अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
ईशानेश्वरसंज्ञं तु षोडशं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्॥ १॥
तुहुंडेन पुरा देवि सर्वे ह्युपद्रुताः सुराः ॥
ऋषयश्च महाभागा यक्षगन्धर्वकि न्नराः ॥२॥
नंदनाख्यं वनं सर्वं तदधीनमभूत्किल ॥
ऐरावणं द्विपेन्द्रं च जित्वा द्वारि समादधत् ॥३॥
उच्चैःश्रवससंज्ञं तु हृतवान्दानवेश्वरः ॥
देवांगनानां सर्वासां विध्वंसं कर्तुमुद्यतः ॥४॥
स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति ॥
हृताधिकारा देवाश्च मंत्रं समुपचक्रमुः ॥५॥
तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः ॥
आजगाम महातेजा भ्रममाणश्च मंत्रिभिः ॥६॥
देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि ॥
निवेदितं यथावृत्तं तुहुण्डस्य विचेष्टितम् ॥७॥
पप्रच्छुरथ ते मंत्रं नारदं मुनिसत्तमम् ॥
कथयस्व महाबुद्धे सर्वं जानासि सर्व्वतः ॥८॥
ईदृक्काले समायाते किं कर्त्तव्यं महामुने ॥
नाज्ञातं त्रिषु लोकेषु किंचिद्देवर्षिसत्तम ॥९॥
मुहूर्तं ध्यानमालंब्य किंचिन्मील्य च लोचने ॥
उपायं कथयामास सर्वदुःखविनाशनम् ॥१०॥
महाकालवने रम्ये शीघ्रं गच्छंतु विह्वलाः ॥
इन्द्रद्युम्नेश्वरस्यैव पश्चाद्भागे व्यवस्थिताः ॥
सेवध्वं परमं लिंगमीशानेश्वरसंज्ञकम् ॥११॥
पुरा चेशानकल्पे तु ईशानेन सुखेन हि ॥
मुनिना श्रोत्रियेणैव वेदाभ्यासरतेन वै ॥
उत्तमांगपदं लब्धं शंकरस्य च मूर्द्धनि ॥१२॥
तस्याराधनमात्रेण मनोऽभीष्टं हि लभ्यते ॥१३॥
नारदस्य वचः श्रुत्वा देवा मुदितमानसाः ॥
जग्मुर्यत्र महल्लिंगं स्तुतिं सर्वेऽप्यकुर्वत ॥१४॥
ईशानेशान ईशान तत्पुरुष नमोऽस्तु ते ॥
नमो वाम महाघोर सद्योमुख नमोनमः ॥१५॥
त्र्यक्ष भर्ग महादेव उमाकांत नमोनमः ॥
नमः शिव नमो भीम नमः सर्व नमोनमः ॥१६॥
नमः शंभो नमो रुद्र विरूपाक्ष नमोनमः ॥
त्वया देव प्रजाः सर्वाः सदेवासुरमानुषाः ॥१७॥
स्थावराणि च भूतानि जंगमानि चराणि च ॥
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महेश्वर ॥१८॥
शिरस्ते गगनं देवा नेत्रे शशिदिवाकरौ ॥
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युतः ॥१९॥
बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः ॥
उरू ते पर्वता देव चरणौ पृथिवी मता ॥२०॥
इंद्रसोमाग्निवरुणा देवासुरमहोरगाः ॥
प्रह्वास्त्वामनुतिष्ठंति स्तुवंतो विविधैः स्तवैः ॥२१॥
त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर ॥
त्वयि तुष्टे जगत्तुष्टं त्वयि क्रुद्धे महद्भयम् ॥२२॥
भयानामपनेतासि त्वमेकः शत्रुसूदनः ॥
असुराणां समर्थानां विनाशश्च त्वया कृतः ॥२३॥
न च विक्रमणैर्देव निर्वाणमगमत्परम् ॥
त्वं हि कर्त्ता विकर्त्ता च भूतानामिह सर्वशः ॥२४॥
आराधयित्वा सर्वे ते नमस्यंति च सर्वशः ॥
एतस्मिन्नंतरे देवि लिंगमध्यात्समुत्थिता ॥२५॥
धूमावृता महा ज्वाला यया दग्धः स दानवः ॥
तुहुण्डो मुंडपुत्रस्तु ससैन्यपरिवारितः ॥२६॥
स्वाधिकारांश्च संप्रापुर्लिंगस्यास्य प्रभावतः ॥
सुरैश्चाख्या समादिष्टा लिंगस्यास्यैव हर्षितः ॥२७॥
ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम् ॥
ईशान इति विख्यातस्त्रैलोक्ये च भविष्यति ॥२८॥
ईशानेश्वरसंज्ञं तु ये समाराधयंति च ॥
कीर्तिर्लक्ष्मीर्ध्रुवा तेषां सिद्धिः प्रीतिर्भविष्यति ॥२९॥
पूज्यमानः सदा देवैर्गंधर्वाप्सरसांगणैः ॥
स्वर्गलोकं गमिष्यंति विमानैरुज्ज्वलैर्मुदा ॥३०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रियः कुमारिकाः ॥
यथाभिलषितान्कामानाप्नुवंति न संशयः ॥३१॥
यः करोति नरः सम्यग्दर्शनं नियमस्थितः ॥
न कुत्र तस्य हानिः स्याद्यावजन्मशतं भवेत् ॥३२॥
सर्वदा सर्वकार्येषु ते समर्था यशस्विनि ॥
ईशानेश्वरसंज्ञं तु ये पश्यंति दिनेदिने ॥३३॥
एवं ते कथितो देवि प्रभावः पापनाशनः ॥
ईशानेश्वरदेवस्य श्रूयतामप्सरेश्वरः ॥३४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ईशानेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : December 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP