संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ५४ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५४ Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥चतुःपंचाशतं विद्धि देवं कंटेश्वरं प्रिये ॥यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत ॥१॥आद्यकल्पे पुरा देवि राजाभूत्सत्यविक्रमः ॥स शत्रुभिर्जितः संख्ये हृतकोशोऽतिदुःखितः ॥२॥वनं जगाम गहनमेकाकी श्रमकर्शितः ॥तत्राश्रमं ददर्शाथ वसिष्ठस्य महात्मनः ॥३॥तेनर्षिणा वसिष्ठेन दृष्टमात्रः स भूपतिः ॥पूजितो विष्टराद्येन राजार्हेण च सादरम् ॥४॥ज्ञात्वा तपःप्रभावेन सूर्यवंशोद्भवं नृपम् ॥पप्रच्छागमनं देवि कुशलं च पुनः पुनः ॥५॥स नृपः कथयामास वसिष्ठाय सुदुःखितः ॥राज्यं च सकलं ब्रह्मन्हृतं विद्वेषिभिर्मम ॥६॥त्वामहं शरणं प्राप्तो दुःखैकायतनो यतः ॥निष्कण्टकं कथं राज्यं भविष्यति पुनः प्रभो ॥उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥७॥तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवानृषिः ॥ध्यात्वा च कथयामास बहुकौतू हलान्वितः ॥८॥महाकालवनं भूप व्रज त्वं कार्यसिद्धये ॥दिव्या नदी वने तत्र विश्रुता भुवनत्रये ॥९॥तस्यास्तीरे शुभं लिंगं पृथुकेश्वर दक्षिणे ॥द्रक्ष्यसे नृपशार्दूल तपस्यंतं च तापसम् ॥अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ॥१०॥वचनात्तस्य विप्रस्य वसिष्ठस्य महात्मनः ॥जगाम सहसा राजा महाकालवनं शुभम् ॥११॥ददर्श तापसं तत्र चिरंजीविनमव्ययम् ॥उपवासकृतक्षामं द्वादशादित्यवर्चसम् ॥१२॥तापसेन नृपो दृष्टो मित्रोऽयं मम वल्लभः ॥प्राप्तो राज्यपरिभ्रष्टो ज्ञात्वा वचनमब्रवीत् ॥१३॥एह्येहि नृपशार्दूल दिष्ट्या प्राप्तोऽसि मेंऽतिके ॥इत्युक्त्वा तापसेनैव हुंकारश्च कृतस्तदा ॥१४॥तद्धुंकारात्तु पातालं भित्त्वा पंच च कन्यकाः ॥निर्ययुः कांचनं पीठमेका तासां प्रगृह्य वै ॥१५॥भृंगारं तु गृहीत्वान्या निःसृता जलसंभृतम् ॥पादप्रक्षालनार्थाय तृतीया समुपस्थिता ॥१६॥अन्ये द्वे व्यजने गृह्य पार्श्वाभ्यां च व्यवस्थिते ॥ततो हुंकारमकरोत्पुनरेव महातपाः ॥१७॥तेन हुंकारशब्देन देवलोकात्समागतम् ॥दृष्ट्वा चाप्सरसां संघं नृत्यगीतमनो हरम् ॥१८॥अनंतरं ददर्शाथ लिंगं ज्योतिष्करं परम् ॥उत्पन्नं च जगद्यस्मिँल्लीयते सचराचरम् ॥१९॥तद्दृष्ट्वा विस्मयाविष्टो बभूव नृपसत्तमः ॥प्रणम्य शिरसा विप्रं किमिदं द्विजसत्तम ॥२०॥एवं पृष्टो नृपेणाथ स विप्रो वाक्यमब्रवीत् ॥सप्तजन्मानि राजेंद्र त्वयाहं परितोषितः ॥२१॥अतस्ते दर्शिता माया तपसा दुष्करेण तु ॥लिंगस्यास्य प्रभावेण पश्य मे तपसो बलम् ॥२२॥हुंकारेण कृता पृथ्वी जलपूर्णा तु तत्क्षणात् ॥हुंकाराच्च जलं ग्रस्तं मुखादग्निरजायत ॥२३॥हुंकारात्पृथिवी सर्वा जाता वह्निमयी तदा ॥संहृत्य तत्क्षणाद्वह्निं मुखाद्वायुर्विनिर्ययौ ॥२४॥हुंकारेण कृतं सर्वं तत्क्षणादेव पार्वति ॥न दिशः प्रदिशो वापि न नक्षत्रग्रहास्तदा ॥२५॥ततो बभ्राम तन्नास्ति स नृपो विस्मयान्वितः ॥चिंतयामास सहसा क्व लिंगं क्व च तापसः ॥२६॥ एवं चिंतयतस्तस्य ततः शब्दो महानभूत् ॥तस्माच्छब्दाच्च संजातं पुरं प्राकारसंवृतम् ॥२७॥सुहर्म्यकक्ष्यारचितं विशालं विशुद्धजांबूनदभूषितं च ॥दिव्यैर्जनैः सेवितमात्मविद्भिर्ददर्श राजा सहसा पुरं तत् ॥२८॥भूयोभवन्महाशब्दस्तस्मात्स्त्रीयुगलं वभौ ॥सितवस्त्रधरा चैका कृष्णवस्त्रधरा सिता ॥२९॥पुनः शब्दो बभूवाथ तस्मात्पुरुषसत्तमः ॥द्विशिराः षण्मुखश्चैव पादैर्द्वादशभिर्युतः ॥३०॥पुनः शब्दाच्च संजज्ञे पुरुषः सप्तधा गतः ॥संहृतं हि पुनस्तच्च दर्शयित्वा द्विजेन तु ॥प्रोक्तमित्थं विशालाक्षि जातकंटकितं नृपम् ॥३१॥पश्य लोकमिमं मह्यं तपसा निर्मितं नृप ॥त्वत्प्रियार्थमयं लोको दर्शितस्ते नृपोत्तम ॥३२॥एवमुक्तस्तदा तेन तापसेन नराधिपः ॥विस्मयापन्नहृदयः पप्रच्छ प्रयतः सुधीः ॥३३॥भगवन्सितकृष्णे द्वे के स्त्रियौ द्विजस त्तम ॥कोऽसौ द्वादशपाद्विप्र द्विशिराः षण्मुखः पुनः ॥३४॥कश्चासौ पुरुषो ब्रह्मन्य एकः सप्तधाऽभवत् ॥तस्य तद्वचनं श्रुत्वा कथयामास तापसः ॥३८॥एते स्त्रियौ त्वया दृष्टे सितकृष्णे नृपोत्तम ॥ते च रात्र्यहनी प्रोक्ते ब्रह्मणा निर्मिते पुरा ॥३६॥शीर्षद्वयं च यद्दृष्टं तेऽयने द्वे प्रकीर्तिते ॥मुखानि यानि दृष्टानि षट् च ते ह्यृतवः स्मृताः ॥पादा द्वादश ये दृष्टा मासा द्वादश ते स्मृताः ॥३७॥यः पुमान्सप्तधा जात एकीभूतो नरेश्वर ॥स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥३८८॥एतत्संवत्सरं चक्रं त्वत्प्रियार्थं निदर्शितम् ॥एवं विदित्वा राजेंद्र न शोकं कर्तुमर्हसि ॥३९॥सर्वो विनश्वरो लोकः सदेवासुरमानुषः ॥मया दृष्टो हि बहुशो लिंगस्यास्य प्रभावतः ॥४०॥कुरु शत्रुविनाशाय लिंग स्यास्य च दर्शनम् ॥राज्यं निष्कण्टकं राजन्भविप्यति न संशयः ॥४१॥एवमुक्तस्तदा राजा दृष्टवाँल्लिंगमुत्तमम् ॥दर्शनात्तस्य लिंगस्य कण्टका ये महीभृतः ॥विद्वेषिणो मृतास्तेऽपि श्रुतास्तेन महीभृता ॥४२॥गतस्तं विषयं राजा चक्रवर्ती बभूव ह ॥लिंगस्यास्य प्रभावेन राज्यं कृत्वा महाधनैः ॥४३॥यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥तापसेन श्रुतं सर्वं दृष्टं ध्यानेन तेन वै ॥४४॥लब्धं निष्कण्टकं राज्यं लिंगस्यास्य च दर्शनात् ॥मम मित्रेण सहसा राज्यभ्रष्टेन तेन वै ॥४५॥अतो नाम सुविख्यातं कण्टेश्वर इति क्षितौ ॥भविष्यति न संदेहो दर्शनाद्राज्यदायकः ॥४६॥अद्यप्रभृति पश्यन्ति देवं कण्टेश्वरं शिवम् ॥तेषां च कण्टकाः सद्यो विनश्यन्ति न संशयः ॥४७॥नैमिषेथ कुरुक्षेत्रे गंगाद्वारे च पुष्करे ॥स्नानात्संसेवनाद्वापि यत्पुण्यं च भविष्यति ॥तत्पुण्यं भविता सम्यक्छ्रीगणेश्वरदर्शनात् ॥४८॥गृहिणो लिंगिनो वापि ये पश्यंति यतव्रताः ॥देवं कण्टेश्वरं भक्त्या तेषां सिद्धिर्भविष्यति ॥४९॥जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम् ॥तत्सर्वं यास्यति क्षिप्रं श्रीकण्टेश्वरदर्शनात् ॥५०॥दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥ध्यानमध्ययनं चैव सर्वं भवति चाक्षयम् ॥५१॥एवं ब्रुवाणं तं विप्रं तापसं संशितव्रतम् ॥लिंगेनोक्तं विशालाक्षि तुष्टेन वरपूर्वकम् ॥५२॥जरारोगविनिर्मुक्तः सर्वशोकविवर्जितः ॥भविष्यति गणाध्यक्षो वरदः सर्वपूजितः ॥अवध्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ॥५३॥एवमुक्तोऽथ लिंगेन तापसो गणतां गतः ॥गणैः परिवृतो देवि मम पार्श्वमुपागतः ॥५४॥अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः ॥तदा देवि मदीयं तु जातं कण्टकितं वपुः ॥५५॥उत्पन्नं च तदा लिंगमशेषारिविनाशनम् ॥देवानां कण्टका ये च दग्धा लिंगाग्निना यतः ॥अतः कंटेश्वरो देवो विख्यातो भुवनत्रये ॥५६॥एष ते कथितो देवि प्रभावः पापनाशनः ॥कंटेश्वरस्य देवस्य शृणु सिंहेश्वरं परम् ॥५७॥इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कंटेश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP