संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १९५

आचारकाण्डः - अध्यायः १९५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
सल्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु ।
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥१॥

प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च ।
नमो विज्ञानमात्राय परमानन्दमूर्तये ॥२॥

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ।
त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥३॥

हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ।
यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥४॥

मृन्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः ।
यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥५॥

ओं नमो भगवते महापुराषाय महाभूतपतये सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया? चरणारविन्दयुगल परमेष्ठिन्नमस्ते ।
अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पञ्चनवत्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP