अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीमहादेव उवाच ॥
कुटुंबेश्वरसंज्ञं तु देवं विद्धि चतुर्दशम् ॥
यस्य दर्शनमात्रेण गोत्रवृद्धिश्च जायते ॥१॥
यदा देवासुरैः पूर्वं मथितः क्षीरसागरः ॥
तदा च निर्गतं देवि दुर्द्धरं दुःसहं विषम् ॥२॥
कालकूटमयं रौद्रं विषं ज्वालाविभीषणम् ॥
दह्यते च जगत्तेन सदेवासुरमानुषम् ॥३॥
ततो देवगणाः सर्वे सासुरा यक्षराक्षसाः ॥
विषज्वालातिभीताश्च मामेव शरणं गताः ॥४॥
स्तुतोहं विविधैः स्तोत्रैरिदमुक्तं वरानने ॥
अमृतार्थे कृतो यत्नः संप्राप्तं मरणं विभो ॥५॥
अन्यथा चिंतितं कार्यं दैवेन कृतमन्यथा ॥
अतिमथितुमारब्धे लोभाद्वै क्षीरसागरम् ॥६॥
उत्पन्नं कालकूटं तु येन दग्धं चराचरम् ॥
ततोऽस्माकं भयं जातं कालकूटोद्भवं प्रभो ॥७॥
रक्षां कुरु जगन्नाथ शरणागतवत्सल ॥
हितार्थं सर्वलोकानां यथा न प्रलयो भवेत् ॥८॥
मया तेषां वचः श्रुत्वा त्रिदशानां यशस्विनि ॥
मायूरं रूपमास्थाय देवानामनुकंपया ॥
कंठे धृतं महारौद्रं कालकूटाह्वयं तदा ॥९॥
त्वं भीता सहसा नष्टा रूपं दृष्ट्वा तु मामकम् ॥
विषवृक्षमसेव्यं तु ततोऽहं दुःखितोऽभवम् ॥१ ०॥
नदीसंघसमायुक्ता गंगा दृष्टा च पार्श्वतः ॥
सा च प्रोक्ता मया देवि सादरं स्तुतिपूर्वकम् ॥११॥
कालकूटविषं गंगे वेगान्नय महोदधिम् ॥
नान्या शक्ता समानेतुं त्वां विना लोकपावनि ॥१२॥
॥ गंगोवाच ॥
नास्ति मे भगवञ्छक्तिर्विवोढुं च जगत्पते ॥
रौद्ररूपी च दुःसेव्यो दहत्येव न संशयः ॥१३॥
ततस्तु यमुना प्रोक्ता न समर्था सरस्वती ॥
अन्याश्च विविधा नद्यो मयाहूताः पृथ क्पृथक् ॥१४॥
अशक्तास्ताः समानेतुं कालकूटाह्वयं विषम् ॥
तदाहूता मया देवि शिप्रा ब्रह्मसमुद्भवा ॥१५॥
शिप्रे पुत्रि ममादेशान्महाकाल वनं व्रज ॥
गृहीत्वा कालकूटं तु पुरः कामेश्वरस्य हि ॥१६॥
विद्यते परमं लिंगं तस्मिंल्लिंगे नियोजय ॥
मया प्रोक्ता तदा प्राह ब्रह्मणः परमा कला ॥१७॥
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
दुःस्पर्शः कालकूटोऽयं नूनं मां भक्षयिष्यति ॥१८॥
असेव्याहं भविष्यामि दुष्टसंपर्क योगतः ॥
ततो मया पुनः प्रोक्ता शिप्रा पातकनाशिनी ॥१९॥
यानि तीर्थानि भूलोके पाताले यानि संति वै ॥
स्वर्गलोके ह्यंतरिक्षे पुण्यानि चारुहासिनि ॥२०॥
तानि सर्वाणि सेवार्थमागत्य मम वाक्यतः ॥
आज्ञां तव करिष्यंति गच्छ पुत्रि ममाज्ञया ॥२१॥
एवमुक्ता तदा शिप्रा गृहीत्वा कालकूटकम् ॥
समायाता वरारोहे यत्र लिंगमनुत्तमम् ॥२२॥
तद्विषं कालकूटाह्वं निक्षिप्तं लिंगमूर्द्धनि ॥
विषलिंगस्ततो जातो दृष्टो मृत्युप्रदायकः ॥२३॥
पशुः पक्षी नरो वापि यो हि पश्यति तं शिवम् ॥
म्रियते स तदा देवि तस्य देवस्य दर्शनात् ॥२४॥
तीर्थयात्रां ततः कर्तुं तत्रायातांस्तपोधनाः ॥
तं च देवं ततो दृष्ट्वा मृताः सर्वे च तत्क्षणात् ॥२५॥
ततो हाहाकृतं देवि त्रैलोक्यं सचराचरम्॥
हाहाकारं महच्छ्रुत्वा मया ते द्विजसत्तमाः ॥
संजीविताश्च वै सर्वे दृष्टिपातेन पार्वति ॥२६॥
तुष्टुवुः प्रणता विप्रा मामतो विविधैः स्तवैः ॥
मया प्रोक्तास्तु ते विप्रा वृणुध्वं वरमुत्तमम् ॥२७॥
तैरुक्तं प्रणतैर्देवि लोकानां च हितार्थतः ॥
संम्रियंते प्रजा देव लिंगेनानेन शंकर ॥२८॥
ताः संरक्ष जगन्नाथ ह्येषोऽस्माकं वरः प्रभो ॥
प्रतिज्ञातं मया देवि लोकानामनुकंपया ॥२९॥
क्षेमारोग्यकरं लिंगं भविष्यति न संशयः ॥
कायावरोहणाद्विप्राः स्वयमत्रागमिष्यति ॥३०॥
लकुलीशस्तदा चायं देवः स्पृश्यो भविष्यति ॥
वृद्धिकारी कुटुम्बस्य भविष्यति न संशयः ॥३१॥
कुटुंबेश्वर इति नाम्ना लोके ख्यातिं गमिष्यति ॥
इत्युक्तास्ते मया विप्रास्तत्रैव तपसि स्थिताः ॥३२॥
लकुलीशोऽथ तल्लिंगमारुरोह ममाज्ञया ॥
जनयन्विस्मयं लोके कीर्तिं जनपदे तथा ॥३३॥
कुटुम्बेश्वरसंज्ञं तु ये पश्यंति यशस्विनि ॥
तेषां कुले तु वृद्धिः स्यात्कुटुंबस्य न संशयः ॥३४॥
आश्विनासितपंचम्यां दर्श नं यः करिष्यति ॥
बहुपुत्रो बहुधनो भविष्यति न संशयः ॥३५॥
महतीं श्रियमाप्नोति रोगैश्चापि प्रमुच्यते ॥
सर्वकामसमृद्धोऽसौ मम लोके स मोदते ॥३६॥
दर्शनं ये करिष्यंति स्पर्शनं यजनं तथा ॥
ते सर्वे कामसंपूर्णाः प्रयांति मम मंदिरम् ॥३७॥
समीपे तु सरिच्छिप्रा वापीकूपेन संयुता ॥
यस्या दर्शनमात्रेण नरः पापात्प्रमुच्यते ॥३८॥
सोमवारेर्कवारे च स्नात्वा तस्यां समाहितः॥
अष्टम्यां वा चतुर्दश्यां यः पश्येत्कुटुंबेश्वरम् ॥३९॥
राजसूयसहस्रस्य वाजपेयशतस्य च ॥
फलं स लभते देवि सत्यमेतन्मयोदितम् ॥४०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कुटुंबेश्वरदेवस्य त्विंद्रद्युम्नेश्वरं शृणु ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : December 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP