संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ३६ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३६ Translation - भाषांतर ॥ श्रीहर उवाच ॥मार्कण्डेयेश्वरं विद्धि षट्त्रिंशत्तममीश्वरम् ॥यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः ॥१॥ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः ॥वेदाध्ययनसंपन्नः स चापुत्रो बभूव ह ॥२॥पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति ॥अपुत्रस्य कुतो लोक इति वेदेषु पठ्यते ॥३॥तस्मात्तपः करिष्यामि येन मे तनयो भवेत् ॥एवं संचित्य बहुधा स जगाम हिमालयम् ॥४॥चकार वसतिं चापि तपसे भावितात्मवान् ॥वायुभक्षोंबुभक्षश्च निराहारोर्ध्वपादकः ॥५॥शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक् ॥एवमादीनि चान्यानि तपांसि सुबहून्यपि ॥६॥चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु ॥न तुष्टोऽहं तदा देवि तपसा दुष्करेण तु ॥७॥ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया ॥करोत्येव तपः क्रूरं पुत्रहेतोर्मुनिर्महान् ॥८॥तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान् ॥तपसा दुष्करेणैव क्षुभिता नाकवासिनः॥९॥समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च ॥ऋषयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी ॥अकालप्रलयो देव भविष्यति न संशयः ॥१०॥मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति॥मया प्रोक्तं वरारोहे पुत्रमिच्छत्ययोनिजम् ॥११॥अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम् ॥चन्द्राभं चन्द्रवदनं चन्द्रवद्भुवनप्रियम् ॥१२॥नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् ॥विशालचारुजघनं चारुकुण्डलमंडितम् ॥पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः ॥१३॥त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले ॥न ददासि मुनेः पुत्रं तप्यतो विषमं तपः ॥१४॥फलस्य दाता तपसां कथं त्वं गीयसे बुधैः ॥कस्त्वां नु शरणं गच्छेल्लोकानां सम्भवं भवम् ॥१५॥करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम् ॥त्वयाहं सुचिरं देवं सत्कृता करुणाकर ॥१६॥नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम् ॥स त्वं सर्वजगन्नाथ प्रभुः कर्त्ता प्रशासिता ॥१७॥हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः ॥सर्वेश्वर स्तुतोऽभीष्टं किं न विप्राय दीयते ॥१८॥तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः ॥अस्य पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥१९॥मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः ॥लोलपंकजपत्राक्षि गौरि भूधरगात्रजे ॥२०॥स्कंदमातः कलापूर्णचंद्रबिम्बनिभानने ॥कृशोदरि विनिःस्पृष्टचामीकरनिभद्युते ॥२१॥त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि ॥त्वं सिद्धिः साधका साध्यं त्वं क्रिया प्रक्रमाश्रया ॥२२॥त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसंततिः ॥कृत्वा मानं बहुविधं मयैव सह सुन्दरि ॥२३॥भ्राजसे विविधाकारा मोहयित्वाखिलं जगत् ॥त्वयाप्युक्तं पुनर्देवि क्रियतां तु वचो मम ॥२४॥मुनयेऽस्मै तपःक्षीणसर्वगात्राय सांप्रतम् ॥वरः प्रदीयतामस्मै ब्राह्मणाय महेश्वर ॥२५॥मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम ॥असौ गच्छतु विप्रेंद्रो महाकालवनोत्तमे ॥२६॥पत्तनेश्वरपूर्वे तु तत्रास्ते लिंगमुत्तमम् ॥पुत्रप्रदं विशालाक्षि महापातकनाशनम् ॥२७॥मदीयं वचनं श्रुत्वा त्वयाप्युक्तो द्विजोत्तमः ॥महाकालवनं गच्छ पुत्रार्थमृषि सत्तम ॥तत्र लिंगं समाराध्य लप्स्यसे पुत्रमुत्तमम् ॥२८॥त्वया संप्रेरितो विप्रस्तथेति कृतनिश्चयः ॥आशया परया युक्तः पुत्रकामो जगाम सः ॥२९॥तत्र दृष्ट्वा महालिंगं पुत्रदं पापनाशनम् ॥भक्त्या संसेवयामास तपसा दुष्करेण तु ॥३०॥अथ केनापि कालेन निःसृतोऽहं त्वया सह॥लिंगमध्याद्वरारोहे स च प्रोक्तो द्विजोत्तमः ॥३१॥शर्वोऽहमिति जानीहि ब्रूहि किं करवाणि ते ॥आवां पुरा प्रसन्नौ ते ज्ञातं तव विचेष्टितम् ॥३२॥यमिच्छसि वरं ब्रह्मंस्तदद्य प्रददामि ते ॥मया प्रोक्तः प्रसन्नेन मुनिः परमविस्मितः ॥३३॥प्रह्वः प्राह सुहृदये स हृष्टो मुनि सत्तमः ॥अपत्यहेतोर्देवेशौ किमलभ्यं भवेन्मम ॥३४॥मया प्रोक्तस्तदा देवि मृकण्डो मुनिसत्तमः ॥अयोनिजस्ते तनयो मानुषो वै भवि ष्यति ॥ऐश्वर्यज्ञानसंपन्नो दीर्घायुः सर्ववित्सुधीः ॥३५॥एतस्मिन्नंतरे देवि प्रादुर्भूतो महातपाः ॥पुत्रः परमधर्मात्मा मार्कण्डेयो महामुनिः ॥३६॥स जातमात्रो धर्मात्मा तत्रैव तपसि स्थितः ॥देवमाराधयामास स तुष्टोऽथ वरं ददौ ॥३७॥त्वयाहं जातमात्रेण तपसा तोषितो यतः ॥तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना द्विजसत्तम ॥३८॥ये मां पश्यंति विप्रेंद्र भक्त्या परमया युताः ॥प्राप्नुवंति गतिं नित्यं ते सदानंद दायिनीम् ॥३९॥प्रसंगाद्ये गमिष्यंति ते सदा दुःखवर्जिताः ॥देवदेवं समाराध्य मोदिष्यंति हि ते नराः ॥४०॥त्र्यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ॥ते भविष्यंति सततं मम भक्ताश्च ये नराः ॥४१॥ये मां संपूजयिष्यंति हृद्यैः पुष्पैः सुगंधिभिः ॥दीर्घायुषो भविष्यंति सदा दुःखविवर्जिताः ॥४२॥इत्युक्ते तेन लिंगेन मार्कण्डेयो महातपाः ॥तपश्चचार तत्रैव महाकालवने स्थितः ॥४३॥प्रभावः कथितो देवि मार्कंडेयेश्वरस्य च ॥शिवेश्वरस्य देवस्य माहात्म्यं शृणु सांप्रतम् ॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मार्कंडेयेश्वरमाहात्म्यवर्णनंनाम षट्त्रिशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP