संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७

आचारकाण्डः - अध्यायः १७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
पुनः सूर्य्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ॥
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥१॥

आवाहनीं ततो बद्धा मुद्रामावाहयेद्धरिम् ॥
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ॥२॥

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ! ॥
ऐशान्यां तु शिरः स्थाप्यं नैर्ऋत्यां विन्यसेच्छिखाम् ॥३॥

पौरन्दर्य्यां न्यसेद्धर्म्ममेकाग्रस्थितमानसः ॥
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ॥४॥

ऐशान्यां स्थापयेत्सोमं पौरन्दर्य्यां तु लोहितम् ॥
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ॥५॥

नैर्ऋत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ॥
वायव्यां च तथा केतुं कौबेर्य्यां राहुमेव च ॥६॥

द्वितीयायां तु कक्षायां सूर्य्यान्द्वादश पूजयेत् ॥
भगः सूर्य्योऽर्य्यमा चैव मित्रो वै वरुणस्तथा ॥७॥

सविता चैव धाता च विवस्वांश्च महाबलः ॥
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ॥८॥

पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः ।
जया च विजया चैव जयन्ति चापराजिता ॥
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत् ॥९॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP