अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीरुद्र उवाच ॥
अनादिकल्पेश्वरं देवं पंचमं विद्धि पार्वति ॥
सर्वपापहरं नित्यमनादिर्गीयते सदा ॥१॥
कल्पस्यादौ पुरा देवि लिंगमेतद्विनिर्गतम् ॥
यदा नाग्निर्न चादित्यो न भूमिर्न दिशो न खम् ॥२॥
न वायुर्न जलं चैव न द्यौर्ने न्दुर्ग्रहा न च ॥
न देवासुरगंधर्वा न पिशाचा न राक्षसाः ॥३॥
अतो लिंगात्समुद्भूतं जगत्स्थावरजंगमम् ॥
कालेन च लयं याति लिंगेऽस्मिन्पर्वतात्मजे ॥४॥
अस्माल्लिंगात्समुद्भूता वंशा देवर्षिपैतृकाः ॥
मन्वंतराणि वंशानि वंश्यानुचरितं च यत् ॥५॥
यावत्यः सृष्टयश्चैव यावंतः प्रलयास्तथा ॥
समुद्राः पर्वताश्चैव निम्नगाः काननानि च ॥६॥
भूर्लोकाद्याश्च ये लोकाः पातालाः सप्त ये स्मृताः ॥
गतिस्तथार्कसोमादिग्रहर्क्ष ज्योतिषामपि ॥७॥
दृश्यादृश्यं च तत्सर्वमतो लिंगाद्वरानने ॥
अनादिकारणं यत्तदव्यक्ताख्यं महर्षयः ॥
यदाहुः पुरुषं सूक्ष्मं नित्यं सदसदा त्मकम् ॥८॥
ध्रुवमक्षयमजरममेयं नान्यसंश्रयम् ॥
गंधरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥९॥
अनाद्यंतं जगद्योनिं त्रिगुणप्रभवाव्ययम् ॥
असादृश्यमविज्ञेयं लिंगं प्रोक्तं महर्षिभिः ॥१०॥
प्रलयस्यांते तेनेदं दिव्यमासीदशेषतः ॥११॥
अहमुर्व्यां प्रबुद्धस्तु जगदादिरनादिमान् ॥
सर्वहेतुरचिंत्यात्मा परः कोऽप्यपरक्रियः ॥१२॥
प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः ॥
क्षोभयामास योगेन परेण परमेश्वरः ॥१३॥
यथा संनिधिमात्रेण गंधः क्षोभाय जायते ॥
मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥
अनादिः कथ्यते देवो जगत्कारणतत्परम् ॥१४॥
प्रधानं क्षोभ्यमाणं तु तेन लिंगेन पार्वति ॥
जायते भुवनाधारो ब्रह्मांड इति विश्रुतः ॥१५॥
यस्मिन्नंडे जगत्सर्वं सदेवासुरमानुषम् ॥
उत्पन्नं च विलीनं च यस्यांतोऽपि न लभ्यते ॥१६॥
स एव क्षोभकः पूर्वं स क्षोभ्यः पृथिवीपतिः ॥
स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥१७॥
उत्पन्नः स जगन्नाथो निर्गुणोऽपि रजोगुणः ॥
भुंजन्प्रवर्तते सर्गं ब्रह्मत्वं समुपागतः ॥१८॥
ब्रह्मत्वे सृजते लोकांस्ततः सत्त्वातिरेकतः ॥
विष्णुत्वमेत्य धर्मेण करोति परिपालनम् ॥१९॥
ततस्तमोगुणोद्भिन्नो रुद्रत्वेनाखिलं जगत् ॥
उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः ॥२०॥
यथा प्राग्वापकः क्षेत्री पालको लावकस्तथा ॥
स संज्ञा याति तद्वच्च ब्रह्मविष्णुत्वरुद्रताः ॥२१॥
ब्रह्मत्वे सृजते लोकानुद्रत्वे संहरत्यपि ॥
विष्णुत्वे पाति तान्सर्वांस्तिस्रोऽवस्थाः स्मृताः सदा ॥२२॥
रजो ब्रह्मा तमो रुद्रः सत्त्वं विष्णुर्जगत्पतिः ॥
एत एव त्रयो वेदा एत एव त्रयो नराः ॥२३॥
कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा ॥
पितृभिश्च गणैः सिद्धैरतोऽनादिकल्पेश्वरः ॥२४॥
नाम प्राप्तं विशालाक्षि महाकालवनं सदा ॥
यदा जातो विवादस्तु ब्रह्मणः केशवस्य च ॥२५॥
अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात् ॥
दिव्या समुत्थिता वाणी निरालंबा तदांबरात् ॥२६॥
महाकालवने लिंगं कल्पेश्वरेति संज्ञकम् ॥
तस्यादिमथवांतं च यः पश्यति स च प्रभुः ॥
भविष्यति न संदेहो न वादः क्रियता मिति ॥२७॥
ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनंतकम् ॥
अधोलोकं गतो विष्णुस्तेन वाक्येन सत्वरम् ॥२८॥
नादिर्दृष्टो न चांतश्च ब्रह्मणा केशवेन तु ॥
तदा तौ विस्मयापन्नौ तुष्टुवाते परस्परम् ॥२९॥
वेदोक्तसूक्तैर्विविधैरभिनंद्य पुरःस्थितौ ॥
नादिरस्ति न चांतश्च न च कल्पोऽत्र दृश्यते ॥३०॥
तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले ॥
ख्यातिं यास्यति नाम्ना च महाकालवनोत्तमे ॥३१॥
पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः ॥
सोऽपि गच्छेच्छिवं दृष्ट्वानादिकल्पेश्वरं शिवम् ॥३२॥
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥
ते धन्या मानुषे लोके ये त्वां शरणागताः ॥३३॥
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥
तत्सर्वमधिकं देव लभ्यते तव दर्शनात् ॥३४॥
तावत्पतंति संसारे सुखदुःखसमाकुले ॥
तावन्न दृश्यते देव संसारार्णवतारकः ॥३५॥
यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत् ॥३६॥
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥
तत्संसर्गी नरो यस्तु महाकिल्बिषकारकः ॥
सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ॥३७॥
यत्फलं चाश्वमेधेन राजसूयेन यत्फलम् ॥
तत्फलं समवाप्नोति तव देव समर्चनात् ॥३८॥
ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥
यैर्न दृष्टो महादेवोऽना दिकल्पेश्वरः शिवः ॥३९॥
इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने ॥
वामे दक्षिणभागे च तस्य लिंगस्य संस्थितौ ॥४०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
यस्य श्रवणमात्रेण लभ्यते परमं पदम्॥ ४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखंडे चतुरशीतिलिंगमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP