संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ३५

आचारकाण्डः - अध्यायः ३५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर ॥
विश्वामित्रऋषिश्चैव सविता चाथ देवता ॥१ ॥

ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता ॥
विनियोगैकनयना कात्यायनसगोत्रजा ॥२ ॥

त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता ॥
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ॥३ ॥

त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा ॥
जेप च त्रिपदा प्रोक्ता अर्चने च चतुष्पदा ॥४ ॥

न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने ॥
गायत्त्रीं विन्यसेन्नित्यं सर्वपापप्रणाशिनीम् ॥५ ॥

पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः ॥
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ॥६ ॥

स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः ॥
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे ॥७ ॥

पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् ॥
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ॥८ ॥

श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् ॥
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ॥९ ॥

शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् ॥
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ॥१० ॥

यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा ॥
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ॥११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥३५ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP