधुर्धर्म एव परा गतिः॥धर्मेण साध्यते सर्वं तस्माद्धर्मं समाश्रयेत् ॥२९॥इति चिंतयतोऽत्यर्थं मम प्राणा गताः प्रिये ॥विविधा यातना प्राप्ता मया नरककोटिषु ॥३०॥अंतकालेऽपि धर्मस्य प्रशंसा या मया कृता ॥मत्स्योऽहं तेन पुण्येन जातः शिप्राजले शुभे ॥३१॥त्वं च श्येनी ततो जाता तस्मिन्नेव वनोत्तमे ॥प्रावृट्कालेऽथ संप्राप्ते आश्लेषानुगते रवौ ॥३२॥नदीत्रयरयेणैव निःसृतोऽहं जलात्ततः ॥त्वया शिरसि संप्राप्तो नखैर्विद्धोऽस्मि सुंदरि ॥३३॥आनीतोऽहं त्वया देवि संगमेश्वरसंनिधौ ॥कैवर्तैर्निधनं प्राप्तं त्वया सार्द्धं वरानने ॥३४॥म्रियमाणेन मे दृष्टो देवोऽसौ संगमेश्वरः ॥शिप्रया स्नापितोऽत्यर्थं गंगया नीलगंगया ॥३५॥तस्य दर्शन मात्रेण जातोऽहं पृथिवीपतिः ॥कलिंगविषये देवि सर्वभूपालवंदितः ॥३६॥सुता त्वं वल्लभा जाता कांचीपुरनिवासिनः ॥क्षात्रव्रतरतस्यैव सुभगा दृढधन्वनः ॥३७॥आवां राजत्वमापन्नौ तस्य लिंगस्य दर्शनात् ॥त्वया कररुहैर्विद्धो मारितो लगुडैश्च तैः ॥३८॥मध्याह्ने कदनं स्मृत्वा ततो मे शिरसि व्यथा ॥स्मरामि जातिमात्मीयामस्य देवस्य दर्शनात् ॥३९॥एतत्ते कथितं देवि पृष्टोऽहं यत्त्वया पुरा ॥गच्छ सुंदरि भद्रं ते यत्र ते वर्त्तते मनः ॥४०॥स्थातव्यं च मयात्रैव सेव्योऽसौ संगमेश्वरः ॥४१॥ततः सा निरवद्यांगी नीलोत्पलविलोचना ॥करुणं सुस्वरं कृत्वा भर्त्तार मिदमब्रवीत् ॥४२॥मयापि संस्मृतं देव पूर्वजन्मनि चेष्टितम् ॥अस्य लिंगस्य माहात्म्यात्तिर्यग्योनिगतावपि ॥४३॥प्राप्तावावां मनुष्यत्वं निर्मलेषु कुलेषु च ॥प्राप्ता श्रीरतुला लोके प्राप्तं राज्यमकंटकम् ॥४४॥प्राप्ता भार्या प्रियाहं ते त्वं च प्राप्तो मया नृप ॥ख्यातोयं त्रिषु लोकेषु नामतः संगमेश्वरः ॥४५॥अस्य देवस्य माहात्म्याद्वियोगो न भविष्यति ॥यथा कृष्णस्य लक्ष्म्या च पार्वत्या च शिवस्य च ॥४६॥पुनः प्रणम्य प्रणता सहसा मन्मथाकुला ॥भर्त्ता सुबाहुर्मे भूयादन्यस्मिन्निह जन्मनि ॥४७॥तव देवप्रसादेन यदि त्वं संगमेश्वरः ॥ततो विलोक्य सोन्मेषं कुसुमेषुतरंगिताम् ॥कांतां पिबन्निव दृशा प्राह तां तरलेक्षणाम् ॥४८॥सहजेनाभिजन्येन गुणैः कांत्या विभूषिता ॥मया प्राप्ता विशालाक्षि प्राप्तं मज्जन्मनः फलम्॥४९॥ततस्तां भयसंत्रस्तां कंपिताधरपल्लवाम्॥गृहीत्वा च करे कांतां जगामांतःपुरं निजम्॥५०॥वदन्कंदर्पसर्पेण दष्टोऽहं दैवतोऽधुना॥चचार तत्र निःसारं संसारं कलयन्धिया॥५१॥पुरे मम वरारोहे चिरं रेमे तया सह॥एवं राजा प्रियां प्राप्य निवेद्य च निजां कथाम् ॥५२॥भेजे राज्यं तया सार्द्धं विस्तारितमहोत्सवः ॥अशाश्वतमिदं ज्ञात्वा अर्थिभ्योऽपि ददौ धनम् ॥५३॥अपूर्वत्यागिना तेन त्रैलोक्यं विस्मयं ययौ ॥राज्यं कृत्वा चिरं कालं सभार्यो नृपसत्तमः ॥५४॥भुक्त्वा च विपुलान्भोगांस्तस्मिँल्लिंगे लयं गतः ॥अतो देवि सुविख्यातो देवोऽसौ संगमेश्वरः ॥५५॥यः पश्येत्परया भक्त्या तल्लिंगं संगमेश्वरम् ॥न वियोगो भवेत्तस्य पुत्रभ्रातृप्रियादिभिः ॥। ५६॥नियमेन तु यः पश्येत्तल्लिंगं संगमेश्वरम् ॥राजसूयसहस्रस्य फलं तस्याधिकं भवेत् ॥५७॥गांगं च सफलं पुण्यं यामुनं नामर्दं तथा॥ ।जायते चांद्रभागं च संगमेश्वरदर्शनात् ॥५८॥यः पश्येच्छ्रावणे मासि तल्लिंगं संगमेश्वरम् ॥कार्तिकस्वामिनो यात्रा कृता तेन न संशयः ॥। ५९॥मासि चाश्वयुजे देवं यः पश्येत्संगमेश्वरम्॥कृतं तेन सहस्रं तु वाजपेयं वरानने ॥६०॥यः पश्येत्कार्त्तिके मासि तल्लिंगं संगमेश्वरम्॥ ।राजसूयसहस्रं तु कृतं तेन न संशयः ॥६१॥चतुरो वार्षिकान्मासान्यः पश्येत्संगमेश्वरम् ॥स याति परमं स्थानं ममाभीष्टतरं प्रिये ॥६२॥ ।एष ते कथितो देवि प्रभावः पापनाशनः ॥संगमेश्वरदेवस्य शृणु दुर्द्धर्षमीश्वरम्॥ ६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥६९॥छ ॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP