संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६०

आचारकाण्डः - अध्यायः १६०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुवाच ।
निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत ! ।
भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥१ ।
धन्वन्तरिरुवाच ।
निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत ! ।
भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥१॥

जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः ।
दुष्टसत्वङ्मांसमेदोऽस्थिमदामृष्टोदराश्रयः ॥२॥

यः शोथो बहिरन्तश्च महाशूलो महारुजः ।
वृत्तः स्यादायतो यो वा स्मृतो रोगः स विद्रधिः ॥३॥

दोषैः पृथक्समुदितैः शोणितेन स्त्रतेन च ।
वहते तत्र तत्राङ्गे दारुणे ग्रथितोऽस्त्रुतः ॥४॥

अन्तरा दारुणश्चैव गम्भीरो गुल्मवर्धनः ।
वल्मीकवत्समुत्स्त्रावी ह्यग्निमान्द्यञ्च जायते ॥५॥

नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणि ।
हृदये वेपमाने तु तत्रतत्रातितीव्ररुक् ॥६॥

श्यामारुणशिरोत्थानपाको विषमसंस्थितिः ।
संज्ञाच्छेदभ्रमानाहस्यन्दसर्पणशब्दवान् ॥७॥

रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान् ।
क्षिप्तोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् ॥८॥

संक्लेशशीतकस्तम्भजृम्भारोचकगौरवाः ।
चिरोत्थानोऽविपाकश्च संकीर्णः सन्निपातजः ॥९॥

सामर्थ्याच्चात्र विड्भेदो बाह्याभ्यन्तरलक्षणम् ।
कृष्णस्फोटावृतश्यामस्तीव्रदाहरुजाज्वरः ॥१०॥

पित्तलिङ्गोऽसृजा बाह्ये स्त्रीणामेव तथान्तरम् ।
शस्त्राद्यैरभिघातोत्थरक्तैश्च रोगकारणम् ॥११॥

क्षतोत्थो वायुना क्षिप्तः स रक्तः पित्तमीरयन् ।
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम् ॥१२॥

तेनोपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः ।
नाभौ हि ध्मातं चेद्बस्तौ मूत्रकृच्छ्रञ्चजायते ॥१३॥

श्वासप्रश्वासरोधश्च प्लीहायामतितृट्परम् ।
गलरोधश्च क्लोम्नि स्यात्सर्वाङ्गप्ररुजा हृदि ॥१४॥

प्रमोहस्तमकः कासौ हृदयोद्धट्टनन्तथा ।
कुक्षिपार्श्वान्तरे चैव कुक्षौ दोषोपजन्म च ॥१५॥

तथा चेदूरुसन्धौ च वङ्क्षणे कटिपृष्ठयोः ।
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् ॥१६॥

आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ।
नाभेरूर्ध्वमुखात्पक्वात्प्रद्रवन्त्यपरे गुदात् ॥१७॥

गुदास्तनाभिजे विद्याद्दोषक्लेदोच्चविद्रधौ ।
कुरुते स्वाधिष्ठानस्य विवर्तं सन्निपातजः ॥१८॥

पक्वो हि नाभिवस्तिस्थो भिन्नोऽन्तर्बहिरेव वा ।
पाकश्चान्तः प्रवृद्धस्य क्षीणस्योपद्रवार्दितः ॥१९॥

विद्रधिश्च भवेत्तत्र पापानां पापयोषिताम् ।
मृते तु गर्भगे चैव सम्भवेच्छ्वयथर्घनः ॥२०॥

स्तने समत्थे दुःखं वा बाह्यविद्रधिलक्षणम् ।
नारीणां सूक्ष्मरक्तत्वात्कन्यायान्तु न जायते ॥२१॥

क्रुद्धो रुद्धगतिर्वायुः शेफमूलकरो?हि सः ।
मुष्कवङ्क्षणतः प्राप्य फलकोषातिवाहिनीम् ॥२२॥

आपीड्य धमनीवृद्धिं करोति फलकोषयोः ।
दोषो मेदःसु तत्रास्ते सवृद्धिः सप्तधा गदः ॥२३॥

मूत्रन्तयोरप्यनिलाद्बाह्ये वाभ्यन्तरे तथा ।
वातपूर्णः खरस्पर्शो रूक्षो वाताच्च दाहकृत् ॥२४॥

पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ।
कफात्तीव्रो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥२५॥

कृष्णः स्फोटावृतः पिण्डों वृद्धिलिङ्गश्च रक्ततः ।
कफवन्मेदसां वृद्धिर्मृदुतालफलोपमः ॥२६॥

मूत्रधारणशीलस्य मूत्रजस्तत्र गच्छतः ।
अलोभः पूर्णधृतिमान्क्षोभं याति सरन्मृदु ॥२७॥

मूत्रकृच्छ्रमधस्ताच्च वलयः फलकोषयोः ।
वातकोपिभिसहारैः शीततोयावगाहनैः ॥२८॥

विण्मूत्रधारणाच्चैव विषमाङ्गविचेष्टनैः ।
क्षोभितैः क्षोभितौजाश्च क्षीणान्तर्देहिनो यदा ॥२९॥

पवनो विगुणीभूय शोणितं तदधोनयेत् ।
कुर्यात्तत्क्षणसन्धिस्थो ग्रन्थ्याभः श्वयथुस्तदा ॥३०॥

उपेक्ष्यमाणस्य च गुल्मवृद्धिमाध्मानरुग्वै विविधाश्च रोगाः ।
सुपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मूर्ध्नि ॥३१॥

रक्तवृद्धिरसाध्येऽयं वातवृद्धिसमाकृतिः ।
रूक्षकृष्णारुणशिरा ऊर्णावृतगवाक्षवत् ॥३२॥

वातोऽष्टधा पृथदौषैः संस्पृष्टैर्निचयं गतः ।
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः ॥३३॥

ज्वरमूर्छातिसारैश्च वमनाद्यैश्च कर्मभिः ।
कर्शितो बलवान्याति शीतार्तश्च बुभुक्षितः ॥३४॥

यः पिबत्यन्नपानानि लङ्घनप्लावनादिकम् ।
सेवते हीनसंज्ञाभिरर्दितः समुदीरयन् ॥३५॥

स्नेहस्वेदावनभ्यस्य शोषणं वा निषेवयेत् ।
शुद्धो वा सुद्धिहानिर्वा भजेत स्पन्दनानि वा ॥३६॥

वातोल्बणास्तस्य मलाः पृथक्चैव हि तेऽथवा ।
सर्वो रक्तयुतो वाताद्देहस्नोतोऽनुसारिणः ॥३७॥

ऊर्ध्वाधोमार्गमावृत्य वायुः शूलं करोति वै ।
स्पर्शोपलभ्यं गुल्मोत्थमुष्णं ग्रन्थिस्वरूपिणम् ॥३८॥

कर्षणात्कफविड्घातैर्मार्गस्यावरणेन वा ।
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥३९॥

स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये ।
ततः पिण्डकवच्छ्लेष्मा मलसंसृष्ट एव च ॥४०॥

गुलम इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः ।
वातजन्ये शिरः शूलज्वर प्लीहान्त्रकूजनम् ॥४१॥

वेधः सूच्येव विड्भ्रंशः कृच्छ्रे मूत्रं प्रवर्तते ।
गात्रे मुखे पदे शोथः ह्यग्निमान्द्यं तथैव च ॥४२॥

रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्यच ।
अनिरूपितसंस्थानो विविधाञ्जनयेद्व्यथाम् ॥४३॥

पिपीलिकाव्याप्त इव गुल्मः स्फुरति नुद्यते ।
पित्ताद्दाहाम्लकौ मूर्छा विड्भेदः स्वेदतृड्ज्वराः ॥४४॥

हारिद्रयं सर्वगात्रेषु गुल्माच्छोथस्य दर्शनम् ।
हीयते दीप्यते श्लेष्मा स्वस्थानं दहतीवच ॥४५॥

कफात्स्तैमित्यमरुचिः सदनं शिरसि ज्वरः ।
पीनसालस्यहृल्लासौ शुक्लकृष्णत्वगादिता ॥४६॥

गुल्मो गभीरः कठिनो गुरुर्गर्भस्थबालवत् ।
स्वस्थानस्था अधावन्तस्तत एवात्र मारकाः ॥४७॥

प्रायस्तु यत्तद्द्वन्द्वोत्था गुल्माः संसृष्टमैथुनाः ।
सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥४८॥

सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते ।
ऋतौ या चैव शूलार्ता यति वा योनिरोगिणी ॥४९॥

सेवते वानिलांश्च स्त्री क्रुद्धस्तस्याः समीरणः ।
निरुध्यात्यार्तवं योन्यां प्रतिमासं व्यवस्थितम् ॥५०॥

सुक्षौ करोति तद्गर्भे लिङ्गमाविष्करोति च ।
हृल्लासदौहृदस्तन्यदर्शनं कामचारिता ॥५१॥

क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयम् ।
रक्तस्य कुरुते तस्या वातपित्तोक्तगुल्मजान् ॥५२॥

गर्भाशये च सुतरां शूलांश्चैवासृगाश्रये ।
योनिस्त्रावश्च दौर्गन्ध्यं भूयः स्यन्दनवेदने ॥५३॥

कदापि गर्भवद्गुल्मः सर्वे ते रतिसम्भवाः ।
पाकञ्चिरेण भजते नैधते विद्रधिः पुनः ॥५४॥

पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयस्तु सः ।
अतः शीघ्रं विदाहित्वाद्वद्रधिः सोऽभीधीयते ॥५५॥

गुल्मान्तारश्रये बस्तिदाहश्च प्लीहवेदना ।
अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्तनम् ॥५६॥

अतो विपर्यये बाह्यकोष्ठाङ्गेषु च नातिरुक् ।
वैवर्ण्यमथ वा कासो बहिरुन्नतताधिकम् ॥५७॥

साटोपमत्युग्ररुजमाध्मानमुदरे भृशम् ।
ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते ॥५८॥

धनश्चाष्ठ्युपमो ग्रन्थिलोऽष्ठीलातु समुन्नता ।
समस्तालिङ्गसंयुक्तः प्रत्यष्ठीला तदाकृतिः ॥५९॥

पक्वशयोद्भवोऽप्येवं वायुस्तीव्ररुजाश्रयात् ।
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि ॥६०॥

आचोपमाध्मानमपक्तिशक्तिः आसन्नगुल्मस्य भवेच्च चिह्नम् ॥६१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रधिगुल्मनिदान नाम षष्ट्युत्तरशततमोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP