अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ११
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम् ॥
वीरभद्रसमीपे तु सर्वसिद्धिप्रदायकम् ॥१॥
देव दारुवने पूर्वं विप्रा योगसमन्विताः ॥
स्पर्द्धया सिद्धिलब्ध्यर्थं तपोऽकुर्वत संयताः॥२॥
शाकाहारा निराहाराः पर्णाहारास्तथापरे ॥
दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे ॥३॥
केचिद्वीरासनरता धूम्रपानरताः परे ॥
पादैरूर्ध्वैरधोवक्त्रैः केचिदभ्रावकाशिकाः ॥४॥
कृच्छ्रचांद्रायणादीनि कुर्वन्त्यन्ये समाहिताः ॥
न चापि परमा प्राप्ता सिद्धिर्वर्षशतैरपि ॥५॥
दुःखार्त्ताश्चिंतयामासुः कथं सिद्धिर्भविष्यति ॥
तपसा दुष्करेणैव सिद्धिर्न वात्र लभ्यते ॥६॥
व्यर्था श्रुतिस्तथा जाता या गीता मुनिभिः पुरा ॥
तपसा लभ्यते सर्वं तपोमूलमिदं जगत् ॥७॥
अंजनं गुटिका चैव पादुकागमनं तथा ॥
खड्गसिद्धिर्बिले वासश्चिंतामणिरपेक्षितम् ॥८॥
एवं तेऽचिंतयसिद्धाः परमामर्षपूरिताः ॥
उत्सार्य तत्तपोधर्मं नास्तिक्यं भावमागताः ॥९॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
आश्वासयंती तान्सिद्धान्माता पुत्रमिवौरसम् ॥१०॥
माऽवमन्यध्वमार्या हि श्रुतिर्व्यर्था महीतले ॥
तपो न निंद्यं धर्मो वा श्रूयतामत्र कारणम् ॥११॥
भविता भवतां सिद्धिरत्र नैव तपोधनाः ॥
स्पर्द्धया सिद्धिकामैश्च तपस्तद्धि कृतं वृथा ॥१२॥
कामाच्च तपसो हानिरहंकाराच्च विस्मयः ॥
क्रोधाल्लोभात्तथा मोहाज्जायते नात्र संशयः ॥१३॥
स्पर्द्धया रहितो यस्तु कामक्रोधविवर्जितः ॥
करोति कर्म भावेन स तपःफलमश्नुते ॥१४॥
वासनावासितो यस्तु एकचित्तः समाहितः ॥
आस्तिकः श्रद्दधानश्च स तपःफलमश्नुते ॥१५॥
मातृवत्परदाराणि परद्रव्याणि लोष्टवत् ॥
यः पश्यति नरो नित्यं स तपः फलमश्नुते ॥१६॥
ईदृशे पुरुषे विप्रास्तपःसिद्धिश्च दृश्यते ॥
भवंतः स्पर्द्धया चैव कृतवंतश्च दुष्करम् ॥१७॥
तस्माद्वर्षसहस्रेण नैव सिद्धिर्भविष्यति ॥
यदि मद्वचनं कार्यं निर्विकल्पेन चेतसा ॥१८॥
महाकालवनं गत्वा यूयं सर्वे समाहिताः ॥
आराधयध्वं देवेशं सदा सिद्धिप्रदायकम् ॥१९॥
दर्शनात्तस्य देवस्य लभ्यते सिद्धिरुत्तमा ॥
सनकादयोऽपि ये देवमासाद्य योगतत्पराः ॥
पूजयित्वापि भावेन संसिद्धिं परमां गताः ॥२०॥
राज्ञा वसुमता पूर्वं खङ्गसिद्धिः सुदुर्लभा ॥
प्राप्ता दर्शनमात्रेण लिंगस्यास्य प्रभावतः ॥२१॥
पादुकागमनं लब्धं हैहयेन महात्मना ॥
कृतवीरात्मजेनैव वाहानां च सहस्रकम् ॥२२॥
अदृश्यकरणं चैव प्राप्तं चानूरुणा पुरा॥
स्वर्णसिद्धिश्च सिद्धेन पादलेपो रसायनम्॥
अंजनं च तथा लब्धं लिंगस्यास्य च दर्शनात्॥२३॥
आकाशवचनं श्रुत्वा ते सिद्धा विस्मयान्विताः॥
समायाता मुदा युक्ता महाकालवनोत्तमे॥२४॥
सर्वसिद्धिप्रदं चैव ददृशुर्लिंगमुत्तमम् ॥
दर्शनात्तस्य लिंगस्य संसिद्धिं परमां गताः ॥२५॥
ततःप्रभृति विख्यातो देवैः सिद्धेश्वरः परः ॥
ये पश्यंति नरा देवि देवं सिद्धेश्वरं परम् ॥
न तेषां दुर्लभा सिद्धिर्भविष्यति महीतले ॥२६॥
सिद्धेश्वरं गमिष्यंति भावहीनाः प्रसंगतः ॥
संसिद्धास्ते भविष्यंति नियता नात्र संशयः ॥२७॥
महापातकसंयुक्तो यस्तु सिद्धेश्वरं स्मरेत् ॥
संसिद्धस्तु भवेन्नूनं ज्ञानैश्वर्यसमन्वितः ॥२८॥
नियमेन तु यः पश्येद्देवं सिद्धेश्वरं परम् ॥
षण्मासाज्जायते सिद्धिर्वांछिता या भवेद्धृदि ॥२९॥
अष्टम्यां च चतुर्द्दश्यां कृष्णपक्षे विशेषतः ॥
सिद्धेश्वरं तु यः पश्येत्स पश्येन्मम मंदिरम् ॥३०॥
अपुत्रो लभते पुत्रं निर्धनस्तु धनं लभेत् ॥
विद्यार्थी लभते विद्यां भार्यार्थी लभते स्त्रियम् ॥३१॥
संक्रांतौ सोमवारे च ग्रहणे चैव योऽर्चयेत् ॥
कुलानां शतमुद्धृत्य पैतृकं स्वाधिकं प्रिये ॥
मोदते मम लोके च यावदिंद्राश्चतुर्दश ॥३२॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सिद्धेश्वरस्य देवस्य लोकपालेश्वरं शृणु ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥११॥छ ॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP