संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ४९ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४९ Translation - भाषांतर ॥ ईश्वर उवाच॥शृणु पंचाशदेकोनं देवेशं पृथुकेश्वरम्॥यस्य दर्शनमात्रेण सार्वभौमो नरो भवेत् ॥१॥वंशे स्वायंभुवे देवि ह्यंगो राजा बभूव ह ॥मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥२॥वेननामा सुतो जातो नास्तिको धर्मदूषकः ॥देवब्रह्मस्वहारी च परभार्यापहारकः ॥३॥स च शप्तो द्विजैर्देवि तत्क्षणान्निधनं गतः ॥तदूरोर्मथ्यमानात्तु निपेतुर्म्लेछजातयः ॥४॥शरीरे मातुरंशेन कृष्णांजनचयप्रभाः ॥पितुरंशात्समुत्पन्नो धार्मिको द्विजसत्तमैः ॥मथिताद्दक्षिणाद्धस्तात्पृथुः प्रथितविक्रमः ॥५॥स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुष्करम् ॥विष्णोर्वरेण महता प्रभुत्वमगमन्नृपः ॥६॥स च स्वाध्यायरहिता निर्वषट्कारनिर्द्धनाः ॥हाहाभूताः प्रजा दृष्ट्वा ततोऽभूद्दुःखितो नृपः ॥७॥स दोग्धुमैच्छत्त्रैलोक्यं सदेवासुरमानुषम् ॥८॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तयः ॥क्रोधाविष्टं पृथुं दृष्ट्वा वाक्यं चेदमुवाच ह ॥९॥लोकत्रयविनाशाय मा कोपं कुरु भूपते ॥पृथ्व्यानया ग्रासितानि सस्यानि विविधानि च ॥गिलितानि च अन्नानि विद्ध्येवैतन्मतं मम ॥१०॥नारदस्य च वाक्येन क्रोधं चक्रे पृथुस्तदा ॥निर्दग्धुमैच्छत्पृथिवीं सशै लवनकाननाम् ॥११॥मुमोच शस्त्रमाग्नेयं तेन सा धरणी तदा ॥दह्यमाना भयार्त्ता च गौर्भूत्वा पृधुमभ्यगात् ॥१२॥सा वध्यमाना तेनैव नृपं वचनमब्रवीत् ॥शरणं समनुप्राप्ता गौरहं नृपसत्तम ॥१३॥गौरवध्या महीपाल वत्सं कृत्वा च दुग्धि माम् ॥१४॥तस्यास्तद्वचनं श्रुत्वा दुदोह नृपसत्तमः ॥भास्वद्रत्नानि सस्यानि कृत्वा वत्सं हिमालयम् ॥१५॥जाताः प्रजाश्च सुमुखाः प्रवृत्तश्च महोत्सवः ॥प्रवृत्ता यागदानादि क्रिया मगलपूर्विकाः ॥१६॥राजाथ चिंतयामास मया पापमिदं कृतम् ॥अवध्याश्च स्त्रियः प्रोक्ता गौरवध्या द्विजस्तथा ॥१७॥स्त्रीरूपधारिणी पृथ्वी मोहादेषा मया हता ॥गोवधे च कृता बुद्धिरहो पापपरंपरा॥तस्माद्वह्निं प्रवेक्ष्यामि चितां कृत्वा न संशयः ॥१६॥एवं चिंतयतस्तस्य पृथोरमिततेजसः ॥आजगाम पुनस्तत्र नारदो भगवानृषिः ॥१९॥दृष्ट्वा तथाविधं दीनं चिंतयानं पृथुं प्रिये ॥उवाच नारदो धीमान्किमेतदिति पार्थिव॥ २०॥ततः स कथयामास मया पापमिदं कृतम्॥अवध्या स्त्री हता विप्र कृता बुद्धिश्च गोवधे ॥२१॥काँल्लोकानु गमि ष्यामि कृत्वा कर्म सुदारुणम् ॥मरिष्यामि न संदेहो ब्रह्महा पापपूरुषः ॥२२॥अथ चेष्टोपदेशेन दुःखादुद्धर मां द्विज ॥तस्य तद्वचनं श्रुत्वा कथयामास नारदः ॥महापापप्रशमनं लिंगमाहात्म्यमुत्तमम् ॥२३॥महाकालवने लिंगमभयेश्वरपश्चिमे ॥महापापक्षयकरं विद्यते तत्र भूपते ॥गच्छ त्वं सहसा राजंस्तत्र पूतो भविष्यसि ॥२४॥नारदस्य वचः श्रुत्वा पृधुस्तत्र जगाम सः ॥दृष्ट्वा लिंगं च वै रम्यं विपापस्तत्क्षणादभूत् ॥२५॥द्वादशादित्यसंकाशो बभूव पृथिवीपतिः ॥२६॥ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने ॥पृथुना पूजितो यस्माद्भविष्यति महीतले ॥अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः ॥२७॥ये च द्रक्ष्यंति देवेशं पृथुकेश्वरमीश्वरम् ॥ते सर्वकामसंपूर्णा भविष्यंति महीतले ॥२८॥अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम्॥तत्पापं यास्यति क्षिप्रं पृथुकेश्वरदर्शनात् ॥२९॥वाचिकं मानसं वापि कायिकं गुह्यसंभवम् ॥प्रकाशं वा कृतं पापं प्रसंगादपि यत्कृतम् ॥तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात् ॥३०॥पूजयिष्यंति ये भक्त्या देवं वै पृधुकेश्वरम् ॥राज्यं प्राप्स्यंति ते सम्यङ्नृलोके च त्रिविष्टपे ॥३१॥भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले ॥यास्यंति परमं स्थानं ब्रह्मणः परमेष्ठिनः ॥३२॥ इत्युक्त्वा देवसंघैश्च पूजितः पृथुकेश्वरः ॥पृथुः शशास पृथिवीं सपत्तनां सपर्वताम् ॥३३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥पृथुकेश्वर देवस्य शृणु वै स्थावरेश्वरम् ॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः॥ ४९॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP