संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ४४ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४४ Translation - भाषांतर ॥ ईश्वर उवाच ॥चत्वारिंशत्तमं विद्धि चतुर्भिरधिकं परम्॥यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥उत्तरेशमिति ख्यातं समीहि तफलप्रदम्॥१॥पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः ॥तैः प्लावितं जगत्सर्वं सपर्वतमहीतलम्॥२॥एकार्णवे ततो जाते देवा भीता वरानने ॥निःस्वाध्यायवषट्काराः स्वधास्वाहाविवर्जिताः ॥३॥नैवाप्यायनमस्माकं विना होमेन जायते॥वयमाप्यायिता विप्रैर्यज्ञभागैर्यथोचितैः ॥४॥तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः ॥नास्ति तत्सर्वमेवैतदन्योन्यमवदन्सुराः ॥५॥दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः ॥कथयामासुरत्युग्रं नमस्कृत्य पितामहम् ॥६॥एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो ॥निःस्वाध्यायवषट्कारं जगज्जातं पितामह ॥७॥देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥मुहूर्त्त चिंतयामास किमेतदिति विस्मितः ॥८॥अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले ॥गता सृष्टिर्मदीया तु व्यर्थं जातं वचो मम ॥९॥इति संचिंत्य हृदये सस्मार बलसूदनम् ॥स्मृतमात्रस्तु बलहा ह्याजगाम पितामहम् ॥१०॥प्रोवाच वचनं श्रुत्वा नम स्कृत्य पितामहम् ॥स्मृतोऽहं केन कार्येण देह्याज्ञां मे पितामह ॥११॥ब्रह्मणोक्तस्तदा शक्रः किमर्थं प्लाविता मही ॥असंबद्धैस्त्वदीयैश्च मेघैः किं सहसा कृतम् ॥१२॥ततः सर्वे समाहूता मेघाः शक्रेण पार्वति ॥पितामहसमक्षं तु समायाताश्च तत्क्षणात् ॥१३॥पितामहेन शक्रेण मर्यादा च कृता तदा ॥गजोनाम महामेघः पूर्वस्यां दिशि निर्मितः ॥१४॥गजाकारैस्ततो मेघैः सहस्रैर्दशभिर्वृतः ॥गवयो दक्षिणामाशां षट् सहस्राधिपः कृतः ॥१५॥शरभः पश्चिमामाशां सहस्राधिपतिः कृतः ॥उत्तरोनाम यो मेघो मेघैः कोटिभिरावृतः ॥१६॥उत्तरस्यां दिशि तदा प्रभुत्वे संप्रतिष्ठितः ॥मर्यादा च कृता देवि ब्रह्मणा वासवेन तु ॥१७॥प्रावृट्काले च वर्षध्वं नक्षत्रैर्जलजैद्रुतम् ॥आर्द्रादिस्वातिपर्यंतं नक्षत्रद शकं स्मृतम्॥ १८॥ब्रह्मशक्रवचः श्रुत्वा तथेति कृतनिश्चयाः ॥ववृषुर्नियते काले तन्नामानि भवंति हि ॥१९॥एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः ॥ब्राह्मणा विज्वरा जातास्त्रिदशा मुदिता भृशम्॥ २०॥क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः ॥शनैश्चरेण भौमेन भास्करेणाथ केतुना ॥२१॥पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः ॥निवेदितं भयात्सर्वं नमस्कृत्य पुनःपुनः ॥२२॥मेघानां वचनं श्रुत्वा संत्र स्तो वासवस्तदा ॥उवाच वचनं तेषां नाहं शक्तो निवारणे ॥ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः ॥२३॥अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा ॥स्थापितोऽहं कदाचिच्च सुप्रसन्नैर्ग्रहैः पदे ॥२४॥मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः ॥ग्रहाः स्रर्वहराः प्रोक्ता इति मे वर्त्तते मतिः ॥२५॥एतस्मिन्नंतरे भूमौ संजाता शतवार्षिकी ॥अनावृष्टिर्महारौद्रा सर्वप्राणिविनाशिनी ॥२६॥अस्थिकंकालशकला श्वेतपर्वतसन्निभा ॥पृथिवी तत्क्षणाज्जाता विना तोयेन पार्वति ॥२७॥देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः ॥ऊचुश्च प्रणताः सर्वे त्राहि नः शरणागतान् ॥२८॥अनावृष्ट्या जगत्सर्वं पीडितं च पितामह ॥अकाले प्रलयो जातः पुनरेव च तादृशः ॥२९॥त्वया च वासवेनैव नियुक्ता ये पयोधराः ॥कूरग्रहैरतीवोग्रैः पीडितास्ते पितामह॥ ३०॥देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥अहं बिभेमि भो देवा ग्रहैस्तैर्बलवत्तरैः ॥३१॥सर्वं जानामि माहात्म्यं ग्रहाणां क्रूरचेतसाम् ॥शनैश्चरेण वक्रेण भवंतः पीडिताः सदा ॥३२॥वरुणो यादसां नाथो मंगलेन प्रपीडितः ॥राज्यभ्रष्टस्तु बहुधा केतुना वासवः कृतः ॥३३॥शिरश्छेदो मया प्राप्तो वक्रेण रविणा पुरा ॥एकैकशः समर्थास्ते किं पुनः संघशस्त्वमी ॥तस्मात्सर्वे महादेवं गच्छामः शरणं वयम्॥३४॥ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः।.ब्रह्माणं च पुरस्कृत्य मामव शरणं गताः॥३५॥उक्तोऽहं त्रिदशैः सर्वैः पाहि नः शरणागतान् ॥त्वं नो धाता विधाता च सृष्टिसंहारकारकः॥३६॥क्रूरग्रहैर्महादेव रुद्धा मेघाः समंततः॥न कुर्वंति प्रभो वृष्टिमनावृष्टिः सुदारुणा॥सर्वप्राणिविनाशाय संजाता शतवार्षिकी॥तेषां तद्वचनं श्रुत्वा मया ज्ञातं वरानने॥क्रूरग्रहाणां सामर्थ्यं यथा च विदितं मम॥३८॥इति ज्ञात्वा महादेवि उपायश्चिंतितो मया॥उत्तरो नाम यो मेघो मेघैः कोटिभिरावृतः॥आहूतस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ॥३९॥मया प्रोक्तो ममादेशाद्गच्छ त्वं घनसंयुतः ॥महाकालवनं रम्यं वांछितार्थफलप्रदम् ॥४०॥गंगेश्वरस्य देवस्य दक्षिणे लिंगमुत्तमम् ॥तमाराधय यत्नेन स ते दास्यति वांछितम् ॥४१॥एवमुक्तो मया मेघ उत्तरो मेघसंयुतः ॥जगाम त्वरया युक्तो महाकालवनोत्तमे ॥४२॥दृष्ट्वा वृष्टिकरं लिंगं पूजयामास भक्तितः ॥शिप्राजलं गृहीत्वा तु स्नात्वा स्नात्वा प्रयत्नतः ॥तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये ॥४३॥एतस्मिन्नंतरे तस्मादुद्भूतं धूममंडलम् ॥लिंगमध्याद्वरारोहे ज्वालामालाकुलं महत् ॥४४॥ततो ज्वालामयं सर्व मभूदम्बरगोचरम् ॥तस्य ज्वालासमूहेन दग्धं वै ग्रहमंडलम् ॥४५॥सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये ॥तमेव शरणं प्राप्ता धूमज्वालाकुलाननाः ॥४६॥ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम् ॥देवैर्वृतः सहस्राक्षो लिंगांतिकमुपागतः ॥४७॥तल्लिंगं सुमहाज्वालं ज्वालाभिः पूरितांबरम् ॥दुःप्रेक्ष्यं दुर्विदं भीमं वर्द्धमानं ददर्श सः ॥४८॥अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् ॥दृष्ट्वा तु वर्द्धमानस्य लिंगस्यात्य द्भुताकृतिम् ॥सुरेशो मोहमापन्नो विसंज्ञाश्च ग्रहास्तदा ॥४९॥ततस्तु तस्य लिंगस्य वारिधारा विनिःसृताः ॥एकोद्देशाद्वरारोहे धरा त्वेकार्ण वीकृता ॥५०॥लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥इतरस्मिन्प्रदेशे तु समूहस्तडितामभूत् ॥५१॥सधूमा समभूज्ज्वाला लिंगस्यान्य प्रदेशतः ॥५२॥एवमत्यद्भुतं दृष्ट्वा वर्द्धमानं समंततः ॥लिङ्गमव्यक्तमुद्भूतमापूरितनभोऽन्तरम् ॥५३॥ग्रहाश्च विह्वला जाता धूमेनाकुलिते न्द्रियाः ॥तुष्टुवुश्च तदा लिगं दह्यमानाः समंततः ॥५४॥॥ ग्रहा ऊचुः ॥नमः सुरूपाय सुरार्चिताय नमो विरूपप्रकृतिक्रियाय ॥नमोनमो रूपनिराश्रयाय जलस्वरूपाय नमो नमस्ते ॥५५॥इति स्तुतो यदा देवि ग्रहैः क्रूरैस्तदा प्रिये ॥लिंगात्प्रादुरभूत्खस्थः स्वरूपो विग्रहाकृतिः ॥५६॥भस्मधूसरसर्वांगो भोगिभोगांगदोज्ज्वलः ॥हिमराशिनिभाकारो रजताचलनिर्मलः ॥उवाच चैतान्प्रणतान्ग्रहान्कंपितक न्धरान ॥५७॥किं वा कामं मनोऽभीष्टं भवद्भ्यो यद्ददाम्यहम् ॥ममामोघमिदं सर्वं दर्शनं चातिदुर्लभम् ॥५८॥भवद्भ्यो लोकतुष्ट्यर्थं दर्शनं हि ददाम्यहम् ॥एवमुक्त्वा ग्रहाः सर्वे प्रोचुः प्रांजलयस्तदा ॥५९॥यदि देयो वरो देव यदि तुष्टोऽसि शंकर ॥कर्मारंभेषु सर्वेषु पूजाऽ स्माकं यथा भवेत् ॥तथा कुरु महादेव तेन तृप्तिर्भविष्यति ॥६०॥एवं भविष्यतीत्युक्त्वा मेघं चोत्तरमुक्तवान् ॥तुष्टोऽस्म्यहं तु ते वत्स गृहाण वरमीप्सितम् ॥६१॥तच्छ्रुत्वा वचनं तत्र ह्युत्तरः प्राह हर्षितः ॥यन्मे तुष्टोऽसि भगवंस्तन्मह्यं दीयतां वरम् ॥६२॥यदास्माकं महाबाधां कदा कोपि करिष्यति ॥तदा वृष्टिर्विधातब्या त्वया देव सदा भुवि ॥६३॥रक्षा कार्या च मेघानां रक्षणीयास्त्वया वयम्॥एवमस्त्विति तेनोक्तं लिंगेन नगगात्रजे ॥६४॥अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले.॥उत्तरेश्वरसंज्ञोऽहं प्रभविष्यामि न संशयः ॥६५॥ये मां संपूजयिष्यंति भक्त्या परमया युताः ॥तेषां दास्यामि सततं वांछितार्थफलं भुवि ॥६६॥पश्यंति प्रयता ये मां कृत्वा नियमपूर्वकम् ॥ते यास्यंति पुरं शैवं यावत्कल्पाष्टकायुतम् ॥६७॥आरूढाः सूर्यसंकाशैर्विमानैः सार्वकामिकैः ॥रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ॥६८॥नृत्य वादित्रनिर्घुष्टैरुत्कटध्वनिनादितैः ॥दोधूयमानैश्च नरैः स्तूयमानाः सुरासुरैः ॥६९॥प्रसंगाद्भक्तिहीनोऽपि यो मां पश्यत्यशाठ्यतः ॥ऐश्वर्यं तस्य दास्यामि ह्युत्तरेषु कुरुष्वथ ॥७०॥स्मरिष्यति च यो नित्यं प्रभाते चोत्तरेश्वरम् ॥स याति परमं स्थानं दाहप्रलयवर्जितम्॥ ७१॥एष ते कथितो देवि प्रभावः पापनाशनः ॥उत्तरेश्वरदेवस्य शृणु त्रिलोचनेश्वरम् ॥७२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP