अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीहर उवाच ॥
मेघनादेश्वरं देवि त्रयोविंशतिमं शृणु ॥
यस्य दर्शनमात्रेण प्राप्यते सर्वसिद्धयः ॥१॥
राजमूला महादेवि योगक्षेमाः सुवृष्टयः॥
प्रजाश्च व्याधयश्चैव मरणं च भयानि च ॥२॥
राजा कृतं तथा त्रेता द्वापरश्च तथा कलिः ॥
राजमूलानि सर्वाणि राजाधर्मस्य कारणम् ॥३॥
राजा बभूव लोकेऽस्मिन्मदांधोनाम पार्वति ॥
अहंकारावृतो दुष्टो देवब्राह्मणकंटकः ॥४॥
कलि द्वापरयोः संधौ तस्य दोषाच्च भामिनि ॥
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ॥५॥
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवत्प्रभुः ॥
नादृश्यन्तापि रात्र्यंते कुत एवाभ्रजातयः ॥६॥
नद्यः संक्षिप्ततोयौघाः क्वचिदंतर्हितास्तदा ॥
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमंगलाः ॥७॥
उच्छिन्नकृषि गोरक्षा निवृत्तविपणास्तथा ॥
अस्थिकंकालसंकीर्णा हाहाभूतनराकुलाः ॥८॥
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशिनः ॥
गोजाश्वमहिषैर्हीना भक्ष्यमाणाः परस्परम् ॥९॥
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥
ब्राह्मणा दुःखबहुला मृता नष्टाश्च पार्वति ॥१०॥
सूष्टिरुन्मूलिता सर्वा जंगमा स्थावराखिला ॥
एतस्मिन्नंतरे देवाः शक्राद्या भयविह्वलाः ॥११॥
शरण्यं शरणं जग्मुर्देवदेवं जनार्दनम् ॥
क्षीरोदस्योत्तरे कूले श्वेतद्वीपं मनोरमम् ॥१२॥
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥
सदानंदकरं शांतं सूर्यकोटिसमप्रभम् ॥१३॥
स्वेच्छाकल्पितवि न्यासप्रासादशयनासनम् ॥
वज्रेंद्रनीलवैडूर्यचंद्रकांतादिदीपितम् ॥१४॥
जरामृत्युभयोपेतसर्वव्याधिविवर्जितम् ॥
तस्मिन्द्वीपे ततो देवि सूर्य कोटिसमप्रभम् ॥
साष्टांगां प्रणतिं कृत्वा ते देवाः स्तुतिमब्रुवन् ॥१५॥
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः ॥
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः ॥१६॥
एवं च सत्यं परमं तपश्च परमं तथा ॥
पवित्रं परममार्गं यज्ञस्त्वं परमः प्रभो ॥१७ [॥
परं हौत्रं परं धाम त्वामाहुः पुरुषं परम् ॥
एवं स्तुतस्तदा तैस्तु देवदेवो वरानने ॥१८॥
प्राह देवांस्ततः कृष्णः किं करोम्यद्य वः सुराः ॥
विज्ञप्तस्तैर्हरिर्देवो ह्यनावृष्ट्या प्रपीडितैः ॥१९॥
उपायः कथ्यतां देव तुष्टिः धुष्टिर्यथा भवेत् ॥
ध्यानेन चिंतयित्वा च कथयामास केशवः ॥२०॥
गच्छध्वं त्रिदशाः सर्वे महाकालवने शुभे ॥
लिंगं वृष्टिकरं तत्र पुरा मेघैः प्रतिष्ठितम् ॥२१॥
मेघा वृष्टिकराः सर्वे तस्मिँल्लिंगे च संति वै ॥
तस्य लिंगस्य माहात्म्याद्वृष्टिरेव भविष्यति ॥२२॥
प्रतीहारेश्वराद्देवादीशाने विद्यते सुराः ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति ॥२३॥
महाकालवने प्राप्ता यत्रास्ते लिंगमुत्तमम् ॥
तुष्टुवुः परया भक्त्या दृष्ट्वा देवं मनोरमम् ॥२४॥
नमस्तेऽस्तु महेशाय नमोऽनंताय मालिने ॥
नमस्तैजसमूर्त्ताय नमः सौंदर्यशालिने ॥२५॥
नमो योगाय वेदाय नमः पिंगजटाय ते ॥
अनंतज्ञानदेहाय नम ईश्वरमूर्त्तये ॥२६॥
नमः शुभ्राट्टहासाय नमस्तेऽस्तु शिखंडिने ॥
शंकराय नमस्तेऽस्तु नमस्तेस्तु पिनाकिने ॥२७॥
नमोंऽतकाय भव्याय त्र्यंबकायास्तु ते नमः ॥
नमस्ते बहुरूपाय नमस्तेऽचिंत्यमूर्त्तये ॥२८॥
नमो योगशरीराय नमस्ते सर्व सर्वदा ॥
नष्टं देव जगत्सर्वमनावृष्ट्या प्रपीडितम् ॥२९॥
सुवृष्ट्या देवदेवेश पाहि नः शरणागतान् ॥
एतस्मिन्नंतरे मेघा पार्वणांगारवर्चसः ॥३०॥
लिंगमध्यात्समुत्तस्थुर्वादयंतो नभस्तलम् ॥
अन्योन्यवेगाभिहता ववृषुर्भूतले तदा ॥३१॥
जातं विनिष्प्रभं सर्वं न प्राज्ञायत किंचन ॥
तिमिरौघपरिक्षिप्ता रेजुश्चाथ दिशो दश ॥३२॥
ते तस्य देवदेवस्य माहात्म्येन प्रतोषिताः ॥
देवाः प्रीतिं परां जग्मुः सर्वेऽमृतमिवोत्तमाः ॥३३॥
ततस्तमः संहरतो विनेशुश्च बलाहका ॥
प्रववुः शीतला वाताः प्रशांताश्च दिशो दश ॥३४॥
शुद्धप्रभाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणाम् ॥
अविग्रहं ग्रहाश्चक्रुः प्रशांताश्चापि सिन्धवः ॥३५॥
महर्षयो विशोकाश्च गंधर्वाश्च कलं जगुः ॥
अभूत्सृष्टिः पुनः सर्वा लिंगस्यास्य प्रभावतः ॥३६॥
सुरैः संपूज्य भक्त्या ते चक्रुर्नाम यथार्थतः ॥
अस्य लिंगस्य माहात्म्यं दृष्ट्वा प्रीताः सुरा बहु ॥३७॥
मेघनादेश्वरं नाम भविष्यत्यस्य सर्वतः ॥
मेघनादेश्वराख्यानं मया ते कथितं प्रिये ॥३८॥
भविष्यंति नरा भूमौ कृतार्थास्तत्प्रभावतः ॥
दर्शनादस्य लिंगस्य कामवृष्टिर्भविष्यति ॥३९॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
कुर्वंल्लिंगस्य स्नपनं रुद्रलोके महीयते ॥४०॥
प्रभावः पठ्यते यत्र मेघनादस्य पार्वति ॥
अतिवृष्टिश्चैव ततो भविष्यति च भूतले ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मेघनादेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशो ऽध्यायः ॥२३॥अ ॥

N/A

References : N/A
Last Updated : December 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP