संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय ४१ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४१ Translation - भाषांतर ॥ श्रीमहादेव उवाच ॥चत्वारिंशत्तमं सैकमीश्वरं विद्धि पार्वति ॥लुंपेश्वरमिति ख्यातं नाम यस्य महीतले ॥१॥देशे म्लेच्छगणाकीर्णे बभूव जगतीपतिः ॥लुंपाधिप इति ख्यातो महेंद्रसमविक्रमः ॥२॥तस्यासीद्दयिता भार्या विशालानाम नामतः ॥सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ॥३॥स युद्धकामो नृपतिः पर्यपृच्छद्विजोत्तमान् ॥४॥अथ केनापि कथितमाश्रमे सामगो द्विजः ॥।तेन सार्द्धं महाबाहो युध्यस्व त्वं नृपोत्तम ॥५॥ततः स प्रस्थितो राजा म्लेच्छैः सार्द्धं सहस्रशः ॥तुषारैर्बर्बरैर्लुंपैः पह्लवैः श्वगणैस्तथा ॥६॥दस्युभिः संवृतः क्रूरैः क्रोधेनाकुलितेंद्रियः ॥आजगामाश्रमं पुण्यं सामगस्य मुनेस्तदा ॥७॥मुनिना पूजितस्तेन मधुपर्कादिविष्टरैः ॥एतस्मिन्नन्तरे राजा होमधेनुं ददर्श ह ॥८॥प्रार्थयामास सहसा न दत्ता मुनिना तदा ॥प्रमथ्य चाश्रमं तस्य होमधेनुं जहार सः ॥वनं बभंज सकलं तस्य विप्रस्य पश्यतः ॥९॥काल्यमानां च गां दृष्ट्वा वत्सं चातीव दुःखितम् ॥उवाच वचनं विप्रो मा राजन्साहसं कुरु ॥१०॥एवं वदंतं विप्रेंद्रं शरैस्तीक्ष्णैर्जघान ह ॥लुंपः क्रोधसमाविष्टो दुष्टो दुष्टजनैर्वृतः ॥११॥असकृत्पुत्रपुत्रेति विलपंतमनाथवत् ॥हत्वा च सामगं विप्रं जगाम स्वगृहं नृपः ॥१२॥एतस्मिन्नंतरे पुत्रः समित्पाणिरुपागतः ॥दृष्ट्वा च पितरं विप्रं तदा मृत्युवशं गतम् ॥अनागसं महात्मानं विललाप सुदुःखितः ॥१३॥केनेदं कुत्सितं कर्म कृतं पापेन मे पिता ॥अयुध्यमानो वृद्धः सन्हतः शरशतैः शितेः ॥१४॥विलप्यैवं सकरुणं बहुना नाविधं तथा ॥प्रेतकार्याणि सर्वाणि पितुश्चक्रे विधानतः ॥१५॥ददाह पितरं चाग्नौ तोयमादाय सत्वरम् ॥तस्य लुंपाधिपस्यापि ददौ शापं सुदारुणम् ॥१६॥स्वधर्मनिरतो विद्वान्येन मे निहतः पिता ॥स पापात्मा दुराचारः कुष्ठरोगमवाप्नुयात् ॥१७॥एतस्मिन्नन्तरे राजा कुष्ठरोगेण पीडितः ॥अचंक्रमणतां प्राप्तो लुंपाधीशो वरानने ॥१८॥औषधैरधिकोऽभ्येति ब्रह्मशापप्रभावतः ॥वैराग्यान्मर्तुकामोऽसौ काष्ठान्यादाय दुःखितः ॥१९॥चितां कर्तुं समारेभे समायातोऽथ नारदः ॥पूजितो विधिना तेन दुःखितेन नृपेण हि ॥२०॥अथ पप्रच्छ लुंपोऽसौ नारदं मुनिसत्तमम् ॥अकस्मान्मम देवर्षे कुष्ठरोगो बभूव ह ॥तेनाहं पीडितोऽतीव न च शांतिं व्रजत्यसौ ॥२१॥औषधैर्वर्द्धते कस्मादेतदाख्यातुमर्हसि ॥न तेस्त्वविदितं किंचिदिहलोके परत्र च ॥२२॥तस्य तद्वचनं श्रुत्वा लुंपाधीशस्य नारदः ॥कथयामास तत्सर्वं ब्रह्मशापं सुदुस्तरम्॥ २३॥ततः सभार्यो नृपतिः प्रार्थयामास नारदम् ॥कथं मे भगवञ्छापो दुस्तरो यास्यति क्षयम् ॥२४॥एवमुक्तस्तु लुम्पेन नारदो भगवानृषिः ॥कारुण्यात्कथयामास सभार्यस्य यशस्विनि ॥२५॥महाकालवने राजँल्लिंगं कुष्ठहरं परम् ॥सर्वसंपत्करं तत्र विद्यते पापनाशनम् ॥२६॥शिप्रायाश्च तटे रम्ये केशवार्कस्य पूर्वतः ॥तत्र त्वं गच्छ राजेंद्र कांत्या युक्तो भविष्यसि ॥२७॥एवमुक्तस्तु लुंपोऽसौ ह्याजगाम त्वरान्वितः ॥महाकालवनं रम्यं महर्षिगणसेवितम् ॥२८॥प्राप्तः स्वर्गोपमं भूपः शिप्रया परिशोभितम् ॥विवेश च मुदा युक्तो दृष्ट्वा लिंगमनुत्तमम् ॥२९॥स्नात्वा शिप्राजले पुण्ये महापातकनाशने ॥दर्शनात्तस्य लिंगस्य दिव्यरूपो वभूव ह ॥३०॥कुष्ठरोगेण मुक्तस्तु मुक्तो वै ब्रह्महत्यया ॥कृतकृत्यो नृपो जातो दर्शनादेव पार्वति ॥३१॥स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ॥तापसानां परं चक्रे सत्कारं भार्यया सह ॥३२॥ततः कृतस्वस्त्वयनस्तापसैस्तैर्महात्मभिः ॥दिव्यज्ञानान्वितैर्दिव्यैः सूर्यवैश्वानरप्रभैः ॥३३॥कृतं नाम तदा तस्य लिंगस्य कमलानने ॥लुंपेनाराधितो यस्माद्देवोऽयं कुष्ठनाशनः ॥लुम्पेश्वर इति ख्यातो भविष्यति महीतले ॥३४॥पूजयिष्यंति ये भक्त्या लिंगं लुम्पेश्वरं परम् ॥स्नात्वा शिप्राजले पुण्ये ते यास्यंति परं पदम् ॥३५॥प्रार्थयिष्यंति यान्कामान्मनसा। चेप्सितान्प्रियान् ॥तानाप्स्यंति न सन्देहो लुम्पेशस्य च दर्शनात् ॥३६॥महापापसमायुक्तो यः पश्यति समाहितः ॥लिंगं लुम्पेश्वरं सोऽपि देवतुल्यो भविष्यति ॥३७॥गोघ्नश्चैव कृतघ्नश्च मातृहा गुरुतल्पगः ॥दुष्टकर्मसमाचारो भ्रातृहा पितृहा तथा ॥३८॥॥लुम्पेश्वरं सकृत्पश्यन्मुच्यते सर्वकिल्बिषैः ॥पूजितोऽपि दहेत्पापं सप्तजन्मार्जितं च यत् ॥३९॥इत्युक्त्वा मुनयः सर्वे पूजयामासु रन्विताः ॥ कुष्ठरोगविनिर्मुक्तो राजा स्वविषयं गतः ॥४०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥लुम्पेश्वरस्य देवस्य शृणु गंगेश्वरं परम् ॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लुंपेश्वरमाहात्म्यव र्णनंनामैकोनचत्वारिंशोऽध्यायः ॥४१॥ N/A References : N/A Last Updated : December 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP