संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ४२ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४२ Translation - भाषांतर ॥ श्रीहर उवाच ॥द्वाचत्वारिंशतं देवं गंगेश्वरमथो शृणु ॥यस्य दर्शनमात्रेण सर्वतीर्थफलं लभेत् ॥ध्रुवाधारं जगद्योनेः पदं नारायणस्य तु ॥१॥पदात्प्रवृत्ता या देवी गंगा त्रिपथगा नदी ॥सा प्रविश्य सुधायोनिं सोममाधारमंभसाम् ॥२॥ततः संवर्द्धमानार्करश्मिसंगतिपावनी ॥पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ॥३॥मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी ॥विकीर्यमाणसलिला निरालंबा पपात सा ॥४॥मन्दरादिषु शैलेषु प्रविभक्तोदका समम् ॥तत्र सीतेति विख्याता ययौ चैत्ररथं वनम् ॥५॥तत्प्लायित्वा च ययावरुणोदं सरिद्वरा ॥६॥तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥मेरुपादवनं गत्वा नन्दने देवनन्दने ॥७॥मानसं च महावेगात्प्लावयित्वा सरोवरम् ॥तस्माच्च शैलराजानं रम्यं त्रिशिखरं गता ॥८॥तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये ॥तान्प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम् ॥९॥मया धृता च तत्रैव जटाजूटेन पार्वति ॥न मुक्ता च यदा गंगा तदा क्रुद्धा ममोपरि ॥१०॥गात्राणि प्लावयामास मदीयानि वरानने ॥मया च रुद्धा क्रोधेन जटामध्ये यशस्विनि ॥११॥तत्रैव सा तपश्चक्रे बहुकल्पशतानि च ॥भगीरथेनोपवासैः स्तुत्या चाराधितो ह्यहम् ॥१२॥तदा मुक्ता मया देवि गंगा त्रिपथगामिनी ॥महाकालमनुप्राप्ता प्लावयित्वोत्तरान्कुरून्॥ १३॥समुद्रमहिषी जाता प्राणेभ्योऽपि गरीयसी ॥नदीनामुत्तमा गंगा समुद्रेण कृता तदा ॥स तया सहितो रेमे समुद्रः सरितांपतिः ॥१४॥ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ॥तथार्णवो जगामाथ ब्रह्मलोकं सनातनम्॥गंगया सहितो देवि दर्शनार्थं महोत्सवे ॥१५॥अथ गंगा सरिच्छ्रेष्ठा समुपायात्पितामहम् ॥तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥१६॥ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ॥महाभिषस्तु राजर्षिर्निःशंको दृष्टवान्नदीम् ॥१७॥तस्य भावं विदित्वाऽथ ब्रह्मणा स तिरस्कृतः ॥उक्तस्तु जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥१८॥गंगा शप्ताथ क्रुद्धेन समुद्रेण यशस्विनि ॥मां विहायान्यसक्तासि तस्माद्यास्यसि मानुषम् ॥१९॥लोकमल्पायुषं दीना तत्र दुःखमवाप्स्यसि ॥तं शापं दारुणं श्रुत्वा गंगा वचनमब्रवीत् ॥२०॥विनापराधाच्छप्ताहं कस्माद्वै देवसंसदि ॥पतिव्रता पतिप्राणा पतिना परमार्थतः ॥२१॥प्रमादाद्वस्त्रमुद्धूतं वायुना व्यापकेन तु ॥प्रत्युवाच ततो ब्रह्मा तां नदीं लोकपावनीम् ॥२२॥वसूनां कारणाद्देवि शप्ता यस्मान्महानदि ॥भाव्यर्थे तोयनिधिना तस्माच्छीघ्रं व्रजाधुना ॥२३॥महाकालवने रम्ये सिद्धगंधर्वसेविते ॥शिप्राया दक्षिणे भागे विद्यते लिंगमुत्तमम्॥ २४॥सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम् ॥तमाराधय यत्नेन स ते दास्यति वांछितम्॥२५॥पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी ॥गमनं तत्र मेऽभीष्ट विद्यते यत्सखी मम ॥शिप्रापि मे प्रिया पुण्या महापातकनाशिनी ॥२६॥इति संचिंत्य मनसा दिव्या देवनदी तदा ॥आजगाम महाकाले ह्यपश्यल्लिंगमुत्तमम् ॥२७॥पूजयामास पयसा दिव्येन विधिना तदा ॥दृष्ट्वा शिप्रां सखीं तत्र संश्लेषं चाभवत्तयोः ॥२८॥ततः प्रभृति संजाता सा शिप्रा पूर्ववाहिनी ॥त्रिषु लोकेषु विख्यातो देवो गंगेश्वरः स्वयम् ॥गंगयाराधितो यस्मात्समीहितफलप्रदः ॥२९॥संस्तुता देवगंधर्वैर्गंगा देवनदी तदा ॥ऋषिभिर्वालखिल्याद्यैस्तथान्यैर्मुनिभिर्मुदा ॥३०॥समुद्रस्तत्र संप्राप्तो मानिता सा महानदी ॥लिंगेनोक्ता तदा गंगा कलया स्थीयतामिति ॥३१॥तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी ॥अंगीकृतं समुद्रेण यथोक्तं च तथा स्त्विति ॥३२॥एवमुक्त्वा गता गंगा कलया तत्र संस्थिता ॥गंगेश्वरं तु यः पश्येत्स्नात्वा शिप्रांभसि प्रिये ॥३३॥गोसहस्रफलं तस्य जायते नात्र संशयः ॥सर्वतीर्थफलं तस्य सर्वधर्मफलं तथा॥३४॥सर्वयज्ञफलं सम्यक्सर्वदानफलं तथा ॥सर्वयोगफलं देवि प्राप्नोत्येव निरन्तरम्॥३५॥तत्र तीर्थानि सुभगे पृथिव्यां यानि कानिचित्॥धर्मारण्यं फल्गुतीर्थं पुष्करं नैमिषं गया ॥३६॥प्रयागं च कुरुक्षेत्रं केदारममरेश्वरम् ॥चंद्रभागा विपाशा च सरयूर्देविका कुहू ॥३७॥गोदावरी शतद्रुश्च बाहुदा वेत्रवत्यपि ॥सर्वा एवात्र सरितः संगताः संति गंगया ॥३८॥गुप्तानि पुण्यतीर्थानि सिद्धक्षेत्राणि चैव हि ॥तत्र सर्वाणि तिष्ठंति कलामात्रेण पार्वति ॥३९॥एतेषां फलमाप्नोति यः पश्यति समाहितः ॥स्नात्वा गंगेश्वरं देवं सत्यमेतन्मयोदितम् ॥अतः पुण्यतमं स्थानं गीयते गणवंदिते ॥४०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥गंगेश्वरस्य देवस्य शृण्वंगारेश्वरं परम् ॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गंगेश्वर माहात्म्यवर्णनंनाम द्वाचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP