संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १८३

आचारकाण्डः - अध्यायः १८३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
मरिचं शृङ्गवेरं च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर ! ॥१॥

पिप्पली पिप्पलीमूलं मरिचं तगरं वचा ।
देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥२॥

अनेनैव प्रयोगेण ह्यतिसारो विनश्यति ।
मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम् ॥३॥

हरीतकी समगुडा मधुना सह योजिता ।
विरेचनकरी रुद्र ! भवतीति न संशयः ॥४॥

त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम् ॥५॥

हरीतकी शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ।
ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् ॥६॥

अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् ।
गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच ।
वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत् ॥७॥

सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् ।
समूलां छागदुग्धेन अपस्मारहरं पिबेत् ॥८॥

अश्वगन्धाभये चैव उदकेन समं पिबेत् ।
रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा ॥९॥

हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत् ।
शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम् ॥१०॥

गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम् ।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् ।
ओं हुं नम इति ॥११॥

श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् ।
ओं जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फटिति ॥१२॥

पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत् ।
चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा ॥१३॥

ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम् ।
सर्वज्वराणां धूपोऽयं हरश्चातुर्थिकस्य च ॥१४॥

करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ।
पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥१५॥

पिप्पलीमधुपानाच्च तथा मधुरभोजनात् ।
प्लीहा विनश्यते रुद्र तथा सूरणसेवनात् ॥१६॥

पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् ।
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ॥१७॥

अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम् ।
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ॥१८॥

रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् ।
कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा ॥१९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्र्यशीत्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP