संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५०

आचारकाण्डः - अध्यायः ५०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ब्रह्मोवाच ॥
अहन्यहनि यः कुर्य्यात्क्रियां स ज्ञानमाप्नुयात् ॥
ब्राह्मे मुहूर्त्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ॥१ ॥

चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् ॥
उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः ॥२ ॥

स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥
प्रतः स्नानेन पूर्यते येऽपि पापकृतो जनाः ॥३ ॥

तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ॥४ ॥

सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि ॥
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः ॥५ ॥

अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् ॥
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः ॥६ ॥

न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् ॥
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ॥७ ॥

अशक्तावशिरस्कं तु स्नानमस्य विधीयते ॥
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम् ॥८ ॥

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ॥
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत् ॥९ ॥

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ॥
आग्रेयं भस्मनाऽऽपादमस्तकाद्देहधूननम् ॥१० ॥

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ॥
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥११ ॥

वारुणं चावगाहं च मानसं त्वात्मवेदनम् ॥
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम् ॥१२ ॥

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ॥
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ॥१३ ॥

अपामार्गं च विल्वं च करवीरं च धावने ॥
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम् ॥१४ ॥

प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ॥
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥१५ ॥

आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः ॥
संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः ॥१६

आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥
ॐकारव्याहृतियुतां गायत्त्रीं वेदमातरम् ॥१७ ॥

जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः ॥
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ॥१८ ॥

प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ॥
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ॥१९ ॥

ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ॥
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः ॥२० ॥

प्राङ्‌मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥२१ ॥

यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् ॥
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः ॥२२ ॥

उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् ॥
योऽन्यत्र कुरुते यत्नं धर्म कार्य्ये द्विजोत्तमः ॥२३ ॥

विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ॥२४ ॥

उपासितो भवेत्तेन देवो योगतनुः परः ॥
सहस्त्रपरमां नित्यां शतमध्यां दशावराम् ॥२५ ॥

गायत्त्रीं वै जपेद्विद्वान्प्राङ्‌मुखः प्रयतः शुचिः ॥
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः ॥२६ ॥

मन्त्रैस्तु विविधैः सारैः ऋग्‌यजुःसामसंज्ञितैः ॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ॥२७ ॥

कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः ॥
ॐ खखोल्काय शान्ताय कारणत्रयहेतवे ॥२८ ॥

निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥२९ ॥

भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः ॥
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम् ॥३० ॥

प्रातः काले च मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ॥
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि ॥३१ ॥

प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ॥
ऋत्विक् पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ॥३२ ॥

प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ॥
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम् ॥३३ ॥

दैवतानि नमस्कुर्य्यादुपहारान्निवेदयेत् ॥
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ॥३४ ॥

वेदाभ्यासं ततः कुर्य्यात्प्रयत्नाच्छक्तितो द्विजः ॥
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत् ॥३५ ॥

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः ॥३६ ॥

उपयादीश्वरं चैव योगक्षेमप्रसिद्धये ॥
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः ॥३७ ॥

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ॥
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च ॥३८ ॥

नदीषु देवखातेषु तडागेषु सरः सु च ॥
स्नानं समाचरेन्नैव परकीये कदाचन ॥३९ ॥

पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ॥४० ॥

अधश्च तिसृभिः क्षाल्यं पादौ षट्‌भिस्तथैव च ॥
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्रिका ॥४१ ॥

गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः ॥
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ॥४२ ॥

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ॥
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः ॥४३ ॥

स्नानकाले स्मरेद्विष्णमापो नारायणो यतः ॥
प्रेक्ष्य ॐकारमादित्यं त्रिर्निमज्जेज्जलाशये ॥४४ ॥

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥
अंतश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥४५ ॥

त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम् ॥४६ ॥

सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् ॥
ततः संमार्जनं कुर्य्यादापोहिष्ठामयोभुवः ॥४७ ॥

इदमापः प्रवहतव्याहृतिभिस्तथैव च ॥
ततोऽभिमन्त्रितं तोयमापो हिष्ठादिमन्त्रकैः ॥४८ ॥

अन्तर्जलमवाङ्‌मग्नो जपेत्त्रिरघमर्षणम् ॥
द्रुपदां वाथ सावित्री तद्विष्णोः परमं पदम् ॥४९ ॥

आवर्त्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् ॥
आपः पाणौ समादाय जप्त्वा वै मार्जने कृते ॥५० ॥

विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः ॥
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम् ॥५१ ॥

अथोपतिष्ठेदादित्यमूर्द्ध्वपुष्पान्विताञ्जलिम् ॥
प्रक्षिप्यालोकयेद्देवमुदयंतं न शक्यते ॥५२ ॥

उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः ॥
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥५३ ॥

अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् ॥
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कुशासने ॥५४ ॥

तिष्ठंश्च वीक्ष्यमाणोऽर्कं जपं कुर्य्यात्समाहितः ॥
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ॥५५ ॥

कर्त्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता ॥
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत् ॥५६ ॥

अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः ॥
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ॥५७ ॥

आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥५८ ॥

आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ॥
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ॥५९ ॥

पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ॥६० ॥

देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणे ॥६१ ॥

प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत ॥
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ॥६२ ॥

स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः ॥
ब्रह्माणं शंकरं सूर्य्यं तथैव मधुसूदनम् ॥६३ ॥

अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हरः ! ॥
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु ॥६४ ॥

आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः ॥६५ ॥

नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक्‌ पृथक् ॥
नर्तेह्याराधनात्पुण्यं विद्यते कर्म वैदिकम् ॥६६ ॥

तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् ॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ॥६७ ॥

निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे ॥
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥६८ ॥

अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् ॥
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ॥६९ ॥

यदि स्यात्तर्पणादर्वाग्ब्रह्मयज्ञं कुतो भवेत् ॥
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥७० ॥

वैश्वदेवस्तु कर्त्तव्यो देवयज्ञः स तु स्मृतः ॥
भूतयज्ञः स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः ॥७१ ॥

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ॥
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः ॥७२ ॥

एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः ॥
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः ॥७३ ॥

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ॥
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥७४ ॥

पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् ॥
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः ॥७५ ॥

भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् ॥
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥७६ ॥

गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ॥
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा ॥७७ ॥

भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे ॥
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः ॥७८ ॥

भुञ्जति बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ॥७९ ॥

भुञ्जते चेत्स मूढात्मा तिर्य्यग्योनिं च गच्छति ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ॥८० ॥

नाशयन्त्याशु पापानि देवानामर्चनं तथा ॥
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ॥८१ ॥

भुङ्‌क्ते स याति नरकान्त्सूंकरेष्वेव जायते ॥
अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा ॥८२ ॥

अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् ॥
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ॥८३ ॥

मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम ॥
आदन्तजननात् सद्य आचूडादेकरात्रकम् ॥८४ ॥

त्रिरात्रमौपनयनाद्दशरात्रमतः परम् ॥
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ॥८५ ॥

शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम् ॥८६ ॥

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP