संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५७

आचारकाण्डः - अध्यायः ५७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ हरिरुवाच ॥
सप्ततिस्तु सहस्त्राणि भूम्युच्छ्रायोऽपि कथ्यते ॥
दशसाहस्त्रमेकैकं पातालं वृषभध्वज ॥१॥

अतलं वितलं चैव नितलं च गभस्तिमत् ॥
महाख्यं सुतलं चाग्रयं पातालं चापि सप्तमम् ॥२ ।

कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना ॥
भूयस्तत्र दैतेया वसन्ति च भुजङ्गमाः ॥३॥

रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु ॥
रौरवः सूकरो रोधस्तालो विनशनस्तथा ॥४॥

महाज्वालस्तप्तकुम्भो लवणोऽथि विमोहितः ॥
रुधिराख्यो वैतरणी कृमिशः कृमिभो जनः ॥५॥

असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः ॥
तथा पूयवहः पापो वह्निज्वालस्त्वधः शिराः ॥६॥

संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥
श्वभोजनोऽथाप्रतिष्ठोष्णवीचिर्नरकाः स्मृताः ॥७॥

पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः ॥
उपर्य्युपरि वै लोका रुद्र ! भूतादयः स्थिताः ॥८॥

वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत् ॥
तदण्डं महता रुद्र ! प्रधानेन च वेष्टितम् ॥९॥

अण्डं दशगुणं व्याप्तं नारायणः स्थितः ॥१०॥

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP