संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २

आचारकाण्डः - अध्यायः २

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ ऋषय ऊचुः ॥
कथं व्यासेन कथितं पुराणं गारुडं तव ॥
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ॥१॥

सूत उवाच ॥
अहं हि मुनिभिः सार्द्धं गतो बदरिकाश्रमम् ॥
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ॥२॥

तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम् ॥

॥सूत उवाच ॥
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ॥३॥

मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् ॥
एवं पृष्टो यथा प्राह तथा विप्रा ? निबोधत ॥४॥

॥व्यास उवाच ॥
श्रृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव ॥
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ॥५॥

॥सूत उवाच ॥
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् ॥
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ॥६॥

॥व्यास उवाच ॥
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् ॥
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ॥७॥

॥ब्रह्मोवाच ॥
पुराणं गारुडं सारं रुद्रं च मां यथा ॥
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते ॥८॥

॥व्यास उवाच ॥
कथं रुद्रं सुरैः सार्द्धमब्रवीद्वै हरिः पुरा ॥
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ॥९॥

॥ब्रह्मोवाच ॥
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ॥
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ॥१०॥

पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर ? ॥
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ॥११॥

सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह ॥

॥रुद्र उवाच ॥
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ॥१२ ॥

सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् ॥
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ॥१३॥

विष्णोराराधनार्थं मे व्रतचर्य्या पितामह ॥
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ॥१४॥

विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् ॥
शुचिं शुचिपदं हँसं तत्पदं परमेश्वरम् ॥१५॥

युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् ॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥१६॥

गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
सहस्त्राक्षं सहस्त्राङ्‌घ्रिं सहस्त्रोरुं वराननम् ॥१७॥

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥१८॥

यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च ॥
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥१९॥

पुराणपुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु ॥
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥२०॥

यस्मिंल्लोकाः स्फुरन्तीमे जलेषु शकुन्यो यथा ॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥२१॥

अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः ॥
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥२२॥

चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ॥
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ॥२३॥

यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ॥२४॥

कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् ॥
परः कालात्परो यज्ञात्परः सदसतश्च यः ॥२५॥

अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ॥
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ॥२६॥

मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् ॥
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥२७॥

मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥२८॥

वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् ॥
यं ध्यायाम्यहमेतस्माद्व्रजामः सारमीक्षितुम् ॥२९॥

॥ब्रह्मोवाच ॥
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् ॥
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ॥३०॥

अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् ॥
सारात्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ॥३१॥

॥ब्रह्मोवाच ॥
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः ॥
पप्रच्छ विष्णुं देवाद्यैः श्रृण्वताममरैः सह ॥३२॥

॥रुद्र उवाच ॥
हरे कथय देवेश ! देवदेवः क ईश्वरः ॥
को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः ॥३३॥

कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया ॥
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ॥३४॥

कस्माद्देवाज्जगज्जातं जगत्पालयते च कः ॥
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ॥३५॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
कस्माद्देवात्प्रवर्त्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम् ॥३६॥

एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन ॥
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ॥३७॥

तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत् ॥

॥हरिरुवाच ॥
श्रृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ॥३८॥

अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः ॥
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः ॥३९॥

अहं हि पूजितो रुद्र ! ददामि परमां गतिम् ॥
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ॥४०॥

जगत्स्थितेरहं बीजं जगत्कर्त्ता त्वहं शिव ! ॥
दुष्टनिग्रहकर्त्ता हि धर्मगोप्ता त्वहं हर ! ॥४१॥

अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् ॥
अहं मंत्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ॥४२॥

स्वर्गादीनां च कर्त्ताहं स्वर्गादीन्यहमेव च ॥
योगी योगोहमेवाद्यः पुराणान्यहमेवच ॥४३॥

ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च ॥
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ॥४४॥

ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च ॥
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव ! ॥४५॥

सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव ! ॥
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ॥४६॥

अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम् ॥
वर्णाश्रमास्तथा चाहं तद्धर्मोऽहं पुरातनः ॥४७॥

यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च ॥
अहं सूर्य्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ॥४८॥

पुरा मां गरुडः पक्षी तपसाराधयद्भुवि ॥
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ॥४९॥

॥गरुड उवाच ॥
मम माता च विनता नागैर्दासीकृता हरे ॥
यथाहं देवताञ्जित्वा चामृतं ह्यानयामि तत् ॥५०॥

दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव ॥
महाबलो महावीर्य्यः सर्वज्ञो नागदारणः ॥५१॥

पुराणसंहिताकर्त्ता यथाऽहं स्यां तथा कुरुं ॥

॥विष्णुरुवाच ॥
यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ॥५२॥

नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि ॥
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ॥५३॥

महाबलो वाहनस्त्वं भविष्यसि विषार्दनः ॥
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ॥५४॥

यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति ॥
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ॥५५॥

यथाहं देवदेवानां श्रीः ख्यातो विनतासुत ॥
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति ॥५६॥

यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ॥
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ॥५७॥

इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ॥
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ॥५८॥

स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत् ॥

यक्षि ॐउंस्वाहाजापी विद्ययं गारुडी परा ॥
गरुडोक्तं गारुडं हि श्रृणु रुद्र ! मदात्मकम् ॥५९॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP