संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ४८ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४८ Translation - भाषांतर ॥ श्रीरुद्र उवाच ॥अष्टाधिकं विजानीहि चत्वारिंशत्तमं प्रिये ॥यस्य दर्शनमात्रेण न भवस्य भयं भवेत् ॥१॥कल्पावसाने प्रथमे पाद्मे पद्मनिभेक्षणे ॥नष्टचंद्रार्कनक्षत्रे नष्टभूमित्रिविष्टपे ॥ब्रह्मा वै चिंतयामास कथं सृष्टिर्भवेदिति ॥२॥इत्याकुलितरूपस्य तस्य नेत्रद्वयात्तदा ॥पपाताश्रुकणः स्थूलो नेत्राद्वामान्महात्मनः ॥३॥तस्मादश्रुकणाज्जातो हारवोनाम दानवः ॥तीक्ष्णदंष्ट्रो महाकायो भिन्नांजनचयप्रभः ॥४॥दक्षिणान्नयनाज्जातः कालकेलीतिविश्रुतः ॥कृष्णदेहोऽतिदीर्घश्च महादंष्ट्रोर्ध्वरोमकः ॥५॥करालवदनो दुष्टो यमरूपो दुरासदः ॥कृष्णांजनचयाकारः पाशपाणिर्विभीषणः ॥६॥तौ तु दैत्यौ समागत्य कृतसंकेतकौ तदा ॥ब्रह्माणं हंतुमिच्छंतौ प्रमत्तावभिधावितौ ॥७॥ततो ब्रह्मा भयाविष्टः कांदिशीकश्चचार ह ॥ततो जलेऽतिगंभीरे सोऽपश्यदमितद्युतिम् ॥८॥पुरुषं पीतवसनं शंखचक्रगदाधरम् ॥तमालोक्य ततो ब्रह्मा संत्रासं परमं गतः ॥उवाच को भवाञ्छेते निःशेषेस्मिंश्चराचरे ॥९॥तमुवाच ततो विष्णुरहमेवं जगत्पिता ॥लोककृल्लोकसंहर्त्ता लोकस्थितिविधायकः ॥१०॥इत्युक्तः पद्मजस्तेन कृष्णेनाक्लिष्टकर्मणा ॥प्रत्युवाच तदा ब्रह्मा स्रष्टाहं भुवनत्रये ॥११॥मया सृष्टं जगत्सर्वं सदेवासुरमानुषम् ॥अत्रांतरे च तौ दैत्यावायातौ बलदर्पितौ ॥१२॥भोक्तुकामौ क्षुधाविष्टौ दृष्ट्वा ब्रह्माब्रवीदिदम् ॥कृष्णं कमलपत्राक्षं कंपिताधरपल्लवः ॥१३॥यदि त्वं कारणं किंचिदस्य लोकस्य कथ्यसे ॥तदा तावसुरौ भीमौ हंतुमर्हसि सांप्रतम् ॥१४॥तच्छ्रुत्वा तु तदा विष्णुर्ज्ञात्वा दुःखं परस्परम् ॥क्षणं विश्रम्यतां तावत्पश्चाद्द्वंद्वं भविष्यति ॥१५॥इत्युक्त्वा कृतसंकेतौ तौ दैत्यौ बलगर्वितौ ॥ब्रह्मनारायणौ हंतुं धावितौ तु त्वरान्वितौ ॥१६॥ब्रह्मविष्णू तदा दृष्ट्वा दानवौ दुर्जयौ रणे ॥संत्रासं जग्मतुस्तत्र स्वेदकंपपरिप्लुतौ ॥१७॥अन्योन्यमूचतुस्तौ हि देशकालोचितं वचः ॥कर्तव्यं किं नु वा कार्यं मम वा तव वा भवेत् ॥१८॥उपस्थितं भयं घोरं तत्र किं कार्यमस्ति नौ ॥आसन्नं मरणं दृष्ट्वा ब्रह्मा प्रोवाच केशवम् ॥१९॥गम्यतां कृष्ण शीघ्रं वै महाकालवनोत्तमम् ॥प्रलयेऽप्यक्षयं प्रोक्तं तत्र रक्षा भविष्यति ॥अहं तत्र गमिष्यामि व्रज त्वं तत्र केशव ॥२०॥इत्युक्तो ब्रह्मणा कृष्णो जगाम सह तेन वै ॥महाकालवनं प्राप्तौ न च दृष्टो महेश्वरः ॥तत्रापि दशसाहस्रकालः पर्यटतोस्तयोः ॥२१॥ततो ज्वालामयं दिव्यं नूपुरेश्वरदक्षिणे ॥दृष्ट्वा तल्लिंगमाहात्म्यं ब्रह्मविष्णू ततः स्वयम् ॥प्रार्थयांचक्रतुर्देवमभयं देहि नौ प्रभो ॥२२॥शरणं भव देवेश दानवाभ्यां प्रपीडितौ ॥अभयं च ततो दत्तं तेन लिंगेन पार्वति ॥२३॥शुश्राव गर्जितं ताभ्यां दानवाभ्यां पितामहः ॥प्रत्युवाच भयत्रस्तो लिंगं कंपितकं धरः ॥२४॥स एष मृत्युरस्माकमेति शीघ्रं भयावहः ॥दीयतामभयं देव कृष्णेनोक्तं तदा प्रिये ॥२५॥भयार्त्तवचनं श्रुत्वा ब्रह्मणः केशवस्य च ॥तौ दैवौ तेन लिंगेन जठरे संनिवेशितौ ॥२६॥दृष्टं ताभ्यां जगत्सर्वं सार्कचंद्रमहीधरम् ॥ससिद्धगंधर्वकुलं शैलताललताकुलम् ॥२७॥समुद्रपीठसंयुक्तं नानावर्णाश्रमोज्ज्वलम् ॥सपातालतलं देवि सभुजंगमहीरुहम् ॥२८॥ससप्तलोकविन्यासं सदेवासुरराक्षसम् ॥पुनस्तौ निःसृतौ तस्माज्जठराद्विस्मयान्वितौ ॥२९॥दृष्ट्वौ भस्मीकृतौ दैत्यौ तेन लिंगेन पार्वति ॥तुष्टुवाते परं लिंगं भक्त्या परमया युतौ ॥३०॥लिंगेनोक्तं प्रसन्नेन भवद्भ्यां किं ददाम्यहम्॥ममामोघमिदं देवौ दर्शनं चातिदुर्लभम् ॥३१॥ततो ब्रह्मा च विष्णुश्च वरयामासतुर्वरम् ॥यदि देयो वरोऽ स्माकं नृणामभयदो भव ॥३२॥ये च त्वां पूजयिष्यंति यक्ष्यंति च समाहिताः ॥संस्मरिष्यंति सततं तेषामभयदो भवे ॥३३॥अभयेश्वरसंज्ञस्तु ख्यातो भुवि भविष्यसि ॥ते कृतार्था भविष्यंति ये त्वां पश्यंति भक्तितः ॥३४॥भविष्यति भयं नैव संसारपतनं तथा ॥धनपुत्रकलत्राणां वियोगो न भविष्यति ॥३५॥दुःखिता दुर्भगा नारी दर्शनं या करिष्यति ॥सौभाग्यसुखसंयुक्ता भविष्यति न संशयः ॥वीरं तु गुर्विणी कन्या पतिमाप्स्यति शोभनम् ॥३६॥यंयं काममभिध्याय ये त्वां पश्यंति मानवाः ॥तंतं मनोरथं सर्वं गमिष्यंति न संशयः ॥३७॥एवं भविष्यतीत्युक्त्वा लिंगेन परमेश्वरि ॥विसर्जितौ गतौ दैवौ ब्रह्मविष्णू स्वमालयम् ॥३८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥अभयेश्वर देवस्य श्रूयतां पृथुकेश्वरम्॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्येऽभयेश्वरमाहात्म्यवर्णनंनामाष्टाचत्वारिंशोऽध्यायः॥४८॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP