संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ६० अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६० Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥मतंगेश्वर संज्ञं तु षष्टिसंख्याकमीश्वरम् ॥विद्धि पापहरं देवि समीहितकरं सदा ॥१॥सुगतिर्नाम विप्रेन्द्रो बभूव द्वापरे युगे ॥सत्यवादी सदा दांतो वेदाध्ययनतत्परः ॥२॥मतंगस्तस्य पुत्रोऽभूद्बाल्याद्दारुणतां गतः ॥सबालं गर्दभं देवि तिष्ठन्तं मातुरंतिके ॥दण्डकाष्ठेन सहसा ताडयामास चापलात् ॥३॥तं तु तीव्राहतं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ॥उवाच मा शुचः पुत्र चंडालोऽयं न वै द्विजः ॥४॥ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ॥ तुदन्पापाकृतिरयं बाले न कुरुते दयाम् ॥५॥स्वकीयां भजते चाथ प्रकृतिं मानवः सदा ॥एतच्छ्रुत्वा मतंगस्तु दारुणं गर्द्दभीवचः ॥६॥दंडकाष्ठं परित्यज्य रासभीं प्रत्यभाषत ॥ब्रूहि रासभि कल्याणि माता मे येन दूषिता ॥७॥कथं मां वेत्सि चंडालं यायावरकुलोद्भवम् ॥केन जातोस्मि चंडालो ब्राह्मण्यं येन मे गतम् ॥८॥॥ गर्दभ्युवाच ॥नापितेन प्रमत्तेन ब्राह्मण्यां वृषलेन हि ॥ततस्त्वमसि चांडालो ब्राह्मण्यं तेन ते गतम् ॥९॥एवमुक्तो मतंगस्तु पितरं वाक्यमब्रवीत् ॥ताताश्चर्यं श्रुतं मेऽद्य जातोऽहं नापितेन वै ॥१०॥गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः ॥एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ॥११॥स गत्वा च ततोऽरण्यमतप्यत महत्तपः ॥ततः संतापयामास विबुधांस्तपसान्वितः ॥१२॥तं तथा तपसा युक्तमुवाच हरिवाहनः ॥मतंग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान्॥वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि ॥१३॥॥ मतङ्ग उवाच ॥ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ॥देहि मे शाश्वतं शक्र वर एष वृतो मया ॥१४॥एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ॥ब्राह्मण्यं याचसे त्वं हि दुष्प्रापमकृतात्मभिः ॥१५॥नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम्॥चंडालयोनौ जातेन न तत्प्राप्यं कथंचन ॥१६॥एवमुक्तो मतंगस्तु संशितात्मा यत व्रतः ॥अतिष्ठदेकपादेन वर्षाणां शतसंख्यया ॥१७॥तमुवाच ततः शक्रः पुनरेव महायशाः ॥ब्राह्मण्यं दुर्लभं वीर मा कृथाः साहसं वृथा ॥१८॥न हि शक्यं प्राप्तुमेवमचिरान्नाशमेष्यसि ॥वृणु वा काममन्यं त्वं ब्राह्मणत्वं सुदुर्लभम् ॥१९॥एवमुक्तो मतंगस्तु संशितात्मा दृढव्रतः ॥सहस्रमेकं पादेन ततोऽब्दानामवर्त्तत ॥२०॥तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥चंडालायौनौ जातेन नावाप्यं ते कथंचन ॥२१॥अन्यं वरं वृणीष्व त्वं मा कृथास्तत्स्वयं श्रमम् ॥एवमुक्तो मतंगस्तु भृशं शोकपरायणः ॥२२॥अतिष्ठत गयां गत्वा सोंगुष्ठेन शतं समाः ॥सुदुष्करं वहन्योगं प्राणायामपरायणः ॥२३॥त्वगस्थिभूतो धर्मात्मा तताप परमं तपः ॥तपंतं तमभिद्रुत्य परिजग्राह वासवः ॥२४॥वराणामीश्वरो दाता सर्वभूतहिते रतः ॥२५॥॥ शक्र उवाच ॥मतंग ब्राह्मणत्वं हि विरुद्धमिह दृश्यते ॥ब्राह्मण्यं दुर्ल्लभं तात ह्यसतां पापशीलिनाम् ॥२६॥ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥तदुत्सृज्येह दुष्प्राप्यं ब्राह्मण्यमकृतात्मभिः ॥२७॥अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥२८॥॥ मतंग उवाच ॥किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ॥तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्॥२९॥ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो॥तपसा च कथं लब्धं विश्वामित्रेण भूभुजा॥३०॥वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः॥तस्मात्तपः करिष्यामि निर्द्वंद्वो निष्परिग्रहः॥ ३१॥अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम् ॥दैवेन कृतमेतद्धि यद्यहं मातृदोषतः॥३२॥एतामवस्थां संप्राप्तो दैवयोगात्पुरंदर ॥नूनं दैवं न शक्यं तु पौरुषेण निवर्त्तितुम् ॥३३॥यदहं यत्नवानेवं न लभे विप्रतां विभो ॥एवं ज्ञात्वा तु देवेश दातुमर्हसि मे परम्॥३४॥यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम॥तदुपायं हि मे शंस कथं विप्रो भवामि वै॥३५॥यथा ममाक्षया कीत्तिर्भवेद्वापि पुरंदर ॥कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये । ३६॥इत्युक्तो हि मतंगेन वासवो बलवृत्रहा ॥कथयामास संतुष्टो लिंगमाहात्म्यमुत्तमम् ॥३७॥॥ इन्द्र उवाच ॥महाकालवने लिंगं स्थापितं ब्रह्मणा पुरा ॥दिव्यमूर्त्तिधरं दिव्यं श्रीसिद्धेश्वरपूर्वतः ॥३८॥तस्य दर्शनमात्रेण विप्रत्वं समवाप्स्यसि ॥वासवस्य च वाक्येन मतंगो गतवांस्तदा ॥३९॥महाकालवनं रम्यं सिद्धक्षेत्रमथापरम् ॥ददर्श तत्र तल्लिंगमशेषफलदायकम् ॥४०॥दृष्ट्वा संपूजयामास पुष्पैर्नानाविधैस्तथा ॥पूजितः प्रत्युवाचेदं मतंगं देवसत्तमः ॥४१॥अहो महान्सभाग्योसि यस्त्वया तोषितोऽस्म्यहम् ॥मत्तः सर्वं समुद्भूतं ब्रह्मांडं भूर्भुवादिकम् ॥४२॥वरदोऽस्मि वरार्हाणां शापदोऽस्मि दुरात्मनाम ॥ब्राह्मण्यं मत्प्रसादाच्च अक्षयं ते भविष्यति ॥४३॥ततोऽसौ विप्रतां यातो मतंगो लिंगदर्शनात ॥पुनः पूजाप्रभावेण ब्रह्मलोकं गतो द्विज ॥४४॥ब्राह्मण्यं दुर्लभं लब्धं लिंगस्यास्य प्रभावतः ॥मतंगेन वरारोहे तस्माद्देवो विगीयते ॥४५॥मतंगेश्वरको लोके ब्रह्मलोकप्रदायकः ॥वर्णाश्रमेषु विद्विष्टाः पाषंडवचने रताः ॥४६॥निर्मर्यादा निराचारा निःशंकाश्चातिलोलुपाः ॥निर्घृणाः क्रूरर्माणो धृष्टाः कलियुगे नराः॥दर्शनात्तस्य लिंगस्य तेऽपि यांति त्रिविष्टपम् ॥४७॥ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः ॥ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम् ॥४८॥ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः॥ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम् ॥४९॥येऽर्चयंति महा देवि मतंगेश्वरमीश्वरम ॥कृतपुण्या नरा मर्त्त्ये तेषां वासोऽक्षयो दिवि॥५०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥मतंगेश्वरदेवस्य शृणु सौभाग्यमीश्वरम् ॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये मतंगेश्वरमाहात्म्य वर्णनंनाम षष्टितमोऽध्यायः ॥६०॥छ ॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP