अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥।
स्वर्णज्वालेश्वरं षष्ठं विद्धि चात्र यशस्विनि ॥
यस्य दर्शनमात्रेण धनवानिह जायते ॥१॥
पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे ॥
जातं वर्षशतं दिव्यं सुरतैकरसस्य च ॥२॥
देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ ॥
ततो वह्निः समायातस्त्रैलोक्यार्थे यशस्विनि॥ ३॥
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया ॥
दह्यमानस्तदा तेन गंगां वह्निर्जगाम ह ॥४॥
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम् ॥
तथापि दह्यते वह्निर्वीर्यशेषेण पार्वति ॥५॥
जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम् ॥
ज्वलंतं चातितापेन दुःसहं दुर्द्धरं प्रिये ॥६॥
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति ॥
लोभाभिभूता असुराः सुरा गन्धर्वकिन्नराः ॥७॥
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः ॥
अभ्यधावन्सुसंरब्धास्ते सुवर्णजिघृक्षवः ॥८॥
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम् ॥
अज्ञानात्संगरश्चैव संजातः प्राणहारकः ॥९॥
अथावरणमुख्यानि नानाप्रहरणानि च ॥
प्रगृह्याभ्यनदन्नादैर्देवैः सार्द्धं यशस्विनि ॥१०॥
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह ॥
गन्धर्वाः सह गन्धर्वैः किंनरैः सह किंनराः ॥११॥
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः ॥
वेतालैः सह वेताला युद्धं चक्रुः सुदारुणम् ॥१२॥
पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च ॥
हंति भार्या स्वभर्तारं भर्ता च स्वां प्रियां तथा ॥१३॥
मातरं स्वसुतो हंति माता पुत्रं हिनस्ति च ॥
ततो वैरविनिर्बंधः संजातः स्वर्णकारणात्॥ १४॥
सुराणामसुराणां च सर्वं घोरतरं महत् ॥
प्रासाश्च विपुलास्तीक्ष्णा न्यपतंत सहस्रशः ॥
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥१५॥
सुवर्णार्थे महादेवि वमंतो रुधिरं बहु ॥१६॥
असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले ॥
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ॥१७॥
रुधिरेणावलिप्तांगा निहताश्च परस्परम् ॥
अद्रीणामिव कूटानि धातुयुक्तानि शेरते ॥१८॥
हाहाकारः समभवद्भयकृच्च सहस्रशः ॥
अन्योन्यं छिंदतां शस्त्रैः सुवर्णस्य च कारणात् ॥१९॥
परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः ॥
निघ्नतां समरे ऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥२०॥
छिंधिभिंधि प्रधाव त्वं पातयाधिसरेति च ॥
अश्रूयन्त महाघोराः शब्दास्तत्र समंततः ॥२१॥
एवं तु तुमुले युद्धे वर्त्तमाने महाभये ॥
कंपिता धरणी देवि देवास्त्रस्ताः सवासवाः ॥२२॥
क्षुभ्यंति स्म समुद्राश्च चेलुश्च धरणीधराः ॥
तस्यार्थे पीडितं सर्वं सदेवासुरमानुषम्॥२३॥
ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः॥
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः स्त्रियः॥२४॥
सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः ॥
वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम् ॥२५॥
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥
चिंतयित्वा च तैः सार्द्धमाजगाम ममांतिकम् ॥२६॥
मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः ॥
शस्त्रास्त्रैः पीडिताः केन कस्माद्वो भयमागतम् ॥२७॥
कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम् ॥
तत्सर्वं कथितं देवि ममाग्रे भयविह्वलैः ॥२८॥
ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम् ॥२९॥
लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् ॥
पीडितं च जगत्सर्वं सदेवासुरमानुषम् ॥३०॥
इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने ॥
तस्यार्थे कलहो घोरः संजातो हि परस्परम् ॥३१॥
लोकत्रयविनाशश्च सहसा येन वै कृतः ॥
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघात कम् ॥३२॥
ब्रह्महा वह्निपुत्रस्तु यमुद्दिश्य मृतो जनः ॥
शरीरं शबलं चैव सविकारं भविष्यति ॥३३॥
धातवो हि भविष्यंति तस्य देहे न संशयः ॥
लक्ष्यते दुःखमतुलं छेददाहादिघर्षणम् ॥३४॥
एतस्मिन्नंतरे वह्निर्दृष्ट्वा पुत्रस्य चेष्टितम् ॥
ज्ञात्वा क्रोधं मदीयं तु भीतो वै पुत्रकार णात् ॥३५॥
आजगाम सुवर्णेन सार्द्धं देवि ममांतिकम् ॥
प्रसादितोऽहं पुत्रार्थे वह्निना हि वरानने ॥३६॥
रक्षणीयस्त्वया देव पुत्रोयं तव शंकर ॥
भाण्डागारे स्वकीये तु क्रियतां परमेश्वर ॥३७॥
त्वयि तुष्टे महादेव प्राप्योऽयं नात्र संशयः ॥
इच्छया दीयतां देवि यस्य कस्य जनस्य च ॥३८॥
इति तस्य वचः श्रुत्वा पितृदेवमुखस्य च ॥
तथेति च प्रतिज्ञातं मया लोभाद्यशस्विनि ॥३९ ।
स्नेहान्मया वह्निपुत्र उत्संगे च कृतस्तदा ॥
स्नेहाद्वै चुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः ॥४०॥
ददामि ते महाभाग वरं वरय शोभनम् ॥
परितुष्टोऽस्मि वै कामं यथेष्टं समवाप्नुहि ॥४१॥
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥
ममाभीष्टकरं स्थानं विद्यते पृथिवीतले ॥४२॥
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥
तत्रैव विद्यते लिंगं कर्कोटकस्य दक्षिणे ॥४३॥
महापापहरं पुत्र दर्शनाद्दीप्तिदायकम् ॥
तस्य दर्शनमात्रेण कृतकृत्यो भविष्यसि ॥४४॥
पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति ॥
अकुलीनः कुलीनस्तु समलो निर्मलो नरः ॥४५॥
विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति ॥
दानानि परिपूर्णानि व्रतानि नियमास्तथा ॥४६॥
यज्ञाश्चैवोपवासाश्च तीर्थं पिंडादिकं त्वया ॥
सुसंपूर्णा भविष्यंति तव दानेन सुव्रत ॥४७॥
सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि ॥
प्रियाभीष्टो हि देवानां लोकानां च भविष्यसि ॥४८॥
इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने ॥
ज्वालामाला वृतः पुण्यो निर्मलो हि बभूव ह ॥४९॥
लिंगेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति कांचनम् ॥
अद्यप्रभृति नाम्ना वै ख्यातिं यास्यसि भूतले ॥५०॥
स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा ॥
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ॥५१॥
इत्युक्तो देवि लिंगेन वह्निपुत्रोऽतिनिर्मलः ॥
ज्वालावृततनुर्जातः सूर्यकोटिसमप्रभः ॥५२॥
दीप्तिर्लब्धा सुवर्णेन ज्वालामालाकुला तदा ॥
अतो देवि सुविख्यातः स्वर्णज्वालेश्वरः शिवः ॥५३॥
यस्तमर्चयते भक्त्या स्वर्णज्वालेश्वरं शिवम् ॥
तस्य संजायते देवि विजयो राज्यमूर्जितम् ॥
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम् ॥५४॥
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ॥
तत्क्षालयति देहोत्थं दर्शनान्नात्र संशयः ॥५५॥
यत्फलं पिंडदानेन गयायां लभते नरः ॥
तत्फलं द्विगुणं प्रोक्तं पूजया नात्र संशयः ॥५६॥
गायत्र्याः शतसाहस्रैः सम्यग्जप्तैश्च यत्फलम्॥
तत्फलं समवाप्नोति स्वर्णज्वालेश्वरस्तुतेः ॥५७॥
यत्पुण्यं सर्वदानेन दत्तेन विधिपूर्वकम् ॥
तत्फलं समवाप्नोति कीर्तनान्नात्र संशयः ॥५८॥
पूजयंति चतुर्दश्यां स्वर्णज्वालेश्वरं तु ये ॥
पूज्यंते ते सदा लक्ष्म्या पूरयंत्या मनोरथान् ॥५९॥
रक्षितं त्रिदशैर्देवि गणैर्नानाविधैस्तथा ॥
लिंगं कश्चिन्न जानाति मम मायाविमोहितः ॥६०॥
मम प्रसादात्तद्देवि दृश्यते लिंगमुत्तमम् ॥
एतत्ते कथितं सम्यगन्यच्छृणु वरानने ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्णज्वालेश्वरमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP