संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६५

आचारकाण्डः - अध्यायः ६५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
समुद्रोक्तं प्रवक्ष्यामि नरस्त्रीलक्षणं शुभम् ॥
येन विज्ञातमात्रेण अतीतानागताप्रमा ॥१॥

अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ॥
श्लेष्टाङ्गुली ताम्रनखौ पादावुष्णौ शिरोज्झितौ ॥२॥

कूर्मोन्नतौ गूढगुल्फौ सुपार्ष्णो नृपतेः स्मृतौ ॥
शू(स) र्पाकारौ विरूक्षौ च वक्रौ पादौ शिरालकौ ॥३॥

संशुष्कौ पाण्डुरनखौ निः स्वस्य विरलाङ्गुली ॥
मार्गायोत्कंटकौ पादौ कषायसदृशौ तथा ॥४॥

विच्छित्तिदौ च वंशस्य ब्रह्मन्घौ शङ्कु (पक्र) सन्निभौ ॥
अगम्यागमने प्रीतौ जङ्घा विरलरोमिका ॥५॥

मृदुरोमा समा जङ्घा तथा करिकरप्रभा ॥
ऊरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः ॥६॥

निः स्वस्य सृगालजङ्घा रौमैकैकं चकूपके ॥
नृपाणां श्रोत्रियाणां च द्वे द्वे श्रिये च धीमताम् ॥७॥

त्र्याद्यैर्निः स्वा मानवाः स्युर्दुः स्वभाजश्च निन्दिताः ॥
केशाश्च वै कुञ्चिताश्च प्रवासे म्रियते नरः ॥८॥

निर्मांसजानुः सौभाग्यमल्पैर्निम्नै रतिः स्त्रियाः ॥
विकटैश्च दरिद्राः स्युः समांसै राज्यमेव च ॥९॥

महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः ॥
अपत्यरहितश्चैव स्थूललिङ्गो घनोज्झितः ॥१०॥

मेढ्र वामनते चैव सुतार्थरहितो भवेत् ॥
वक्रेऽन्यथा पुत्रवान्त्स्याद्दारिद्र्यं विनतेत्वधः ॥११॥

अल्पे त्वतनयो लिङ्गेशिरालेऽथ सुखी नरः ॥
स्थूलग्रन्थियुते लिङ्गे भवेत्पुत्रादिसंयुतः ॥१२॥

कोशगूढे दीर्घैर्भुग्नैश्च धनवर्जितः ॥
बलवान्युद्धशीलश्च लघुशेक्तः स एव च ॥१३॥

दुर्बलस्त्वेकवृषणो विषमाभ्याञ्चलः स्त्रियाम् ॥
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥१४॥

उद्वृं (द्ध) ताभ्यां च बह्वायू रूक्षैर्मणिभिरीश्वरः ॥
पाण्डरैर्मणिभिर्निः स्वा मलिनैः सुखभागिनः ॥१५॥

सशब्दनिः शब्दमूत्राः स्युदंरिद्राश्च मानवाः ॥
एकद्वित्रिचतुः पञ्चषड्भिर्धाराभिरेव च ॥१६॥

दक्षिणावर्त्तचलितमूत्रा भिश्च नृपाः स्मृताः ॥
विकीर्णमूत्रा निः स्वाश्च प्रधानसुखदायिकाः ॥१७॥

एकधाराश्च वनिताः स्निग्धैर्मणिभिरुन्नतैः ॥
समैः स्त्रीरत्नधनिनो मध्ये निम्नैश्च कन्यकाः ॥१८॥

शुष्कैर्निश्वा विशुष्कैश्च दुर्भगाः परिकीर्त्तिताः ॥
पुष्पगन्धे नृपाः शुक्रे मधुगन्धे धनं बहुः ॥१९॥

पुत्राः शुक्रे मत्स्यगन्धे तनुशुक्रे च कन्यकाः ॥
महाभोगी मांसगन्धे यज्वा स्यान्मदगन्धिनि ॥२०॥

दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी ॥
अशीघ्रमैथुन्यल्पायुः स्थूलस्फिक् स्याद्धनोज्झितः ॥२१॥

मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः स्मृतः ॥
भवेत्सिंहकटी राजा निः स्वः कपिकटिर्नरः ॥२२॥

सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः ॥
धनिनो विपुलैः पार्श्वैर्निः स्वा रक्तैश्च निम्नगैः ॥२३॥

समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः ॥
नृपाश्चोन्नतकक्षाः स्युर्जिह्ना विषमकक्षकाः ॥२४॥

मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः ॥
विस्तीर्णाभिर्बहुलाभिर्निम्नाभिः क्लेशभागिनः ॥२५॥

बलिमध्यगता नाभिः शूलबाधां करोति हि ॥
वामावर्त्तश्च साध्यं वै मेधां दक्षिणतस्तथा ॥२६॥

पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम् ॥
अधो गवाढ्यं कुर्य्याच्च नृपत्वं पद्मकर्णिका ॥२७॥

एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः ॥
त्रिवलिः क्ष्माप आचार्य्य ऋजुभिर्वालिभिः सुखी ॥२८॥

अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः ॥
मृदुभिः सुसमैश्चैव दक्षिणावर्त्तरोमभिः ॥२९॥

विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः ॥
अनुद्धतैश्चूचुकैश्च भवन्ति सुभगा नराः ॥३०॥

निर्धना विषमैर्दोर्घैः पीतोपचितकैर्नृपाः ॥
समोन्नतं च हृदयमकम्पं मांसलं पृथु ॥३१॥

नृपाणामधमानां च खररोमशिरालकम् ॥
अर्थवान्समवक्षाः स्यात्पीनैर्वक्षोभिरूर्जितः ॥३२॥

वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा ॥
विषमैर्जत्रुभिर्निः स्वा अस्थिनद्धैश्च मानवाः ॥३३॥

उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः ॥
निः स्वश्चिपिटकण्ठः स्याच्छिराशुष्कगलः सुखी ॥३४॥

शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः ॥
कम्बुग्रीवश्च नृपतिर्लम्बकण्ठोऽतिभक्षकः ॥३५॥

अरोमशा भुग्नपृष्ठं शुभंचाशुभमन्यथा ॥
कक्षाश्वत्थदला श्रेष्ठा सुगन्धिर्मृगरोमिका ॥३६॥

अन्यथा त्वर्थहीनानां दारिद्र्यस्य च कारणम् ॥
संमासौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ शुभौ ॥३७॥

आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥
निः स्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकर प्रभौ ॥३८॥

हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः ॥
मेधाविनां च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः ॥३९॥

स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा ॥
कपितुल्यकराः निः स्वा व्याघ्रतुल्यकरैर्बलम् ॥४०॥

पितृवित्तविनाशश्च निम्नात्करतलान्नराः ॥
मणिबन्धैर्निगूढैश्च सुश्लिष्टैः शुभगन्धिभिः ॥४१॥

नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः ॥
संवृतैश्चैव निम्नैश्च धनिनः परिकीर्त्तिताः ॥४२॥

प्रोत्तानक रदातारो विषमैर्विषमा नराः ॥
करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः ॥४३॥

परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः ॥
तुषतुल्यनखाः क्लीबाः कुटिलैः स्फुटितैर्नराः ॥४४॥

निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः ॥
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ॥४५॥

अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घांगुलिपर्वकः ॥
दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः ॥४६॥

घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै ॥
नृपतेः करतलगा मणिबन्धात्समुत्थिताः ॥४७॥

युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः ॥
वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे ॥४८॥

शङ्खातपत्रशिविकागजपद्मोपमा नृपे ॥
कुम्भाङ्कुशपताकाभा मृणालाभा निधीश्वरे ॥४९॥

दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ॥
चक्रासितोमरधनुः कुन्ताभा नृपतेः करे ॥५०॥

उलूखलाभा यज्ञाढ्या वेदीभा चाग्निहोत्रिणि ॥
वापीदेवकुल्याभास्त्रिकोणाभाश्चधार्मिके ॥५१॥

अङ्गुष्ठमूलगा रेखाः पुत्राः सूक्ष्माश्च दारिकाः ॥
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥५२॥

शतायुषं च कुरुते छिन्नया तरुतो भयम् ॥
निः स्वाश्च बहुरेखाः स्युनिर्द्रव्याश्चिबुकैः कृशैः ॥५३॥

मांसलैश्च धनोपेता आरक्तैरधरैर्नृपाः ॥
बिम्बोपमैश्च स्फुटितैरोष्ठैरूक्षैश्चकण्डितैः ॥५४॥

विषमैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः ॥
तीक्ष्णा दन्ताः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥५५॥

श्लक्ष्णा दीर्घा च विज्ञेया तालुः श्वेते धनक्षये ॥
कृष्णे च परुषो वक्रं समं सौम्यं च संवृतम् ॥५६॥

भूपानाममलं श्लक्ष्णं विपरीतं च दुः खिनाम् ॥
महा दुः खं दुर्भगाणां स्त्रीमुखं पुत्रमाप्नुयात् ॥५७॥

आढ्यानां वर्त्तुलं वक्रं निर्द्रव्याणां च दीर्घकम् ॥
भीरुवक्त्रः पापकर्मा धूर्त्तानां चतुरश्रकम् ॥५८॥

निम्नं वक्रमपुत्राणां कृपणानां च ह्रस्वकम् ॥
सम्पूर्णं भोगिनां कान्तं श्मश्रु स्निग्धं शुभं मृदु ॥५९॥

संहतं चास्फुटिताग्रं रक्तश्मश्रुश्च चौरकः ॥
रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥६०॥

निर्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णकाः ॥
शङ्कुकर्णाश्च राजानो रोमकर्णा गतायुषः ॥६१॥

बृहत्कर्णाश्च धनिनोराजानः परिकीर्त्तिताः ॥
कर्णैः स्निग्धावनद्धैश्च व्यालम्बैर्मांसलैर्नृपाः ॥६२॥

भोगी वै निम्नगण्डः स्यान्मत्री सम्पूर्णगण्डकः ॥
शुकनासः सुखी स्याच्च शुष्कनासोऽतिजीवनः ॥६३॥

छिन्नाग्रकूपनासः स्यादगम्यागमने रतः ॥
दीर्घनासे च सौभाग्यं चौरश्चाकुञ्चितेन्द्रियः ॥६४॥

मृत्युश्चिपिटनासे स्याद्धीनो भाग्यवतां भवेत् ॥
स्वल्पच्छिद्रौ सुपुटौ च अवक्रौ च नृपेश्वरे ॥६५॥

क्रूरे दक्षिणवक्रा स्याद्वलिनां च क्षुतं सकृत् ॥
स्याद्विनिष्पिण्डितं ह्रादि सानुनादं च जीवकृत् ॥६६॥

वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः ॥
मार्जारलोचनैः पाप्मा दुरात्मा मधुपिङ्गलैः ॥६७॥

क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः ॥
जिह्यैश्च लोचनैः शूराः सेनान्यो गजलोचनाः ॥६८॥

गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ॥
नीलोत्प लाक्षा विद्वांसः सौभाग्यं श्यामचक्षुषाम् ॥६९॥

स्यात्कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल ॥
मण्डलाक्षाश्च पापाः स्युर्निः स्वाः स्युर्दोनलोचनाः ॥७०॥

दृक् स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता ॥
विशालोन्नताः सुखिनी दरिद्रा विषमभ्रुवः ॥७१॥

घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः ॥
आढ्यो निः स्वश्च खण्डभ्रृर्मध्ये च विनतभ्रुवः ॥७२॥

स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः ॥
उन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा ॥७३॥

निर्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः ॥
आचार्य्याः शुक्तिविशालैः शिरालैः पापकारिणः ॥७४॥

उन्नताभिः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः ॥
निम्नैर्ललाटैर्बन्धार्हाः क्रूरकर्मरतास्तथा ॥७५॥

संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ॥
अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् ॥७६॥

प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम् ॥
अकम्पं हसितं श्रेष्ठं मीलिताक्षमघावहम् ॥७७॥

असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा ॥
ललाटोपसृतास्तिस्त्रो रेखाः स्युः शतवर्षिणाम् ॥७८॥

नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः ॥७९॥

केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् ॥
पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्वहुभिस्तथा ॥८०॥

चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः ॥
विंशतिर्वामवक्रा भिरायुः क्षुद्राभिरल्पकम् ॥८१॥

छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी ॥
चिपिटैश्च पितुर्मृत्युर्गवाद्याः परिमण्डलैः ॥८२॥

घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्जितः ॥
कृष्णैराकुञ्चितैः केशैः स्निग्धैरेकैकसम्भवैः ॥८३॥

अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः ॥
बहुमूलैश्च विषमैः स्थूलाग्रैः कपिलैस्तथआ ॥८४॥

निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्द्धजैः ॥
यद्यद्गात्रं महारूक्षं शिरालं मांसवर्जितम् ॥८५॥

तत्तत्स्या दशुभं सर्वं ततोऽन्यथा ॥
विपुलस्त्रिषु गम्भीरो दीर्घः सूक्ष्मश्च पञ्चसु ॥८६॥

षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तसमो नृपः ॥
नाभिः स्वरश्च ससत्त्वं च त्रयं गम्भीरमीरितम् ॥८७॥

पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः ॥
चक्षुः कक्षा नासिका च षट् स्यु र्नृपकृकाटिकाः ॥८८॥

उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम् ॥
पृष्ठं चत्वारि रक्तानि करताल्वधरा नखाः ॥८९॥

नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै ॥
दशनांगुलिपर्वाणि नखकेशत्वचः शुभाः ॥९०॥

दीर्घाः स्तनान्तरं बाहुदन्तलोचननासिकाः ॥
नराणां लक्षणं प्रोक्तं वदामि स्त्रीषु लक्षणम् ॥९१॥

राज्ञ्याः स्निग्धौ समौ पादौ तलौ ताम्रौ नखौ तथा ॥
श्लिष्टांगुली चोन्नताग्रौ तां पाप्य नृपतिर्भवेत् ॥९२॥

निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ ॥
अस्वेदिनौ मृदुतलौ मत्स्यांकुशघ्वजाञ्चितौ ॥९३॥

वज्राब्जहलचिह्नौ च दास्याः पादौ ततोऽन्यथा ॥
जङ्घे च रोमरहिते सुवृत्ते विशिरे शुभे ॥९४॥

अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम् ॥
ऊरू करिकराकारावरोमौ च समौ शुभौ ॥९५॥

अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ॥
श्रोणीललाटकं स्त्रीणामूरु कूर्मोन्नतं शुभम् ॥९६॥

गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः ॥
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा ॥९७॥

नाभिः प्रदक्षिणावर्त्ता मध्यं त्रिबलिशोभितम् ॥
अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ ॥९८॥

कठिनौ रोमशा शस्ता मृदुग्रीवा च कम्बुभा ॥
आरक्तावधरौ श्रेष्ठौ मांसलं वर्त्तुलं मुखम् ॥९९॥

कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् ॥
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥१००॥

नासा समा समपुटा स्त्रीणां तु रुचिरा शुभा ॥
नीलोत्पलनिभं चक्षुर्नासालग्नं न लम्बकम् ॥१०१॥

न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ॥
शुभमर्द्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥१०२॥

सुमांसलं कर्णयुग्मं समं मृदु समाहितम् ॥
स्निग्धा नीलाश्च मृदवो मूर्द्धजाः कुञ्चिताः कचाः ॥१०३॥

स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितलेऽथ वा ॥
वाजिकुञ्जरश्रीवृक्षयूपेषुयवतोमरैः ॥१०४॥

ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः ॥
शङ्खातपत्रपद्मैश्च मत्स्यस्वस्तिकसद्रथैः ॥१०५॥

लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः ॥
निगूढमणिबन्धौ च पद्मगर्भोपमौ करौ ॥१०६॥

न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम् ॥
रेखान्वितं त्वविधवां कुर्य्यात्संभोगिनीं स्त्रियम् ॥
रेखा या मणिबन्धोत्था गता मध्याङ्गुलिं करे ॥१०७॥

गता पाणितले या च योर्द्ध्वपादतले स्थिता ॥
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुखाय च ॥१०८॥

कनिष्ठिकामूलभवा रेखा कुर्य्याच्छतायुषम् ॥
प्रदेशिनीमध्यमाभ्यामन्तरालगता सती ॥१०९॥

ऊना ऊनायुषं कुर्य्याद्रेखाश्चांगुष्ठमूलगाः ॥
बृहत्यः पुत्रास्तन्व्यस्तु प्रमदाः परिकीर्त्तिताः ॥११०॥

स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम् ॥
शुभं तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा ॥१११॥

कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् ॥
अङ्गुष्ठं वा गतातीत्य तर्जनी कुलटा च सा ॥११२॥

ऊर्द्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके ॥
रोमशेचातिमांसे च कुम्भाकारं तथोदरम् ॥११३॥

वामावर्त्तं निम्नमल्पं दुः खितानां च गुह्यकम् ॥
ग्रीवया ह्रस्वया निः स्वा दीर्घया च कुलक्षयः ॥११४॥

पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः ॥
केकरे पिङ्गले नेत्रे श्यामे लोलेक्षणा सती ॥११५॥

स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी ॥
प्रलम्बिनी ललाटे तु देवरं हन्ति चाङ्गना ॥११६॥

उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः ॥
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्त्तुरेव हि ॥११७॥

स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा ॥
कराला विषमा दन्ताः क्लेशाय च भवन्ति ते ॥११८॥

चौर्य्याय कृष्णमांसाश्च दीर्घा भुर्त्तुश्च मृत्यवे ॥
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ॥११९॥

शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि ॥
समुन्नतोत्तरौष्ठी या कलहे रूक्षभाषिणी ॥१२०॥

स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः ॥
नरस्त्रीलक्षणं प्रोक्तं वक्ष्ये तज्ज्ञानदायकम् ॥१२१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीनरलक्षणं नाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP