अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीरुद्र उवाच ॥
ढुंढेश्वरं तृतीयं तु सुखस्वर्गफलप्रदम् ॥
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम् ॥१॥
ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः ॥
स च कामी दुराचारो व्यसनोपहतेन्द्रियः ॥२॥
गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया ॥
यत्र नृत्यति सा रंभा शक्रस्याग्रे विवृण्वती ॥३॥
भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्।
सूचीविद्धादिकरणान्पताकादिकहस्तकान्॥
नृत्यं हस्तादिसंयुक्तं लयतालानुगं तथा ॥४॥
शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः ॥
बभूव हृष्टचेता वै हृषितांगरुहाननः ॥५॥
एतस्मिन्नंतरे देवि ढुंढस्तल्ललितेन तु ॥
कामरागवशेनैव भाव्यर्थेन च मोहितः ॥६॥
तेन रंगरता रंभा पुष्पगुच्छेन ताडिता ॥
स शप्तो वासवेनैव दृष्ट्वाऽन्यायं गणस्य तु ॥७॥
पत त्वं मानुषं लोकं रंगभंगस्त्वया कृतः ॥
इति शप्तो गणो देवि शक्रेणामिततेजसा ॥८॥
पतितो मानुषे लोके विसंज्ञो विह्वलेन्द्रियः ॥
कादिग्भूतो हतो त्साहो विललाप पुनःपुनः ॥९॥
अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् ॥
तस्मान्नीतिर्विधातव्या पुरुषेण विजानता ॥१०॥
न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम ॥११॥
इत्युक्त्वा स तपस्तेपे महेंद्रे पर्वतोत्तमे ॥
श्रीशैले मलये विंध्ये पारियात्रे यमालये ॥१२॥
नो सिद्धोऽसौ यदा देवि तदा गंगामहत्तटम् ॥
यमुनां चंद्रभागां च वितस्तां नर्मदां नदीम् ॥१३॥
गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम् ॥
चर्मण्वतीं समासाद्य स्नात्वा त्यक्तक्रियोऽभवत् ॥१४॥
तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः ॥
न प्राप्तं च मयाभीष्टमटता कर्मभूमिषु ॥१५॥
एतस्मिन्नंतरे देवि वागुवाचाशरीरिणी ॥
आश्वासयंती गणपं महाकालायने व्रज ॥१६॥
प्रयागाद्यानि तीर्थानि पृथिव्यां यानि संति वै ॥
सदा सिद्धिकरं तेषां महाकालं विशिष्यते ॥१७॥
तत्रास्ते सुमहापुण्यं लिंगं सर्वार्थसाधकम् ॥
पिशाचेश्वरसांनिध्ये तमाराधय सत्वरम् ॥१८॥
प्रसादात्तस्य लिंगस्य पुनर्यास्यसि शांकरम् ॥
लोकं तेजस्विनां गम्यं दुर्लभं पापिनां सदा ॥१९॥
इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा ॥
आजगाम मुदा युक्तो महाकालवनोत्तमे ॥२०॥
ददर्श तत्र तल्लिंगं सर्वसंपत्करं शुभम्॥
पूजयामास देवेशं भक्त्या परमया युतः ॥२१॥
लिंगमध्यात्ततो वाणी निःसृता पर्व तात्मजे ॥
अहो तुष्टोस्मि ते वत्स किं कामं प्रददाम्यहम् ॥२२॥
॥ ढुंढ उवाच ॥
यदि तुष्टोऽसि देवेश शरणागतवत्सल ॥
त्वत्पादपंकजे भूयाद्भक्तिर्मेऽविचला सदा ॥२३॥
वरमेनं प्रयच्छाशु यदि तुष्टो महेश्वरः ॥२४॥
ये च त्वां मानवा देव पश्यंति परमेश्वर ॥
पापात्सद्यो विनिर्मुक्तास्ते भवंतु महीतले ॥२५॥
ढुंढस्य भाषितं श्रुत्वा लिंगेनोक्तं यशस्विनि ॥
ये च मां पूजयिष्यंति श्रद्धया परया पुनः॥
ते भविष्यंति सततं सदा पातकवर्जिताः ॥२६॥
लप्स्यंति ते परान्कामान्भविष्यंति गणोत्तमाः॥
पूज्याः सर्वेषु लोकेषु सर्वालंकारभूषिताः ॥२७॥
एवं लब्धवरो ढुंढः प्रांजलिः पुनरब्रवीत् ॥
मन्नाम्ना प्रथितं लिंगं संभूयाद्भुवने सदा ॥२८॥
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति ॥
तदाप्रभृति विख्यातो देवो ढुंढे श्वरः परः ॥२९॥
यस्य दर्शनमात्रेण सदा सिद्धिर्भवेन्नृणाम्॥ ३०॥
भक्त्या ये पूजयिष्यंति देवं ढुंढेश्वरं परम् ॥
आजन्मप्रभवं पापं तेषां यास्य ति तत्क्षणात् ॥३१॥
स एव सुकृती लोके स एव मम वल्लभः॥
यः पश्यति नरो भक्त्या लिंगं ढुंढेश्वरं परम् ॥३२॥
राजसूयशतेनैव यत्पुण्यं च भविष्यति ॥
ततो भविष्यत्यधिकं ढुंढेश्वरनिरीक्षणात्॥३३॥
मानसं वाचिकं वापि कायिकं गुह्यसंभवम् ॥
प्रकाशं वाऽप्रकाशं च प्रसंगादपि यत्कृ तम् ॥
तत्सर्वं यास्यति क्षिप्रं ढुंढेश्वरस्य दर्शनात्॥३४॥
इत्युक्तस्तु मया देवि स ढुंढो गणनायकः ॥
कृतो लिंगस्य माहात्म्याद्गतो लोके मदीयके ॥
रेजे च गणपैः सार्द्धं ममाभीष्टतरोऽभवत्॥३५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
श्रवणात्कीर्त्तनाद्वापि मम लोके महीयते ॥३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये ढुंढेश्वरमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : December 02, 2024
TOP