संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २१६

आचारकाण्डः - अध्यायः २१६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् ।
प्रज्वाल्य चाग्निं पर्युक्ष्यओं क्रष्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानत् ।
ओं पावक वैश्वानर इदमासनं अरणीगर्भसंस्कृततेजोरूप महाब्रह्मन्मुहूर्तास्त्रिषु वैश्वानरं प्रतिबोधयामि ।
ओं वैश्वानरे न उभयं आप्रयातु परावतः अग्निर्न स्वद्युतीरूपपृष्ठो दिवि पृष्ठोऽश्वि पृथिव्यां पृष्ठा विवेवा ओषधीचाविवेश वैश्वानरः सहसा पृष्ठोऽग्निः नमो दिव्य स षष्ठां नक्तम् ॥१॥

ओं प्रजापतये स्वाहा ।
ओं सोमाय स्वाहा ।
ओं बृहस्पतये स्वाहा ।
ओं अग्निषोमाभ्यां स्वाहा ।
ओं इन्द्राग्निभ्यां स्वाहा ।
ओं द्यावापृथिवीभ्यां स्वाहा ।
ओं इन्द्राय स्वाहा ।
ओं विश्वेभ्यो देवेभ्यः स्वाहा ।
ओं ब्रह्मणे स्वाहा ।
ओं अद्भ्यः स्वाहा ।
ओं ओषधिवनस्पतिभ्यः स्वाहा ।
ओं ग्रह्याय स्वाहा ।
ओं देवदेवताभ्यः स्वाहा ।
ओं इन्द्राय स्वाहा ।
ओं इन्द्रपुरुषेभ्यः स्वाहा ।
ओं यमाय स्वाहा ।
ओं यमपुरुषाय स्वाहा ।
ओं सर्वेभ्यो भूतेभ्यो दिवाचारिभ्यः स्वाहा ।
ओं वसुधापितृभ्यः स्वाहा ।
ओं ये भूता प्रचरन्ति दीनाच निमिहन्तो भुवनस्य मध्ये ।
तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु ।
ओं आचाण्डालपतिर्ददातु आचाण्डालपतितवायसेभ्यः ॥२॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैश्वदेवनिरूपणं नाम षोडशोत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP