अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय २५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीहर उवाच ॥
पंचविंशतिकं देवं विद्धि मुक्तीश्वरं प्रिये ॥
यस्य दर्शनमात्रेण मुक्तिर्भवति पार्वति ॥१॥
पुरा राथंतरे कल्पे बभूव द्विजसत्तमः ॥
मुक्तिर्नाम महाभागे संशितात्मा जितेंद्रियः ॥२॥
महाकालसमीपे तु मुक्तिलिंगमनुत्तमम् ॥
महाकालवने रम्ये तत्रास्ते योगत त्परः ॥३॥
ततस्तेपे जिताहारो वत्सराणि त्रयोदश ॥
कदाचित्सोऽभिषेकाय आजगाम महानदीम्॥ ४॥
शिप्रां विप्रप्रियां पुण्यां महापातकना शिनीम् ॥
तत्र स्नात्वा जपन्विप्रो ददर्शायांतमग्रतः ॥५॥
व्याधं महाधनुष्पाणिं रक्तनेत्रं सुभीषणम्॥
वदंतं हन्तुकामं वै वल्कलानां जिघृक्षया ॥६॥
तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति ॥
ध्यायन्नारायणं देवं तस्थौ तत्रैव स द्विजः ॥७॥
तं दृष्ट्वांतर्गतहरिर्व्याधो भीत इवाग्रतः ॥
विहाय सशरं चापं ततो वचनमब्रवीत् ॥८॥
॥ व्याध उवाच ॥
हंतुमिच्छुरहं ब्रह्मन्भगवन्तमिहागतः ॥
इदानीं स्वगता बुद्धिस्त्वां दृष्ट्वैव महाप्रभम् ॥९॥
ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा ॥
निहतानि मया ब्रह्मन्वृत्तिहेतोः कुटुंबिना ॥१०॥
न च मे व्यथितं चित्तं कदाचिदपि जायते ॥
इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः ॥११॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥
एवमुक्तो ह्यसौ विप्रो नोत्तरं प्रत्यप द्यत ॥१२॥
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ॥
अनुक्तोऽपि स धर्मस्तु व्याधस्तत्रैव तस्थिवान्॥ १३॥
स्नात्वा सद्यः समायातो मुक्ति लिंगसमीपतः ॥
द्विजेन सहितो देवि दृष्ट्वा देवं सनातनम् ॥१४॥
तत्क्षणाद्दिव्यदेहस्तु तस्मिँल्लिंगे लयं गतः ॥
दृष्ट्वा तन्महदाश्चर्यं मुक्तिर्विप्रो निजांतरे ॥
चिंतयामास सहसा मुक्तिः प्राप्ता वरानने ॥१५॥
व्याधेन पापयुक्तेन समाधिरहितेन च ॥
मया पुनः समाचीर्णं तपः परम दुष्करम् ॥१६॥
न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते ॥
एवं सचिंतयित्वाथ वैराग्याद्ब्राह्मणर्षभः ॥
अन्तर्जलगतो भूत्वा चचार विपुलं तपः ॥१७॥
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल ॥
व्याघ्रो बुभुक्षितः साध्वि तं विहंतुं समुद्यतः ॥१८॥
अंतर्जलचरं विप्रं यावद्व्याघ्रो जिघृक्षति ॥
नमो नारायणायेति तावद्वाक्यं द्विजोऽब्रवीत् ॥१९॥
व्याघ्रेणापि श्रुतो मंत्रोऽजहात्प्राणांश्च तत्क्षणात् ॥
दिव्यांबरधरो देवि दिव्याभरणभूषितः ॥
दिव्यालंकारशोभाढ्यः पुरुषश्चाभवच्छुभः ॥२०॥
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः ॥
त्वत्प्रसादाद्द्विजश्रेष्ठ मुक्त्वा शापान्निरामयः ॥२१॥
इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ ॥
सोऽब्रवीदस्मि राजेंद्र प्रतापी पूर्वजन्मनि ॥२२॥
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ॥
अहं जानामि वेदांश्च शास्त्राणि विविधानि च ॥२३॥
शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले ॥
ब्राह्मणैर्नैव मे कार्यं किं वस्तु ब्राह्मणा इति ॥२४॥
तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः ॥
ददुः शापं दुराधर्षं क्रूरो व्याघ्रो भविष्यति ॥२५॥
अपमानेन विप्राणां मांसाहारी भयावहः ॥
संजातोऽस्मि द्विजश्रेष्ठ पश्य कालविपर्यये ॥२६॥
इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः ॥
दुर्धर्षोऽयं मया प्राप्तो ब्रह्मशापो द्विजर्षभ ॥२७॥
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने ॥
प्रसादिता भृशं विप्र तदा गद्गद या गिरा ॥२८॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ॥
अपेयः सागरः क्रोधात्कृतो यैर्लवणोदकः ॥२९॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्॥
येषां क्रोधाग्निरद्यापि कण्डके नोपशाम्यति ॥३०॥
ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान् ॥
अगस्तिमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥३१॥
सर्वभक्षः कृतो वह्निर्भृगुणा कारणांतरे ॥
गौतमेन पुरा शक्रः स सहस्रभगः कृतः ॥३२॥
दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात् ॥
प्रसन्नैर्वालखिल्यैश्च पक्षींद्रो गरुडः कृतः ॥३३॥
अश्विनौ देवभिषजौ च्यवनेन महात्मना ॥
विष्टंभयित्वा कुलिशं कृतौ तौ सोमपायिनौ ॥३४॥
कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम् ॥
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥३५॥
पुरा सेंद्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः ॥
ब्राह्मणप्रभवं सौख्यं कीर्तिरायुर्यशो वलम् ॥३६॥
लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥३७॥
भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः ॥
प्रभावा बहवश्चापि श्रूयते ब्रह्मवदिनाम् ॥३८॥
क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः ॥
अहं कोपाद्द्विजेंद्राणां गतो निरययातनाम् ॥३९॥
नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् ॥
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥४०॥
मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः ॥
क्षंतुमर्हथ विप्रेंद्रा भवतः शरणागतम् ॥४१॥
अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा॥
षष्ठान्नकालिकस्तेऽग्रे यदा स्थास्यति कश्चन ॥४२॥
मांसभोक्ता च भविता कञ्चित्कालं नराधिप ॥
यदा शिप्रांतरे पुण्ये स्नातस्तु द्विजसत्तमः ॥४३॥
अंतर्जलगतेनोक्तो नमो नारायणेति च ॥
जिघृक्षुर्व्याघ्ररूपेण तदा मुक्तो भविष्यसि ॥४४॥
एवं स भवता प्रोक्तो नमो नारायणेति च ॥
मंत्रः श्रुतो मया त्वत्तस्तस्येयं व्युष्टिरागता ॥४५॥
जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत ॥
स कृतार्थोऽस्मि संजातो भगवन्दर्शना त्तव ॥४६॥
वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि ॥
तं च ब्रूहि द्विजश्रेष्ठ सर्वं संपादयामि ते ॥४७॥
तवोपदेशदानेन आनृण्यं गंतु मुत्सहे ॥४८॥
इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः ॥
प्रोवाच परया तुष्ट्या प्रफुल्लमुखपंकजः ॥४९॥
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ॥
अद्य मे सफला जिह्वा सफलं चक्षुरद्य मे ॥५०॥
श्रुतं देवेन संप्रोक्तं स्नात्वा पश्यंति देहिनः ॥
प्राक्छरीरगतं तेऽद्य व्याघ्ररूपं तपोत्तम ॥५१॥
तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम् ॥
यदि त्वहमनुग्राह्यो यद्येवं कर्तुमर्हसि ॥५२॥
कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम् ॥
कथं मुक्तिर्महाभाग मुक्तिकामेन यत्नतः ॥५३॥
योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश ॥
न लब्धा परमाश्चर्यं तपसा दुष्करेण तु ॥५४॥।
व्याधेनापि भृशं तेन प्राप्ता मुक्तिः क्षणेन तु ॥
अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम् ॥५५॥
तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत् ॥
कथयामि परं गुह्यं रहस्यं मुक्तिलक्षणम् ॥५६॥
महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा ॥
पुरातनैस्तु विद्वद्भिरिदमुक्तं महात्मभिः ॥५७॥
शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः ॥
मन्नियोगाद्द्विजश्रेष्ठ ततो मुक्तिमवाप्स्यसि ॥५८॥
शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम् ॥
ममानुकंपया प्रोक्तं मुक्तिस्ते भविता नृप ॥५९॥
मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः ॥
विद्यते तपसा युक्तः स ते प्रश्नं करिष्यति ॥६०॥
मुक्तीश्वरं तदा लिंगं तस्याग्रे कथयिष्यसि ॥
तवापि तस्य मुक्तेश्च मुक्तिरेवं भविष्यति ॥६१॥
पूर्वं हि चिह्नितं कर्म देहिनो न विमुंचति ॥
धात्रा विधिरयं दृष्टो बहुधा कर्मभिश्च यः ॥६२॥
इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः ॥
अंतर्जलात्समुत्थाय ततो वचनमब्र वीत् ॥६३॥
दिष्ट्या त्वमागतो भूप दिष्ट्या ते संगतं मया ॥
ईदृशा दुर्लभा लोके नरा मुक्तिप्रदर्शकाः ॥६४॥
इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिंगं समा गतौ ॥
दर्शनार्थं विशालाक्षि दृष्ट्वा देवं सनातनम् ॥६५॥
तत्क्षणात्सशरीरौ तौ तस्मिँल्लिंगे लयं गतौ ॥
ईदृशोऽयं मया देवि महिमा कथितस्तव ॥६६॥
अस्य लिंगस्य संस्पर्शान्मुक्तिर्भवति नान्यथा ॥
येऽर्चयंति सदा भक्त्या मुक्तिलिंगं सनातनम् ॥
अपि पापसमायुक्तः स याति परमां गतिम् ॥६७॥
रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम् ॥
कुरुध्वं मुक्तिलिंगस्य दर्शनं मुक्तिदायकम् ॥६८॥
न मां विदुर्देवगणा नासुरा न महर्षयः ॥
परं रूपं विशालाक्षि यदश्मद्युति निर्मलम् ॥६९॥
न मे वेत्ति परं रूपं स्वयं साक्षात्प्रजापतिः ॥
न विष्णुस्त्रिदशश्रेष्ठाः कुतोन्ये मुनयः प्रिये ॥७०॥
यदेतद्दृश्यते तेजो लिंगरूपं यशस्विनि ॥
एतदेव शुकाद्या हि ध्यायंति त्रिदशा अमी ॥७१॥
अनेकजन्मसंशुद्धा योगिनोऽनुग्रहान्मम ॥
प्रविशंतु तनुं देवि मदीयां मुक्तिदायिकाम् ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंन्यखण्डे चतुरशीतिलिंगमाहात्म्ये मुक्तीश्वरमाहात्म्यवर्णनंनाम पंचविंशतितमोऽध्यायः॥२५॥

N/A

References : N/A
Last Updated : December 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP