संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २४

आचारकाण्डः - अध्यायः २४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः ॥
गणासनं गणमूर्त्तिं गणाधिपतिमर्च्चयेत् ॥१॥

गामादिहृदयाद्यंगं दुर्गाया गुरुपादुकाः ॥
दुर्गासनं च तन्मूर्त्तिं ह्रीं दुर्गे रक्षणीति च ॥२॥

ह्रृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया ॥
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात् ॥३॥

चण्‍रूपा चण्डिकाख्या दुर्गेदुर्गेऽथ रक्षिणि ॥
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः ॥४॥

सदाशिवमहाप्रेतपद्मासनमथापि वा ॥
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः ॥
ॐ ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्त्तिं च त्रिपुराह्रृदयादिकम् ॥५॥

पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी ॥
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता ॥६॥

चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत् ॥
असितांगोरुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥७॥

कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी ॥८॥

वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः ॥
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि ॥९॥

शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम् ॥
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत् ॥१०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम् चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP