संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७३

आचारकाण्डः - अध्यायः ७३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
वैदूर्य्यपुष्परागाणां कर्केते भीष्मके वदे ॥
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विजा ॥१॥

कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात् ॥
वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिवर्णबीजम् ॥२॥

अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः ॥
कामभूतिकसीमानमनु तस्याकरो भवेत् ॥३॥

तस्य नादसमुत्थत्वादाकरः सुमहागुणः ॥
अभूदुत्तरीतो लोके लोकत्रयविभूषणः ॥४॥

तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः ॥
वैदूर्य्यरत्नमणयो विविधावभासस्तस्मात्स्फुलिङ्गनिवहा इव संबभूवुः ॥५॥

पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ॥
सर्वांस्तान्वर्णशोभाभिर्वैदूर्य्यमनुगच्छति ॥६॥

तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम् ॥
चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः ॥७॥

गुणवान्वैदूर्य्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः ॥
दोषैर्युक्तो दोषैस्तस्माद्यत्नात्परीक्षेत ॥८॥

गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः ॥
वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ॥९॥

लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात् ॥
गिरिकाचसदीप्तित्वात्स्फटिकं वर्णोज्ज्वलत्वेन ॥१०॥

यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ॥
तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापि तगौरवस्य ॥११॥

जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः ॥
तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः ॥१२॥

सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नरेण ॥
स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम् ॥१३॥

कुशलाकुशलैः प्रपूर्य्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ॥
गुणदोषसमुद्भवं लभन्ते मणयोऽर्थोन्तरमूल्यमेव भिन्नाः ॥१४॥

क्रमशः समतीतवर्त्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् ॥
यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥१५॥

आकरान्समतीतानामुदधेस्तीरसन्निधौ ॥
मूल्यमेतन्मणीनां तु न सर्वत्र महीतले ॥१६॥

सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ॥
तस्य सप्ततितमो भागः संज्ञारूपं करिष्यति ॥१७॥

शाणश्चतुर्माषमानो माषकः पंचकृष्णलः ॥
पलस्य दशमो भागो धरणः परिकीर्त्तितः ॥१८॥

इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥१९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः ॥७३॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP