संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय १५ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १५ Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥इंद्रद्युम्नेश्वरं विद्धि शिवं पंचदशं प्रिये ॥यस्य दर्शनमात्रेण यशः कीर्तिश्च जायते ॥१॥आसीद्राजा पुरा देवि इंद्रद्युम्नो महीपतिः ॥येनेयं रक्षिता पृथ्वी पिता पुत्रमिवौरसम् ॥२॥दृष्ट्वा सोऽथ बहून्यज्ञान्भूमौ प्रचुरदक्षिणान्॥गतः स्वर्गं महात्मा वै सर्वकामफलप्रदम् ॥३॥स चाथ प्रत्युतः स्वर्गान्नष्टकीर्तिर्यदा क्षितौ ॥पपात भूमौ सहसा गतपुण्यो नरा धिपः ॥पतितश्चिंतयामास भ्रशं शोकपरिप्लुतः ॥४॥कृतस्य कर्मणस्त्वत्र भुज्यते यत्फलं दिवि ॥न चान्यत्क्रियते तद्यद्भूतलस्थेन भुज्यते ॥५॥सोऽत्र दोषो मतस्तस्यामतस्तत्पतनं च यत् ॥पतनात्तु महद्दुःखं परितापश्च जायते ॥६॥स्वर्गभाजो भवंतीह यावत्कीर्तिश्च जायते ॥दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः॥यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥७॥अकीर्तिः कीर्त्त्यते यस्य लोके भूतस्य कस्यचित्॥स पतत्यधमाँल्लोकान्यावच्छब्दोऽस्य कीर्त्तितः ॥८॥तस्मात्कल्याणवृत्तः स्यादन्यथा पतनं भुवि ॥विधाय वृत्तं पापिष्ठं कीर्तिमेवाभिवर्द्धयेत् ॥९॥अत्यंतं श्लाघयाम्यत्र कीर्त्तिं स्वर्गकरां पराम् ॥देवैरपि हि सा कीर्तिः कांक्ष्यते परमा यतः ॥१०॥यावत्कीर्त्तिर्मनुष्याणां वर्त्तते भुवि चाक्षया ॥तेजः पुंजेन युक्तानि शरीराणि भवंति हि ॥११॥न स्वेदो न च दौर्गंध्यं पुरीषं मूत्रमेव वा ॥तेषां निर्वचनं राजा विधाता च त्रिविष्टपे ॥उह्यंते ते विमानैश्च नानाभरणभूषिताः ॥१२॥एवं विमृश्य नृपतिरिंद्रद्युम्नो वरानने ॥स्वर्गकामो जगामाथ हिमवंतं नगोत्तमम् ॥१३॥यत्र तेपे तपस्तीव्रं मार्कण्डेयो महामुनिः ॥दृष्ट्वा प्रणम्य शिरसा साष्टांगं च पुनःपुनः ॥पप्रच्छ विनयोपेतस्तमृषिं शंसितव्रतम् ॥१४॥विदितास्तव धर्मज्ञ देवदानवराक्षसाः ॥राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥१५॥न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ॥एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथ्यतां त्वया ॥कथं कीर्त्तिर्ध्रुवा लोके जायते किं तपःफलात् ॥१६॥॥ मार्कण्डेय उवाच ॥हंत ते कथयिष्यामि यतः कीर्तिं समीहसे ॥यावत्कीर्तिर्भूमिसंस्था तावद्वस सुरैः सह ॥तद्गच्छ शीघ्रं धर्मज्ञ महाकालवनोत्तमम् ॥१७॥कल्कलेश्वरदेवस्य समीपे वाम भागतः ॥लिंगं पापहरं तत्र समाराधय यत्नतः ॥१८॥तस्याभ्यर्चनमात्रेण लप्स्यसे कीर्तिमुत्तमाम् ॥स्वर्गं सनातनं चैव यत्सुरैरपि दुर्ल्लभम् ॥१९॥गत्वा स पूजयामास तल्लिंगं कीर्तितं त्विदम् ॥ततो देवाः सगन्धर्वाः प्रशस्य च मुदान्विताः ॥२०॥अन्तरिक्षे विमानस्था प्रोचुर्वाचं नराधिपम् ॥त्वत्कीर्त्तिर्निर्मला जाता लिंगस्यास्य समर्चनात् ॥२१॥अद्यप्रभृति राजेंद्र लिंगं त्वन्नाम नामतः ॥ख्यातिं यास्यति लोकेऽस्मिन्निंद्रद्युम्नेति निश्चितम्॥ २२॥इन्द्रद्युम्नेश्वरं देवं पूजयिष्यंति ये नराः ॥सर्वपापविनिर्मुक्ता विमानैः सर्वकामिकैः ॥२३॥स्वर्गं यास्यंति ते हृष्टाः स्तूयमानाः सुरर्षिभिः॥किंचिच्च दुर्लभं लोके तेषां नैव भविष्यति॥२४॥दर्शनं ये करिष्यंति लोभाद्वापि प्रसंगतः॥तेषां कीर्तिर्यशः पुण्यं धर्मश्चैवं भविष्यति ॥२५॥न स्वर्गात्पतनं तेषां यावदिंद्राश्चतुर्द्दश ॥ये च पूजां करिष्यंति चतुर्दश्यां विशेषतः ॥ते कुलं तारयिष्यंति मातृकं पैतृकं सदा ॥२६॥इत्युक्ता त्रिदशाः सर्वे लिंगं संपूज्य यत्नतः ॥इंद्रद्युम्नेन सहिताः पुनः स्वर्गं गताः प्रिये ॥२७॥एष ते कथितो देवि प्रभावः पापनाशनः ॥इन्द्रद्युम्नेशदेवस्य श्रूयतामपरः प्रिये ॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥छ ॥ N/A References : N/A Last Updated : December 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP